गीतशङ्करम्
(अनन्तनारायणनामधेयपञ्चरत्नकविकृतम्)
श्रीः ।
श्रीगणेशाय नमः ।
प्रारीप्सितस्य ग्रन्थस्य निर्विघ्नेन समाप्तये ।
मङ्गलायतनं शम्भुं वन्दे वागीश्वरं हरिम् ॥ १॥
॥ १. माळविरागेण गीयते ॥
शमित जगत्रितये त्वयि मायालीना
गर्भगता खिल जगदतिदीना ।
निर्मलनिगमवेद्य जय देव विभो ॥ १
त्वयि सति सृष्टिपरे भगवति
सा माया विक्षिपतीश जगत्त्रय काया । (निर्मल) २
प्रविशति वेदनिधे भवति जगत्यधुना ।
चेतनता यदि भवता विभुना ॥ (निर्मल) ३
मायिक वपुषि शुभे विशसि यदीश्वरता ।
कलुषित वपुषि तु ते मानुषता ॥ (निर्मल) ४
तिर्यक् जन्तु कुले जीवतामुपयासि
तटिदिव जलदे लीनतां यासि ॥ (निर्मल) ५
विधिमुख विबुधगणे तव महिमा ।
बहुधा त्वयि सति निवसति लसति च वसुधा ॥ (निर्मल) ६
जगति तु भेदमितेतरतमता ।
विशदातनुते तां सा विभिदापशदा ॥ (निर्मल) ७
पावय परमकवे पञ्चरत्नवचनम् ।
मणिमिव विमलं कनकं काचम् ॥ ८
निर्मल निगमागमवेद्य जयजय देव विभो ।
जगज्जन्मादिकार्यस्य कारणं वस्तु शाश्वतम् ।
सङ्कीर्त्य सगुणं रूपं तस्यैव प्रतिपाधते ॥
॥ २. भैरवीरागेण गीयते ॥
दनुकुलमानविभञ्जन बुधरञ्जन ।
जगदानन्दन भानजयजगदेकविभो ॥ १
चिन्तामणिकृत मण्डन पुरखण्डन ।
प्रणतजनोन्नतिदान ॥ (जय) २
चन्द्रकलाधर शङ्करऽभयङ्कर ।
नयनानलहतमार ॥ (जय) ३
शशधर दिनकर लोचन भवमोचन ।
भक्तजनोदितगान ॥ (जय) ४
कमलभवनुतपदकमलकलित ।
सकलशारदनीरदधवल ॥ (जय) ५
गिरिजाकुच गिरिचन्दन !
गुहनन्दजनताराधितचरण ॥ (जय) ६
भूरिभुजङ्गमभूषण गतदूषण ।
अगणितमुक्ताभरण ॥ (जय) ७
पञ्चरत्नवचवचन गेय उचित देय ।
मुनिजनमानसधेय ॥ (जयजगदेकविभो) ८
पाणिग्रहण माङ्गल्यं प्रस्तुत्य शिवयोर्द्वयोः ।
भाविकार्याय मन्दन प्रादुर्भावः प्रसज्यते ॥
अकालकृत सन्नाहमाकलय्य मनोभवम् ।
चिन्तयन्परमात्मानं प्राहेदं नन्दिकेश्वरः ॥
॥ ३. वसन्तरागेण गीयते ॥
अविहित दोहल मृदुल मनोहर सुरभिळबहुल तमाले ।
द्विजकुल कलकलमिलितशुकारवपूरितबहुविध साले ॥
स्मरमवलोकय समयोयन्ते ।
सहचरधर्मा बहवो विपि मने तेन विना न वलन्ते ॥ १
मधुकरकलरवमिलन झरीकृत कूजितकोकिल जाले ।
कुरवककुसुमपरागकरंवितमलयसमीरणबाले ॥ (स्मरमव) २
विकसित कैतकदलमिषसुमशरतर्जन पथिक समाजे ।
द्रुत कनकाकृति कुड्मलसन्ततिगुछनिरन्तर राजे ॥ (स्मरभव) ३
ललित रसाल विशाल सुमङ्कुर जालमनोभवबाणे ।
सङ्कुचदम्बुजनिकरनिशानकवर्तुलदलमिषशाणे ॥ (स्मरभव) ४
अविरतविसृमर सौरभ मेदुरमल्लिमतल्लि विकाशे !
