द्विजप्रोक्तं शिवार्चनोपदेशम् २
(शिवरहस्यान्तर्गते उग्राख्ये)
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यः कालकालः सर्वज्ञः सर्ववन्द्यो महेश्वरः ॥ ४१९॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
येनेदं सृष्टमखिलं जगत्स्थावरजङ्गमम् ॥ ४२०॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
येन सम्पाल्यते नित्यं सर्वमेतच्चराचरम् ॥ ४२१॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
येनेदं विश्वमखिलं भस्मसात्क्रियते क्षणात् ॥ ४२२॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यः पूर्णः सच्चिदानन्दः सर्वव्यापी विभुः प्रभुः ॥ ४२३॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यो निर्गुणोऽपि सगुणः परमानन्दविग्रहः ॥ ४२४॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यन्नामश्रवणादेव भुक्तिर्मुक्तिश्च जायते ॥ ४२५॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यत्कथा श्रवणात्सद्यो दग्धाः संसारवासनाः ॥ ४२६॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यमर्चयन्ति मुनयो हृत्पङ्कजनिवासिनम् ॥ ४२७॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यदर्चनेन सर्वैश्च गाणपत्यमवाप्यते ॥ ४२८॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यद्वामाङ्गादभूद्विष्णुर्दक्षिणाङ्गात्प्रजापतिः ॥ ४२९॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यमाहुर्निष्कलं शान्तं निरवद्यं निरञ्जनम् ॥ ४३०॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यमाहुः पुरुषं शान्तं नीलग्रीवं पिनाकिनम् ॥ ४३१॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यमाहुः श्रीविरूपाक्षमुमादेहार्धधारिणम् ॥ ४३२॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यमाहुः करुणासिन्धुं भक्तबन्धुमुमापतिम् ॥ ४३३॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ।
यं विदित्वाऽमृतीभूय न पुनर्गर्भभाङ्नरः ॥ ४३४॥
स सर्वदा पूजनीयो देवदेवोत्तमः शिवः ॥ ४३५॥
॥ इति शिवरहस्यान्तर्गते द्विजप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ४१९-४३५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 419-435..
Notes:
The Dvija द्विजः delivers Upadeśa उपदेश about essentiality of worshiping Maheśvara Śiva महेश्वर शिव.
Proofread by Ruma Dewan