गणैः कृता चन्द्रमौलीश्वरस्तुतिः

गणैः कृता चन्द्रमौलीश्वरस्तुतिः

(शिवरहस्यान्तर्गते ईश्वराख्ये) गणा (तुष्टुवुः) यस्मिन् जगत्सर्वमिदं विभाति यश्चाप्यनन्यः सकलप्रपञ्चात् । तिलेषु तैलोपममास्थितं त्वां श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ३८॥ पश्यन्ति यन्न श्रुतयः शिरस्थं शिरःस्थितं वस्त्विव सर्वलोकाः । त्वामात्मभूतं जगतां त्रयाणां श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ३९॥ अणोरणीयान् महतो महीया- नात्मा गुहायां निहितोऽस्य जन्तोः । तं सर्वभूतस्थितमात्मरूपं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४०॥ यः सर्वसाक्षी तमसः परस्ता- द्विभाति सर्वं किल यस्य भासा । त्वामागमान्तैरपि दुर्निरूपं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४१॥ पुमानविज्ञाय शिवं कदाचि-(पि) (दु)द्दुःखस्य नान्तं समुपैति धीरः । त्वां सच्चिदानन्दमयं प्रशान्तं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४२॥ अजं पुराणं पुरुषं महान्तं अनश्वरं वाङ्मनसो(सा)ऽति दूरम् । ज्ञानात्मनां हृद्यवभासमानं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४३॥ वदन्त्यमी यत्पदमेव वेदा ज्ञाते तु यास्मिन् सकलं विबुद्धम् । त्वां प्रत्यगात्मनमचिन्त्यशक्तिं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४४॥ यं निर्विकल्पेन समाधिनैव तपस्विनश्चेतसि वीतरागाः । ध्यायन्ति तेजोमयमद्भुतं त्वां श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४५॥ त्रिलोचनं चन्द्रकलावतंसं गङ्गातरङ्गोल्लसदुत्तमाङ्गम् । स्मेरास्यमिष्टप्रदमष्टमूर्तिं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४६॥ अपारसच्चित्सुखराशिमेक- मनादिमध्यान्तमनन्तरूपम् । त्रिलोचनं नीलगलं प्रशान्तं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४७॥ कैलासशैलेन्द्रशिरस्तटेषु नगेन्द्रपुत्र्या सह संवसन्तम् । विभूति रुद्राक्षविभूषिताङ्गं श्रीचन्द्रमौलीश्वरमाश्रयामः ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते गणैः कृता चन्द्रमौलीश्वरस्तुतिः सम्पूर्णाः ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३३ चन्द्रमौलीश्वरस्तुतिः । ३८-४८॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 33 chandramaulIshvarastutiH . 38-48.. Notes: Gaṇāḥ गणाः eulogize Śiva शिव as Candramaulīśvara चन्द्रमौलीश्वर while worshipping the Sphaṭika Candramaulīśvara Śivaliñga स्फटिक चन्द्रमौलीश्चवर शिवलिङ्ग. Proofread by Ruma Dewan
% Text title            : Ganaih Krita Chandramaulishvara Stuti
% File name             : gaNaiHkRRitAchandramaulIshvarastutiH.itx
% itxtitle              : chandramaulIshvarastutiH (gaNaiH kRitA shivarahasyAntargatA)
% engtitle              : gaNaiH kRitA chandramaulIshvarastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 33 | 38-48||
% Indexextra            : (Scan)
% Latest update         : September 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org