मुक्ताफलनिभ मुकुल विराजित वासन्तीकृत वाले ॥ (स्मरभव) ५
शुकतुण्डाकृति सुमनो भासित किंशुकपाटलिताशे ।
कुङ्कुम सुमर सयोजितसितपटशोणाशोकहुताशे ॥ (स्मरभव) ६
विविधविहङ्गमपक्षविधूनन जनितपरागपयोदे ।
अनवसरागत मनसिज सहचर सौरभसमय विनोदे ॥ (स्मरभव) ७
प्रसवाकर वनवर्णन परपद पञ्चरत्न कविर्गीयते ।
तव करुणाकर हिमगिरिदुहितुश्चन्द्र कलाकरशीते ॥ ८
स्मरमवलोकय समयोयन्ते
सहचर धर्मा बहवो विपिने तेन विना न वलन्ते ॥
॥ ४. रामक्रियारागेण गीयते ॥
मलयानिल रथकीरतुरङ्गमकूजितकोकिलशाली ।
मधुकरसज्जितपुष्यशरासनयोजितसुमनोमाली ॥
मदनो रतिमवलोकयते ।
रतिरपि मदनमवलोकयते ॥ १
भुवन विमोहन परागपिञ्चरशरपूर्णेषुधि धारी ।
नानामणिगणविचित्र कोमलमुक्ताफलमय हारी ॥ (मदनो) २
रतिमुखसराञ्जचुम्बन लोलुपचित्ततया यतमानम् ।
मोहवशेन मुहुर्मुहुरुन्मदमङ्गजमद्भुतगानम् ॥ (मदनी) ३
पथिशुकमधुकरमुखरमनोहरललितरसालविशाले ।
पथिकवधूजनभावविदारणकुसुमशरावृतशाले ॥ (मदनो) ४
अभिमुखरतिकुचकलशयुगोपरिविलिखन्पत्रगमाङ्ते ।
नीलोत्पल नवमल्लीपङ्कजचूताशोकवनान्ते ॥ (मदनो) ५
कठिनस्तनभरजघनोदञ्चित पुलकालङ्कृतकाया ।
पथि परिरभ्य विहृष्य पुनः परिहासरुचिश्रितमाया ॥ (मदनो) ६
हरिहर विधिमुख निखिल सुरासुरमानस भेदनकारी ।
धृततूणीरशरासनमाधवमग्रेकृत्य विहारी ॥ (मदनो) ७
पञ्चरत्नकविकल्पितमन्मथयानकथामृतपानम् ।
भवतु भवानीपशुपतिघटनासाधानमधिगतगानम् ॥ ८
मदनो रतिमवलोकयते रतिरपि मदनमवलोकयते ।
शुश्रूषया तोषयन्ती शङ्करं तपसि स्थितम् ।
गृहं गतापि सा गौरी मनस्सम्बोध्य भाषते ॥
॥ ५. देवगान्धारिरागः ॥
शम्बरवैरिविनाभवनोदितनयनहुताशनफालम् ।
भौतिकसम्प्लवसमयसमुज्वलदायसभावित फालम् ॥ १
ध्याने रतमिव हरमविकारम् ।
स्मर मम मानसशमितविकारम् ॥ १
सरसिजकेसरसोदरभासुरसान्द्रजटाभरकान्तम् ।
अम्बुजकैरवबन्धुविलोचनमद्वयमनिशं भान्तम् ॥ (ध्याने) २
शङ्खस्फटिक शशाङ्क सुधारस दुग्ध समाकृति भागम् ।
निटिलनिशाकरसमभागोपरिकल्पिततत्पर भागम् ॥ (ध्याने) ३
समयविजृम्भितकुवलयदलचयशोभाजित्वरवामम् ।
अनवसरागतपिकशुकमलयसमीरणसंहृतकामम् ॥ (ध्याने) ४
मुनितनयावन समयोदञ्चितपादतलाहतकालम् ।
अभिचरणाध्वरहुतवह सम्भवघोरारवमृगपालम् ॥ (ध्याने) ५
चिन्मुद्राजपमालालङ्कृतकरयुगल घृतपाशम् ।
मकुटतटस्फुरदिन्दुशकलगलदमृतासेचनकासम् ॥ (ध्याने) ६
मदनमनोहरवदनसरोरुहञ्चितशशधरबिम्बम् ।
कुन्दप्रतिभटदन्तद्वितियुगदन्तच्छदजित बिम्बम् ॥ (ध्याने) ७
पञ्चरत्नकविकल्पितगुणगण चिन्तामणिमयमाला ।
शमयतु दुरितं कलयतु कामं कलुषितकल्पकसाला ॥ ८
ध्याने रतमिव हरमविकारम् ।
स्मरसममानस शमितविकारम् ॥
॥ ६. काम्ब्दिरागेण गीयते ॥
सञ्जातपाणिग्रहणं शङ्करं शशिभूषणम् ।
उदासितारं मन्वाना भवानी प्राह तां सखीम् ॥
अथ सविधागमतत्परयाहितचिन्तासन्ततिजालम् ।
मदनोज्जीवन कोमलयालघुपादतलाहतकालम् ॥
मन्दाक्षोदयविनम्रया परिपश्यन्तं पराभावम् ।
परिकर परिजनजनितभियाबुधसंसारद्रुमदावम् ॥ (रतये) २
कथयामपि केलिगृहं गतमुनि भावित चिन्मयकायम् ।
पर्यङ्कस्थलसङ्कतया न तु शमितविकारममायम् ॥ (रतये) ३
शय्यनीयोपरि विलग्नयाखिल जगतां कारणमेकम् ।
अर्धाङ्गीकृत शरीरयात्मनि विश्वोत्पादनिसेकम् ॥ (रतये) ४
विविधविमोहनरञ्जनया परिकल्पितभेद विकारम् ।
कामकलारचनोत्सुकयानिटिलेक्षणनिर्जितमारम् ॥ (रतये) ५
कुसुमपरिष्कृतकुन्तलया ननु भुवनभयङ्करवेषम् ।
विविधमनोरथकातरया निजवपुषा निर्जितशेषम् ॥ (रतये) ६
नील वलाहकमेचकया चिरनिस्तोयाम्बुदभासम् ।
रतिरणितोज्वलमेखलया सुरपुरदहनोचितहासम् ॥ (रतये) ७
परिणतमनुतनुभावित यादिम पञ्चरत्नमुखभातम् ।
हिममयकुलगिरिकन्यकया भुवि कृतिनामस्त्वदातम् ॥ ८
रतये जनितमदन शरीरं
कथय कथां सखि रहसि मया सह रमयसि तादृशशीलम् ॥
॥ ७. भूपालरागेण गीयते ॥
दृश्यमानस्य जगतो मिथ्यात्वप्रतिपत्तये ।
श्रुत्यर्थं गेयरूपेण विशदी कुरुते कविः ॥
दृश्यरूपमिदं त्वयीश्वर कल्पितं कलयामि ।
सत्य चिद्वनमद्वयं तव रूपमित्यपि यामि ॥
शिवशिवेतरतया कथमिदं कलयेहम् ।
शिवशिवशिवेतरतया ॥ (शिवशिव) १
कल्पितं जगद्तदद्वयशुक्तिरूप्यवदेव ।
सत्वहीनतया पृथड्न तथा विभाति स देव ॥ (शिवशिव) २
एकमेव सदन्तरं नहि नान्तरत्वयि भाति ।
तेन मायिकमेतदीश्वर भानमेव पुनाति ॥ (शिवशिव) ३
यस्य चात्मतया विभासि न तस्य साक्ष्यपदेश ।
तस्य साक्षितया विभासि जगत्त्रयं परमेश ॥ (शिवशिव) ४
आत्मतत्वमर्तृरूपमवैति सम्प्रति योऽपि ।
मुक्तरूपतया तदा सुखरूप एव स कोऽपि ॥ (शिवशिव) ५
तस्य विश्वमिदं विभाति पृथक्तयात्मनि नैव !
