द्व्यर्थिरामेश्वरस्तोत्रम्
%२२
भागीरथीपुण्यजलाभिषिक्तो यो ब्रह्महत्याद्यघतः पुनाति ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ १॥
यद्दर्शनं कायिकवाचिकादिपापापहं तापहरं वरं च ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ २॥
त्रिकालसन्दर्शनतोऽपि तृप्तो ददाति सिद्धीरुभयीर्महात्मा ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ३॥
रुद्राभिषेकप्रिय ईश्वरो यः सर्वार्थदो भाविककामपूरः ॥
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ४॥
यो बिल्वपत्रैस्त्रिदलैर्भवारिः सम्पूजितो यच्छति भुक्तिमुक्ती ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ५॥
सम्पूजितो योऽप्यजितः प्रदोषे ददाति भुकिन्त सकलाधिशान्तिम् ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ६॥
यः शुद्धचित्तेन हि संस्मृतोऽजो भवत्यरं भक्तजितो जितारिः ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ७॥
न ज्ञायते वाङ्मनसातिदूरो देवादिभिर्यन्महिमानियत्तः ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ८॥
रामेश्वराष्टकमिदं सुखदं विखेदं
तापत्रयोपशमदं मदमत्सरादम् ।
भक्तेष्टदं जननमृत्युगदागदं यो
भक्त्या पठेत्स परमं पदमेति शम्भोः ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
भरताख्यद्विजस्थापितरामेश्वरस्तोत्रं रामेश्वराष्टकं च सम्पूर्णम् ।