द्विजप्रोक्तं बिल्वित्यादिना शिवार्चनोपदेशम्

द्विजप्रोक्तं बिल्वित्यादिना शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) द्विजः (उवाच) - बिल्वपत्रान्तरालैस्तु सञ्छाद्य शिवमस्तकम् । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ३१६॥ बिल्वपत्रैः समभ्यर्च्य शङ्करं याति शङ्करम् । महद्भ्यः पातकेभ्योऽपि मुक्तिं यास्यत्यसंशयम् ॥ ३१७॥ त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुषम् । त्रिजन्मपापसंहारमेकवित्वं शिवार्पितम् ॥ ३१८॥ त्रिशूलसन्निभैरीशे बिल्वपत्रैः समर्चिते । सद्य एव विनश्यन्ति महापातककोटयः ॥ ३१९॥ बिल्वपत्रेण शुष्केणाप्यर्चितः पार्वतीपतिः । ददाति परमामृद्धिं सायुज्यं च तनुव्यये ॥ ३२०॥ बिल्वपत्रं स्वतः शुद्धं शिवप्रियकरं शुभम् । शुभे पर्युषितत्त्वं च बिल्वपत्रेषु न ध्रुवम् ॥ ३२१॥ बिल्वपत्रस्य चूर्णैरप्यर्चनीयः सदाशिवः । रत्नवद्रक्षणीयानि बिल्वपत्राणि सन्ततम् ॥ ३२२॥ बिल्वपत्रार्चनेनैव तुष्टो भवति शङ्करः । महादेवस्य साम्बस्य बिल्वपत्रमतिप्रियम् ॥ ३२३॥ यथा प्रिया हैमवती बिल्वपत्रं तथा प्रियम् । अखण्डैर्नूतनैः शुद्धैबिल्वपत्रैः प्रयत्नतः ॥ ३२४॥ यः पूजयति गौरीशं स गौरीशं प्रयास्यति । करवीरस्य पुष्पेण रक्तेन धवलेन वा ॥ ३२५॥ यः पूजयति गौरीशं स पापेभ्यो विमुच्यते । यत्पुण्यं लभते मर्त्यो शिवे रत्नसमर्चनात् ॥ ३२६॥ तत्पुण्यं लभते मर्त्यः करवीरस्य पूजया । सुवर्णकमलानां च पूजया गिरिजापतिः ॥ ३२७॥ हृष्टो ददाति सायुज्यमर्चकाय न संशयः ॥ ३२८॥ ॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्तं बिल्वित्यादिना शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ३१६-३२८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 316-328.. Proofread by Ruma Dewan
% Text title            : Dvijaproktam Bilvityadina Shivarchanopadesham
% File name             : dvijaproktaMbilvityAdinAshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham bilvityAdinA dvijaproktaM (shivarahasyAntargatam)
% engtitle              : dvijaproktaM bilvityAdinA shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 316-328||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org