सद्विलक्षणता यथास्य तथा सतोऽपि तथैव ॥ (शिवशिव) ६
व्यावहारिकसत्यतास्ति न सास्त्यसत्यत एव ।
व्योम नीरज तुच्छ ते वनतुच्छताऽत्र तु देव ॥ (शिवशिव) ७
पञ्चरत्न कवीश्वरेण सुनिर्मितं सुनयेन ।
गेयमभ्यसनीयमेव मुमुक्षुभिः प्रणयेन ॥ ८
शिवशिव शिवेतरतया कथमिदं कलयेहम् ।
शिवशिव शिवेतरतया ॥
गङ्गातटान्तविपिनवटमूलनिवासिनम् ।
ध्याने नरहितं शम्भुमाह गौरी दशां सखी ॥
॥ ८. सौराष्ट्ररागेण गीयते ॥
मण्डनमनुतनुनन्दति न सखी गणयति विधुमपि भानुम् ।
निन्दति कमलं चन्दनमपि सा पश्यति खदिरकृशानुम् ॥
विरहकृशा भवदीया भव विरहकृशा भव दीया ।
मानदमदनजतापभियादिव तावकपदगमनीया !! १
विरहदवानल कवलितमानसमध्यगतं मम कान्तम् ।
मोचय कथमपि मामिति कथयति सैषालपति नितान्तम् ॥ (विरह) २
नवनलिनीदल विरचित शयनं हिमजलसिक्त सकाशम् ।
विलुलितमनसा तनुते वपुषा भस्मीभूतपलाशम् ॥ (विरह) ३
मलयजपवनं कलयति गिरिजा विसरन्मुर्मुरजालम् ।
वपुरतिभरमिव वहति सतापं विदलित मौक्तिकमालम् ॥ (विरह) ४
अञ्जनकलुषित नयनजलं बहु मुञ्चति मुहुरुरुतापम् ।
कुचकलशोपरि निपतित मास्रम्पदमुपयाति दुरापम् ॥ (विरह) ५
अतिमदनाकृति वपुरपरं तव भावनयैव निकामम् ।
धुरि परिकल्प्य सदातनपूजां कुरते साकिल कमम् ॥ (विरह) ६
मङ्गलदायां मनसिजजनितं क्षिप्रमपाकुरु खेदम् ।
कुसुमवितानित शयनतलोपरि जनयन् बहुरतिभेदम् ॥ (विरह) ७
दारिद्र्या नलजनितभयं भुवि पुंसां यदि शमनीयम् ।
पञ्चरत्न कविफणितमिदं भव भक्तधनं पठनीयम् ॥ ८
विरहकृशा भवदीया भवविरह कृशाभवदीया ।
मानद मदनज तापभयादिव तावकपदगमनीया ॥
॥ ९. देशाक्षिरागेण गीयते ॥
जननीहृदयं ज्ञात्वा चिन्तयानमिवस्थितम् ।
धैर्यमालं सा गौरी शङ्करं समभाषत ॥
अपनयविषधरमणिमयहारम् ।
जीवय कथमपि मारितमारम् ।
किं तया तव शङ्कर चिन्तया ॥ १
त्यज कनकाह्वय कुसुम वितानम् ।
विविध्न्मादनपित्तनिदानम् । (किं तया) २
परिहरभिक्षाटनमतिघोरम् ।
गौरवलज्जां बहुमति घोरम् ॥ (किं तया) ३
रुधिरचषककृतनारकपालम् ।
विसृज दहनमयमायसफालम् ॥ (किं तया) ४
करटित्वंङमयगजपरि धानम् ।
मुच विलोपय दिक् परिधानम् ॥ (किं तया) ५
अस्थि सृक्परिकर्मित फालम् ।
सम्मृज्योन्नय शशधरबालम् ॥ (किं तया) ६
भजसि यदीश शुभप्रदरूपम् ।
फलति मनोरथतरुरनुरूपम् ॥ (किं तया) ७
पञ्चरत्नकविवरमुखजातम् ।
गिरिजागीतामृतमवदातम् ॥ ८
किं तया तव शङ्कर चिन्तया ॥
॥ १०. श्री रागेण गीयते ॥
संसार सागरे मन्नान्प्राकृतान् बिबुधानपि ।
समीक्ष्य कारुण्यवान्मुनिः कश्चिदभाषत ॥
कुसुमविताने कनकविमाने जगदवनाय वसन्तम् ।
विरचितवेषं तनुजितशेषं जनता भजत भवन्तम् ॥ १
शिवशैलेशो धृतभुजगेशो धर्नताटवनवासी ।
अमरतटिन्या अनुजभवान्या देव्या वसति विलासी ॥
शिवशैलेशो धृतभुजगेशो ॥
बहुमतमदने विहरति सदने जनयन्परिजनमोदम् ।
अपगतखेदं मुखरितवेदं पश्यत विविध विनोदम् ॥ (शिवशैले) २
अविरततानं समुदितगानं पश्यति नृत्तमुदारम् ।
प्रणमत मुदितं गणयति सहितं प्रशमितचित्तविकारम् ॥ (शिवशैले) ३
बहुमणि मायां कनकसभायां नटनं कलयति सायम् ।
