गणेशकृतं शिवस्तोत्रम्
गणेश उवाच ।
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं
ज्ञानात्परं परमं ज्योतिरूपम् ।
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मङ्गलं च
आनन्दाख्यं निष्कलं निर्विषादम् ॥ ४८॥
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते ।
प्रकृत्यन्तर्गतस्त्वं हि लक्ष्यसे ज्ञानिसम्भवः ।
प्रकृत्यन्तर्गतस्त्वं हि मायाव्यक्तिरितीयसे ॥ ४९॥
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथो लुम्पसि पासि विश्वम् ।
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेन्द्रयुतं चराचरम् ॥ ५०॥
यथा पुराऽऽसीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा ।
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम् ॥ ५१॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, दशमाध्यायान्तर्गतं
गणेशकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय १०/४८-५१॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 10/48-51..
Proofread by PSA Easwaran