द्विजप्रोक्ता दर्शनोपरान्त शिवस्तुतिः १
(शिवरहस्यान्तर्गते उग्राख्ये)
द्विजः (उवाच)
कृतार्थोऽस्मि महादेव त्वत्पादाम्बुजदर्शनात् ।
यदिदं चिन्त्यते नित्यं योगिभिर्योगतत्परैः ॥ ५१॥
तदिदं पादकमलं तव देवोत्तम प्रभो ।
सर्वदेवस्तुतं नित्यं दृष्टं भाग्यवशान्मया ॥ ५२॥
यद्विष्णुनेत्रपद्मेन पूजितं त्वत्पदाम्बुजम् ।
सर्वामरगणाराध्यं दृष्टं भाग्यवशान्मया ॥ ५३॥
इदमत्युत्तमं रूपं दृष्टं केनापि न प्रभो ।
दृष्टमद्य मया शम्भो त्वत्प्रसादेन मोक्षदम् ॥ ५४॥
भक्तिस्त्वय्येव सततं ममास्त्वव्यभिचारिणी ।
नित्यं तवैव पूजायां भतिरस्तु मम प्रभो ॥ ५५॥
तव नामजपे भक्तिर्ममास्त्वन्वहमीश्वर ।
भक्तिरस्त्वनिशं शम्भो तत्र नामानुकीर्तने ॥ ५६॥
नित्यं मम मनोभृङ्गस्तवैव चरणाम्बुजे ।
सञ्चरत्वतिसन्तुष्टो मोक्षपुण्यरसान्वितः ॥ ५७॥
त्वत्पादकमलद्वन्द्वे द्वन्द्वदुःखनिवारके ।
विष्णुनेत्रार्चिते नित्यं प्रीतिरस्तु महेश्वर ॥ ५८॥
ममास्तु भक्तिरनिशं भस्मरुद्राक्षधारणे ।
ममास्तु भक्तिरनिशं शिवभक्ताभिपूजने ॥ ५९॥
शम्भो शिव शिवेत्येव वदतो मम शङ्कर ।
भस्मरुद्राक्षवपुषस्तनुत्यागोऽस्तु मोक्षद ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्ता दर्शनोपरान्त शिवस्तुतिः १ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ५१-६०॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 51-60..
Proofread by Ruma Dewan