धरणी विबुधा मुदिता बहुधा ध्यायत चिन्मयकायम् ॥ (शिवशैले) ४
निबिडितकीरे घटनातीरे सान्द्रतराखिलसारे ।
पालितमोदं बाणविनोदं पश्यन् हृष्यति काले ॥ (शिवशैले) ५
मञ्जुलगाने मङ्गलयाने मदयति मनुज समाजम् ।
दलयति तोदं जनयति मोदं भजनीयाकृतिभाजम् ॥ (शिवशैले) ६
अनुदिततपने मृदुतरपवने धाम निवसति सलीलम् ।
अविदितपादं प्रतिहतवादं भावय तादृश शीलम् ॥ (शिवशैले) ७
प्रकटितसेवं प्रमुदितदेवं पञ्चरत्न कविगीतम् ।
पातक भीतैर्भावविशुध्यै पठनीयं भवगीतम् ॥ ८
शिवशैलेशो धृतभुजगेशो धटनातटवनवासी ।
अमरतटिन्या अनुजभवान्या देव्या वसति विलासी ॥
शिवशैलेशो धृतभुजगेशो ॥ १
॥ ११. मलहरिरागेण गीयते ॥
स्वाधीनपतिका साध्वी धीरा रहसि लालिता ।
परिष्कृतं द्रष्टुकामा पार्वती पतिमब्रवीत् ॥
कलय मृदलदलदाम परिष्कृत निटिलतलोपरिभागं
शशधर शकल समुज्वलदुद्घण मणिमकुटोदितरागं
पाहि मानद सोमशेखर मा भज भूषण दोषम् ।
यानि विभूषण भावगतान्यपि परिहर तानि सतोषम् ॥ १
उज्वल नवनव मणिगण विलसित कुण्डल मण्डितगण्डं
तवमुखममलं विलसितनयनं नवमिव चन्द्रमखण्डम् ॥ (पाहिमा)२
कम्बु सहोदर कण्ठ समुज्वल काञ्चनमय सरजालम् ।
विलुठतु नाभेरुपरिमनोभव डोलेवोचितकालम् ॥ (पाहिमा) ३
उडुगण परिवृत हिमकर बिम्बमिवोपरि विनिहितनीलम् ।
विलसतु जठरे तवमणिपतगं मदनतुरङ्गगमकीलम् ॥ (पाहिमा) ४
बहुलतरलतरहारलताहृदि तारावलिरिव केशे ।
भुजयुगलोपरि कनकमये तव केयूरे ज्वलिताशे ॥ (पाहिमा)५
कटितट सुघटित सारसनावृतकमनीयाम्बरवीतम् ।
विरचय पदकमलोपरि हंसकमञ्जुलशिञ्जितगीतम् ॥ (पाहिमा)६
मरतकमणिशकलाञ्चित कङ्कण धलधलरोचिरूदारम् ।
विरचय करकमलद्वयमपि ते भक्तजनाभयपारम् ॥ (पाहिमा)७
पञ्चरत्नकविचित्तविकासजरूद्राणीपतिवेषम् ।
करगत बदरीफलमिव सुकृतं चिन्तयतामविशेषम् ॥ ८
पाहि मानद सोमशेखर मा भज भूषणदोषम् ।
यानि विभूषण भावगतान्यपि परिहर तानि सतोषम् ॥
॥ १२. शङ्कराभरण रागेण गीयते ॥
योगमास्थाय तिष्टन्तं शङ्करं लोकशङ्करम् ।
प्राप्य गौरी सखी प्राह तदवस्थामिमां क्रमात् ॥
ध्यायति सीदति विलपति विततम् ।
गायति तव गुणगणमपि सततम् ॥
देवगृहे मुह्यति गौरी तापमिता ॥ १
मुञ्चति नयनजले मुहुः विमलम् ।
सिञ्चति मुहुरुरु कञ्चुकपटलम् ॥ (देव) २
नालीकं न तु पश्यति बाला
नालीरपि सा दृष्टरसाला ॥ (देव) ३
भूतावेशवशेन निषण्णा ।
यदनधविलिखितकुरतिविषण्णा ॥ (देव) ४
क्रीडाव्याजविमुक्ताहारान् ।
तुलनापरिहत मुक्ताहारा ॥ (देव) ५
आतपतापिततनुमतिशेते ।
तुहिन शिलामयफलके सेते ॥ (देव) ६
रोदिति लीला कलहविलापा ।
छादितमदनविलासजतापा ॥ (देव) ७
पञ्चरत्नकविकल्पितगीतम् ।
सोमशेखरमुदेस्तु सुगीतम् ॥ ८
देव गृहे शम्भो देव गृहे ।
मुह्यति गौरी तापमिता ॥
॥ १३. आहरिरागेण गीयते ॥
शिवानुरागजनित सन्तापं गोप्तुमक्षमा ।
विजने मानसीचिन्तामाह गौरीमनोरथम् ॥
आतपमिषेण यदि तापकरगोपनम् ।
शीतोपचारकृतिजनितमतिकोपनम् ।
केन वा गोपयेयं तमिह मनोरथ चिन्तयेयम् ॥ १
हिमसलिलसेकोऽपि मम तपनसाधनम् ।
मलयजरसस्नपनमपि मानबाधनम् ॥ (केन वा) २
व्यजनपवनोऽपि मम मदनतुरगायते ।
