एकं शिवम् भजन गीतम्
शिवं ... शिवं ... शिवं ... शिवं ... शिवम्
शिवं ... शिवं ... शिवं ... शिवं ... शिवम्
नमश्शिवाय शङ्करम्
समस्तलोकवन्दितम्
प्रपञ्चकारणेश्वरम्
शिवं ... शिवं ... शिवम्
नमः पराय सन्ततम्
सुरासुरेषु पूजितम्
अनन्तनामसङ्कुलम्
शिवं ... शिवं ... शिवम्
अचञ्चलात्मने नमः
अनेकरूपिणे नमः
कपालशूलधारि शर्व पार्वतीपते सदाशिवम्
शिवं ... इहं ... परं ... शिवम्
अन्धकान्तकेश्वरं अनङ्गदम्भनाशकम्
अभङ्गतुङ्ग चन्द्रचूड शङ्करं शिवम्
भस्मलिप्तशोभितं त्रिनेत्रवक्त्रमुग्रतम्
पिनाकपाणि चन्द्रचूड शङ्करं शिवम्
अभङ्गुरं कृपाकरम्
तरङ्गगङ्गधारिणम्
दिगन्तसर्वमेवभाति नीलकण्ठ शाश्वतं ... शिवम्
शिवं ... शिवं ... शिवं ... शिवम्
जपं ... तपं ... शिवं ... शिवं ... शिवम्
नादवेदरङ्गनाट्यरञ्जनं शिवम्
नृत्तताण्डवप्रवीणतापसं शिवम्
नन्दिकेशसर्वभूतपालितं शिवम्
सुन्दरं चिदम्बरेश मङ्गलं शिवम्
अतीन्द्रियं चिरन्तनं मतङ्गमङ्गमापदम्
अचिन्त्य रम्य कारणाय नीलकण्ठ शाश्वतं ... शिवम् !
शिवं ... शिवं ... शिवं ... शिवं ... शिवम्
भुवं ... लयं ... शिवम्
नमश्शिवाय शङ्करम्
समस्तलोकवन्दितम्
प्रपञ्चकारणेश्वरम्
शिवं... शिवं... शिवम्
नम: पराय सन्ततम्
सुरासुरेषु पूजितम्
अनन्तनामसङ्कुलम्
शिवं... शिवं... शिवम्
अचञ्चलात्मने नमः
अनेकरूपिणे नमः
कपालशूलधारि शर्व पार्वतीपते सदाशिवम्
शिवं ... इहं ... परं ... शिवम्
जपं ... तपं ... शिवम्
भुवं ... लयं ... शिवम्
नमश्शिवाय शङ्करम्
समस्तलोकवन्दितम्
प्रपञ्चकारणेश्वरम्
शिवं... शिवं... शिवम्
नम: पराय सन्ततम्
सुरासुरेषु पूजितम्
अनन्तनामसङ्कुलम्
शिवं... शिवं... शिवम्
Author: B. K. Harinarayanan
Encoded and proofread by Ruma Dewan