कुसुममयशयनमपि दहनशकलायते ॥ (केन वा) ३
हारलतिका वपुषि मारपाशायते ।
शीतकिरणोमि मम तापकिरणायते ॥ (केन वा) ४
नालीकदल कलितकञ्जुलीधारणम् ।
आलिकरजः पटवदात्ततनुदारणम् ॥ (केन वा) ५
कर्पूरमिश्रजम्बलजलाधिकम् ।
पश्यामि पानीयमपि तद्धदाधिकम् ॥ (केन वा) ६
शयनमतिशङ्कां हि जनयति हिमाचले ।
वलनमपि नीहारशीते शिलातले ॥ (केन वा) ७
पञ्चरत्नादिकविजाल्पितरसायनम् ।
परमशिव सायुज्यगमन सुगमायनम् ॥ ८
केन वागोपयेयं तमिह मनोरथ चिन्तयेदम् ॥
॥ १४. मुखारिरागेण गीयते ॥
कथमपि रतिगेहं प्रापयन्ती मृगाक्षी
सरसवचनबाष्पा सादरं भाषमाणाम् ।
अपि सपदि विदित्वा जातकामानिरेका
सविधसहचरी स्वां भाषमाणेति याता ॥
बहुमतमदने हिमगिरिसदने सम्भृतरतिसाधने ।
कदमपि सविधं गतया विविधं कल्पितकनकासने ।
रुचिरे गङ्गातटविपिने विहरति पुरारिरूमया ॥ १
शिशिरसमीर निबिडपटीरे चम्पकसुमनोहरे ।
अविरततानं प्रबलितगानं रसदलिसुमनोभरे ॥ (रूचिरे) २
सुरभिलसलिले विकसत कमले वेतसगहनान्तरे ।
अविदितभेदं गतरतिखेदं कल्पितकुमुदाकरे ॥ (रूचिरे) ३
प्रकटितकाये परिचितमाये सङ्गतभवनोदरे ।
पालितगात्रं मीलितनेत्रं विगलति कलहादरे ॥ (रूचिरे) ४
निबिडितकीरे जलनिधितीरे कल्पकसुरभीकृते ।
परिचितखेलं प्रभुरतिवेलं सारसमुखरीकृते ॥ (रूचिरे) ५
विलुकितचिकुरे करधृतमुकुरे मङ्गलवनिताजने ।
अपगतकुहनं कचभरनहनं कलयन्कमलानने ॥ (रुचिरे) ६
गतिजितहंसे कलितवतंसे सङ्गमसमयोदरे ।
रतमपरिमितं तन्वतिमहितं किमिह सपदि गम्यते ॥ (रूचिरे) ७
शङ्करपादे शमितविवादे पञ्चरत्नशोभिते ।
विलसतु सदयं बुधजनहृदयं पङ्कजभवपूजिते ॥ ८
रुचिरे गङ्गातटविपिने विहरति पुरारिरूमया ॥
॥ १५. वराळिरागेण गीयते ॥
आगलङ्करलाक्रान्तमाकल्पितभुजङ्गमम् ।
गोकर्णोशं गता प्राह वृहदम्वादशां सखी ॥
गरलमलिनगलजनितभयेन वि
सरति याविषवचन नयेन
तामव गोकर्णेश्वरहरताभवगोकर्णेश्वर ॥ १
भुजगवलययुत भुजयुगलेन
जनितभया विनितगरलेन ॥ (तामव) २
मलयपवनमिषतुषदहनेन ।
व्यसनमिता तव मुखपवनेन !! (तामव) ३
पिकशुकमुखरवकलरणितेन ।
लुलितमनाधुरिहितफाणितेन ॥ (तामव) ४
मनसिजशरततिकृतदलनेन ।
व्याथिततरहृदिरसमिलनेन ॥ (तामव) ५
सुरभिलमलयजरसतपनेन ।
व्याथिततरातपरिपुलपनेन ॥ (तामव) ६
अनलशकलसमदलशयने ।
न वितथतमा निशि शशिनयनेन ॥ (तामव) ७
अविरलबहुविधहितकथितेन
जनित सुखा भव तव विहतेन ।
प्रणमत भवमिह शिवचरितेन
बृहदम्बासुतविबुधकृतेन ॥ ८
पञ्चरत्नादिमकविरचितेन
गोकर्णेश्वरगुणचरितेन ॥
तामव गोकर्णेश्वरहर तामव गोकर्णेश्वर ॥
॥ १६. देशराटिरागेण गीयते ॥
कामारिणा भगवता प्रेषिता चन्द्रमौलिना ।
मानेन चिरं सा गौरी जगौ हरदशां सखीम् ॥
गलित मणिमयमालो मदनमनुसन्धाय ।
कलितजलजशकलो विरह दमनशमनाय ॥
तव विगमे पुरवैरी बत सीदति बाले ॥
वलति जलदसमीरे मदनदहनभवाय ।
दहति शशिकरनिकरे स्वसखीविजयकरणाय ॥ (तव) १
पतति सविधयतीरे भजगनिलशिमनाय ।
गलति यशिरसमीरे कुसुमविशिखविशिखाय ॥ (तव) २
रसति विपिनमयूरे विरहिजनविमोहाय ।
नदति जलधर विवरे मदनोज्जीवनाय ॥ (तव) ३
मिलति मदन सहाये कथिते सम्प्रति तेन !
सपदि मनसिजविजये पञ्चरत्नविबुधेन ॥
तव विगमे पुरवैरि बत सीदति बाले ।
॥ १७. केदारगौळरागेण गीयते ॥
विहरति पुररिपुरिहमदनवने ।
किमिति विषीदति सखि वद भवने ।
शङ्करे कुरु सखि भावमुमे ॥ १
अनुदिनमनुसररहसि वसन्तम् ।
तव मुखकमलमधूनि पिबन्तम् ॥ (शङ्करे) २
शशधरलेखालङ्कृतमकुटम् ।
निजतनुशोभारजितनिकटम् ॥ (शङ्करें) ३
विकसितसरसिजसुन्दर वदनम् ।
रतिमकरध्वजमङ्गलसदनम् ॥ (शङ्करे) ४
येन हितामृतसितं त्यज विफलम् ।
इह सखि मा कुरु यौवनमफलम् ॥ (शङ्करे) ५
लज्जामानौ कथमपि वारय ।
मेना मानसरथमपि पूरय ॥ (शङ्करे) ६
भुङ्क्ष्व तपः फलमधुनोपनतम् ।
मङ्गलभाजनवपुषावनतम् ॥ (शङ्क)७
पञ्चरत्नकविभाषितगानम् ।
पार्वतीपति मुदे रसपानम् ॥ ८
शङ्करे कुरु सखि भावमुमे ॥
॥ १८. मुखारिरागेण गीयते ॥
मानेन विरहं प्राप्य कोपेन कलुषीकृताम् ।
गिरिजामुचितैर्वाक्यैर्मानयन्प्राह शङ्करः ॥
नयननलिनेन यदि पश्यसि जनप्रिये व्यपनयतु दुरितमतिदूरम् ।
कनकमयमन्दिरे कमलदलसुन्दरे स तु पिबतु विषयसुखपूरम् ॥
वामलीले शिवे वामलीले त्यज सुहृदि रोषमपदोषम् ।
विषमशरपातकी विदलयति मानसं काममयि पूरय सतोषम् ॥ १
खेदयसि मानकरणेन यदि मामये तावकसुखाय पतनीयम् ।
विरहविषमरमरस्त्वमियमबलाजनस्तदिदमनुचिन्त्य करणीयम् ॥ (वाम) २
श्रमजलधिसाधनं रतिविरहकारणं परिहर मुधा मनसि मानम् ।
यदि वदसि केवलं मम हृदयमोहनं प्रभवामि तव सुखनिदानम् ॥(वाम) ३
मुखकमलमण्डनं तनुजडिमखण्डनं शिशिरसमयोदयस्वेदम् ।
खदिररससादितं कर्पूरभावितं ताम्बूलमाद्रियस्वेदम् ॥ (वाम) ४
अपि जघन मण्डलं मणि रशनयाचितं विरचय निनादरमणीयम् ।
कुड्मलान्तरे नवरत्नमालिका रोचयतु कान्तिकमनीयम् ॥ (वाम) ५
उरसि मम वासिनी शिति नलिनभासुरे शोभया मम खिलशरीरम् ।
पदकमलयोरुपरि मञ्जीरसिञ्जितं श्रुतिपदं कलय मम धीरम् ॥ (वाम) ६
अयि जधनमण्डलं मणिरशनयाचितं विरचय निनादरमणीयम् ।
कुचघनान्तरे नवरत्नमालिका रोचयतु कान्तिकमनीयम् ॥ (वाम) ७
नहि कलहकालोयमबले रति प्रिये मा कृथा वितथमिह कालम् ।
कमलदल निर्मितं कामुक मनोहरं शयनमवलोकय विशालम् ।
हरमुखसमीरितं हिमगिरि सुताहितं पञ्चरत्नादिकविगीतं
रतिकलह भञ्जनं श्रुति शिखर बन्धुरं श्रोतव्यमेतदविगीतम् ॥ ८
वामलीले शिवे वामलीले त्यज सुहृदिरोषमपदोषं
विषमशरपातकी विदलयचि मानसं कामयायि पूरय सतोषम् ॥
॥ १९. सारङ्गभैरवी रागेण गीयते ॥
भर्तुस्समाराधनमन्तरेण भावो नहि स्यादिति निश्चयेपि ।
सञ्जातमन्दाक्षतया विहस्तां तां बोधयामास सखी क्रमेण ॥
अनुदिनमरूण कराङ्कुरजृम्भित कुसुमशरासन बाणम् ।
आहार पूजय हरपदमिचिरादविदिततरपरिमाणम् ॥
स्निग्धे पुरमथनं परिवृढमनुनय बाले ॥ १
पङ्कजभवनव पङ्कजलोचन भावनयापि दुरापम् ।
शङ्करचरणजुषामपि विदुषां परिहतमानसतापम् ॥ (स्निग्धे) २
शोभनपूर्वकगोमयगोमुख रङ्गलताभिरुपेतम् ।
कुरु कल्याण निदानमिहाश्रमसम्मामोदेन समेतम् ॥ (स्निग्धे) ३
चेलाजिनकुशकल्पित मासनमास्तीर्योदक पात्रम् ।
आनीयान्तिक मधिवस शम्भोरानम्भ्यानत गात्रम् । (स्निग्धे) ४
कुङ्कुमचन्दनधनसारेक्षुरसादिरसायनजातम् ।
सम्पाद्योन्नत वेदितलोपरि हरमाराधय भातम् ॥ (स्निग्धे)५
मोचाकेररसालकपित्थफलादि निवेदय कामम् ।
दीपाधन तोषित मयि कुरु पश्चाद्धापय कामम् ॥ (स्निग्धे) ६
शम्भो शङ्कर शशधर शेखर साम्ब शर्व भवमोचन ।
भक्तजनप्रिय परमदयालो पाहि पद्मनिभलोचन । (स्निग्धे)७
इचि सखि कथितं गिरिजाचरितं पञ्चरत्न कविगीतम् ।
योऽसौ गायति सायं प्रातर्दुरितं तरति परीतम् ॥
स्निग्धे पुरमथनं परिवृढमनुनय बाले ॥ ८
॥ २०. मध्यमावति ग्ण गीयते ॥
त्यक्तातापसवेषमादिमरसं प्राप्ता जगन्मोहिनी
शृङ्गारादिरसायनं त्रिजगतामानन्दसन्दापिनम् ।
मन्दारप्रभवप्रसूनकलिकासौरम्भसान्द्रीकृतं
गौरीशङ्करमेव केलिसदने सानन्दमैक्षिष्टतम् ॥
गौरीमुख सरसीरुह दर्शन हर्षितमानसहंसम् ।
तुहिनाचलमिव भुवन विमोहन शशदर शकलवतंसम् ।
सादरमैक्षत सा करुणाकरमानन्दोज्वलहासम् ॥ १
नयनमनोहरवदन निशाकरवञ्चित हिमकरबिम्बम् ।
चुम्बनलोलुप चञ्चलपुटयुग दन्तवसनमिषबिम्बम् ॥ (हरमे) २
सुरभिसरोरुहमृदुलदलोपमनयनममानमसङ्गम् ।
क्षीराम्भोनिधिवेलातटमिव मुक्ताफलकुल सङ्गम् ॥ (हरमे) ३
कोमलमणिगणघटित मनोरम कुण्डलमण्डित गण्डम् ।
चिन्तामणिमिव चिन्तित फलदम भङ्गुरसच्चिदखण्डम् ॥ (हरमे) ४
अम्बुद कोकिलषट्चरण स्वनमङ्गीकृत्य वसन्तम् ।
शम्बरवैरि समागम कारणमप्पादृत्य वसन्तम् ॥ (हरमे) ५
मृगमद चन्दन सुरभिल कन्धरमतिधवलं भगवन्तम् ।
नवमदनोचित विहरण साधन शयनीये प्रभवन्तम् ॥ (हरमे)६
वेधो हरिमुख विबुध मनोरथ कल्पककल्पक कन्दम् ।
साकूतस्मित लीला वेक्षणमाला युक्तममन्दम् ॥ (हरमे) ७
सूत्रे मणिमिव गुम्भितममलं पञ्चरत्न कविबन्धम् ।
पश्यत विबुधा भक् दमनिशं गिरिजाकरुणागन्धम् । ८
हर मे वर संवरमचिरद्विति भासं
सादरमैक्षत सा करुणाकरमानन्दोज्वलहासम् ॥
॥ २१. देशराटिरागेण गीयते ॥
चूडामणीकृत शशाङ्क कलासमुद्यज्ज्योत्स्नावितानबहलीकृतचन्द्रपादैः ।
उद्दीपिते रहसि केलिगृहे निविष्टं दृष्ट्वा हरं हरसखीमियमित्युवाच ॥
कञ्जदल पिञ्चरित कामभवने इह विहर रहसि नवकुन्दरदने ।
सपदि बाले मङ्गलनिदानं सखि पुरारिं रञ्जय पुरेव ॥ १
परिलग्ननवरत्नमञ्चफलके ।
इह विहर परमशिवभोगरसिके । (सपदि) २
शशिशकलममृदुपवनजात मदने ।
इह विहर कुसुमशरणबाणनयने ॥ (सपदि) ३
कमलवनगन्धवह सुमनोहरे ।
इह विहर विषमशरकातरतरे ॥ (सपदि) ४
सुरभिभवकुसुमशरपोषितरमे ।
इह विहर विनवमदनसाधकतमे ॥ (सपदि) ५
अतिधवलमृदुलतरशयनोदरे ।
इह विहर विविधरतिभेद चतुरे (सपदि) ६
कन्दलित कोरकितचम्पकवने ।
इह विहर कुटिलतरकुन्तलगणे ॥ (सपदि) ७
पञ्चरत्नादिकवि वर्णितहरे
इह विहर मदनबहुमानसमरे ॥ ८
सपदि बाले मङ्गलनिदानम् ।
सखि पुरारिं रञ्जय पुरेव ॥
॥ २२. नाथनामक्रियारागेण गीयते ॥
मानेन विरहं प्राप्य सीदमानां मनास्विनी ।
शङ्करः प्रणयादाह गिरिजामनुरञ्जयन् ॥
कुसुमवितानितशयनमलङ्कुरु सुनिहितपदासविलासम् ।
तव पदपद्म सपन सरोरुहमिदमुपयात्वविकासम् ॥
इह सविधे निवसन्तं भवमवलोकय बाले ॥ १
अनिलगलित सुमलक भरं तव दृढनहनं कलयेहम् ।
निटिलतले तव मृगमदतिलकं मलयजगन्धि च देहम् ॥ (इह)२
परिहर विरहदमशुभकरं तव विफलममुं हृदि मानम् ।
श्रुतिसुखदन्तव मुखकमलोदितमयि दयिते कुरु गानम् ॥ (इह)३
कुचकलशोपरि पत्रलतामयि विलिखाभ्यपनयचोलम् ।
अनुभवदयिते सहचर सविधे खेलनमजुनवडोलम् ॥ (इह) ४
लम्बितपदयुगले तव कामिनि योजितयावकसारम् ।
अम्बरमसितद्युतिरिव लम्भय मामवलम्बितहारम् ॥ (इह) ५
मामयि मधुरं तावकमधुरं पायय पय इव बालम् ।
वपुरिदमबले कबलयवपुषा शाखयवार्जुनशालम् ॥ (इह) ६
अयि रशनागुण मुदितरवं कुरु नानासिञ्जित भेदम् ।
विहर यथारुचि विगताभयास्मसञ्जातं त्यज खेदम् ॥ (इह)७
विलुलित चुकुरं तव मुख कमलं श्रमजल कलुषि कपोलं
मुहुरभि वाञ्छति ननु मममानसमवलोकितुमतिलोलम् ।
पञ्चरत्नकविभणितमिदं भवभक्तजनाभयदानं
कलयतु गिरिजापतिपरितोषं बहु कल्याणनिदानम् ॥ ८
इह सविधे निवसन्तं भवमवलोकय बाले ॥
॥ २३. मङ्गळकैशिकिरागेण गीयते ॥
रम्यसानुवन्द्देशे शिवशैलस्य कन्दरे ।
क्रीङन्तं शिवशैलेशं कल्याणी प्राह शङ्करम् ॥ १
दनुजभयङ्कर शङ्कर हर करजेन निजेन भुजान्तरे ।
नखपदचन्द्रकलां कुरु कुचयुगले गलितान्तरे ॥
गिरिजाजगाविति सुन्दरे शिवशैलसानुकन्धरे ॥
विरचितमण्डन खण्डन तनुजितमन्मथ घटय यथोचित्तम् ।
शशधरशेखर चन्द्रमसं मकुटेन सुयोजितम् ॥ २ (गिरिजा)
मृगमदचन्दन निन्दनकलुषित निटिलतलं तिलकाञ्चितम् ।
परिहरभीषणभूषणमनुतनु पुरहर तव यदि वाञ्छितम् ॥ ३ (गिरिजा)
कुचयुगले च गले च निरन्तर कुङ्कुम चन्दन रोपणम् ।
कलय विलोलकपोल विचित्रित पत्र विलेखन गोपनम् ॥ (गिरिजा) ४
नित्यनिरञ्जन खञ्जन कोपनलेपनशोभन मञ्जनम् ।
ननु नय नयने कुवलय सदृशे भुवन विमोहनरञ्जनम् ॥ (गिरिजा) ५
उरसि विरन्तरदन्तुरहार लता परिकर्मित कञ्जुकम् ।
योजय मोदयलोचन चन्द्रिकया शुकमुत्सुक चञ्चुकम् ॥ (गिरिजा)६
अनुदित दूषण भूषण भूषितमात्मानं तव खेलय ।
शिवशैलेश महेश मनोहर नित्यं मामपि वेलय ॥ (गिरिजा)७
शिवगिरि विवरे रुचिरे वचनं कल्पाण्या मृदु संहितम् ।
श्रुतिपथ मधुरं भिदुरं विपदां पञ्चरत्न कवि बृंहितम् ॥
गिरिजाजगाविति सुन्दरे शिवशैलसानुकन्दरे ॥
॥ २४. हिमीरकल्याणिरागेण गीयते ॥
ऋतु समयोचित करण कला पागलित मदनकृत मानसतापा ।
कामजनितजवा कमनीयरूपा कामजनितजव ॥
विहरति रहसि पुररिपुणा ॥ १
स्मरणाविषयरति विघटितचोला ।
विहितचरणयुगचलनवडोला । (कामज) २
कुचतटविलसित कोमल हारा ।
कुसुमनिकरयुत कुन्तलभारा ॥ (कामज) ३
मृगमद सुरभिल कलुष कपोला ।
पुररिपुणा सह विहरण लोला ॥ (कामज) ४
जन विलम्बितगमन विशेषा ।
मदनविजृम्भित समर दृगेषा ॥ (कामज) ५
मन्दस्मित युत वदन सरोजा ।
कन्दर्पोत्सव कलशोरोजा ॥ (कामज) ६
हंसळहंस पदाम्बुजयुगला ।
शम्भुतनूकृत निजतनुशबला ॥ (कामज) ७
पञ्चरत्नकवि कल्पित कामा ।
परमशिवाहित पङ्कज दामा ॥ ८
कामजनित जवा कमनीय रूपा
विहरति रहसि पुररिपुणा ॥
॥ इति श्री कविकुलतिलकायमानानन्तयज्वकुलकलश
सिन्धुकौस्तुभायमानकृष्णदीक्षिततुर्यतनयमृत्युञ्जयार्य
तनुसम्भवानन्तनारायण नामधेय पञ्चरत्नकविकृतं
गीतशङ्करं समातम् ॥
रचितं शङ्करचरितं बृहदम्बागर्भसम्भवेनेदम् ।
मोदाय भवतु सुदृशामनुरणितं शुकबालकेनैव ॥
श्रीः देव्यै नमः । शुभमस्तु । श्रीः ॥
Proofread by Narayanaswami Pallasena