गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनम्

गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनम्

स्कन्दः - विश्वावसुश्च गन्धर्वो गानाचार्योऽभवत् पुरा । गानबन्धुः सुबन्धुश्च तथा नारदपर्वतौ ॥ १॥ हाहाहूहू महादेवं चिरं चिरगिरीश्वरं भस्मचिन्होऽर्चयामास गानस्तुत्याभितोषयन् । रुद्रवीणापाणपस्ते शिवनाम्नां सुगायनैः ॥ २॥ - - गन्धर्वाः - दक्षशिक्षविषमाक्षमनुक्षं (?) उक्षवाहमरविन्ददलाक्षम् । मोक्षदायकसुमक्षरक्षितं कालकूटगरलात्किल देवान् (?) ॥ ३॥ - - वसवो ब्रह्मणा शप्तास्तेऽपि गोपर्वतेश्वरम् । समाराध्यैव मुक्ताः स्युः स्तुवन्तः पशुपं शिवम् ॥ - - वसवः - शम्भो पाहि दयाम्वुघे गतमयं संसारपारङ्गतः त्वत्पादाम्बुरुहार्चनेन भगवन् विश्वेश विश्वाधिक । राजत्पिङ्गजटात्तसङ्ग सुमहाधामेन्दुचुडामणे गङ्गागर्वहराव्ययेश्वर महादेवेश रक्षाधुना ॥ ५॥ - - तण्डुरिन्दुशकलामलमौलेरिन्दुखण्डमहशोरुकपालम् । भस्मपुण्ड्रनिटिलो भरिताशो वीक्ष्य नम्रशिरसा गणवर्यः ॥ ६॥ शर्वपादकलनेन सर्वदा पापपर्वतवरैर्न बिभेति । इन्दुचूड चरणाम्बुजसङ्गोऽप्यन्तरङ्गकरणे गणवर्यः ॥ ७॥ - - तण्डुः - गरधर गिरिवरशय पुरहर मुरहरशरकर कुरु करुणाम् । सुमशरदेहविनाशक ईश्वर नरहरिकृत्तिवसान महेश ॥ ८॥ - - अश्विनौ पुरा देवैर्निरस्तौ भिषजाविति । श्रीकण्ठेशं समाराध्याभवतां सोमभागिनौ ॥ ९॥ - - अश्विनौ - कुन्दबृन्दनिभदेह इन्दुधृङ्मन्दराद्रिवसतेश्वर पाहि । इन्दुशक्तिवरहार इन्दिरानाथपूज्यपदपद्म सुन्दर ॥ १०॥ इन्द्रेण निकृताः सर्वे मरुतो हि महौजपः । इन्द्रेणाप्यलभंस्ते वै सोमभागं शिवार्चया ॥ ११॥ - - तृणज्योति समाराध्य स्तुत्येशस्य कृपावशात् ॥ १२॥ - - मरुतः - यः कालकालमनिलाशनशोभिगात्रं रुद्रं त्रिनेत्रमयराजसुतार्धगात्रम् । मित्रिकृताब्जहृदयोरुविकासमित्रं मन्त्री च यन्त्रितभवो भवतीह भावः ॥ १३॥ - - आदित्याश्चापि तपसा समाराध्य महेश्वरम् । सह्यजातीरलिङ्गेषु तुङ्गेषु नियतं सदा ॥ १४॥ घृतेशे पुष्पनाथे च प्रणतेशे तु वैद्यके । श्रीखण्डे तृणजक्षेत्रे वेदिकाख्ये प्रयाणके ॥ १५॥ जम्बुलिङ्गे मातृशैले रत्नशैल इरावृते । स्तुतवन्तो दीप्तनवोऽभवंस्ते शङ्करार्चनात् ॥ १६॥ - - आदित्याः - यश्चन्द्रचूडचरणाम्बुजसेवनेन कालं नयेत्स हि भवेत्सुगुणालबालः । व्यालेन्द्रमालगरलाशनरूपमाप्य कैलासमौलिषु सदा विहरत्यजस्रम् ॥ १७॥ - - रुद्रायैकादश पुरा समाराध्य महेश्वरम् । रुद्रस रूप्यमापन्नाः शङ्करस्य प्रसादतः ॥ १८॥ दुर्गेशे क्षीरिणीक्षेत्रे माधव्यां सुन्दरे वने । तेजिनीविपिने कोटो मङ्गले दक्षिणावृते ॥ १९॥ वैद्यनाथे विधिवने कालनाशेऽम्बिकेश्वरे । स्तुवन्तः परमां काष्ठां ते सर्वे रुद्रमूर्तयः ॥ २०॥ - - रुद्राः - यस्मात्परं न परमस्ति सुरादिसङ्घमोघाघसङ्गजभयं न भवेद्धि तस्य । यस्यार्चनेन कलिमुक्तिपदामिपङ्गः शाङ्गस्य लिङ्गविहितामलपूजकस्य ॥ २१॥ रुद्राक्षभस्मकलितामलकालकण्ठ कुण्ठीकृताघनिचयः स तु नीलकण्ठः । वैकुण्ठपूजितपदाम्बुजशीलनेन पाठीनसध्वजकृतां न रुजं वहेत ॥ २२॥ - - पितरश्च तथान्येषु तत्र सह्योद्भवातटे । लिङ्गेषु पूजयामासुः स्तुवन्तः साम्बमीश्वरम् ॥ २३॥ - - पितरः - मुकुटतटनिबद्ध (?) सोमधामोरुलिङ्गस्फुट परिचयपूजाध्यानतो मुक्तिकान्ताम् । कलयति सुकृतानां राशिरीशप्रसादादनुदिनगलिताघः शाम्भवः शम्भुभक्तः ॥ २४॥ - - ग्रहाद्या ऋषयश्चेमे मुनयोऽन्ये पिनाकिनम् । समभ्यर्च्य स्तुवन्तस्ते लेभिरे वाञ्छितानि हि ॥ कुम्भघोणे तथा भानुः चन्द्रो मध्यार्जुनाह्वये । मङ्गलैश्चा मायूरे बुधः श्वेताटवीतटे ॥ २६॥ छायावने गुरुर्देवं श्रीवाञ्छ्यां भृगुरीश्वरम् । मन्दोऽपि कमलापुर्यां केतुर्देववने शिवम् ॥ २७॥ राहुर्वातपुरीनाथं ध्रुवो वै सेतुबन्धने । तथान्ये मुनयः पूर्वं भूतभव्याः सनातनाः ॥ २८॥ तत्रैव पूजयामासुश्चतुर्दशसु सत्तमाः । स्तुवन्तः साम्बमीशानं लेभिरे वाञ्छितानि हि ॥ २९॥ - - ग्रहादयः - जय जय महाभैरव महाभूतभूषिमूल कुण्डलिकुण्डलालङ्कृत अतिधनविलसितविद्युदतिचलदुरुतरकरवाल निखिलनिगमोपगीयमान सूकरकर निकरपरिचयचतुरविरचितचतुरश‍ृङ्गार- करकमलकलितकपाल सरसिजासनविस्तारितसमस्तव्यस्तसमस्तजग- द्विस्तरसंहारसन्नद्धनिर्गणनिरवधिकपरिमाणनीहारपरिवार- मरीचिवीच्यपारसागरपत्नीजललुलितजटाजूटाभिराम हर दुरितहर अपराङ्गनाभोग सरागपतङ्गभङ्ग्यविततोत्तमाङ्ग भ्रूमध्यनयन- मदनदमन मत्तमधुकरझङ्कारसङ्काशनिजश‍ृङ्ग संसरणकिङ्किणीक्वणितललित पदाहतिलीनमद्दीमण्डलाधाराण्डज- प्रस्तूयमानताण्डवाडम्बरयुक्तारोत्कर्ष ध्वस्तदैत्यदानव- सङ्घातनिरन्तरातिरित (?) शान्तान्तःकरण अनवरत- धाराधरध्वानगम्भीरघर्घरगलगवयफूत्कारसन्निभगहरगुहाराजी विराजमानधराधराधीशकन्याकान्तिसङ्क्रान्तनिजकलेवरैकदेश अखिलजगत्यधीश महेश नमस्ते नमस्ते ॥ ३०॥ आदौ कर्मवशादुदश्चदखिलत्रैलोक्यमूलाङ्कुरं पञ्चोत्पल्लवितोरङ्गविभवश्रेणीसमुन्मेखलम् । अन्ते लोचनमुद्रणाविघटनाभङ्गि प्रगल्भं महो भालेलोचनमाविरस्तु पुरतः संसारमम्मोहनम् ॥ ३१॥ आधारं चतुराननस्य करकासन्नद्धपाथःस्रुतेराधेयं गिरिकन्यकाकुचतटाभोगस्य भङ्ग्याकृतेः । आशापालकमूलपालमखिलब्रह्माण्डभाण्डस्थितेरा- शापाशविमोचनाय प्रणमामान्तर्मनस्तन्महः ॥ ३२॥ - - सूतः - एवं लिङ्गेषु तुङ्गेष्वमरवरमहामातरो देवसङ्घा रक्षोयक्षाधिनाथा मनुमुनय इभे सह्यजापुण्यतीरे । सम्पूज्य प्रमथाधिनाथमनलालङ्करफालाक्षकं काङ्क्षामापुरतीव तुष्टहृदयाः शम्भोः कटाक्षाङ्कुरैः ॥ ३३॥ यल्लिङ्गार्चनमात्रतोऽखिलमहासाम्राज्यमाप्यात्र वै अन्ते मुक्तिमवाप्नुवन्ति नियतं भक्त्यैव शम्भोः पदे । देवे देवापि(?)मोदामदमुदितधियः शान्तसंसाररागा रोगापायैर्विमुक्ता घृतभसिवसितप्रेमरुद्राक्षसङ्गाः ॥ ३४॥ एवं तेऽमिहितो हरांशमहिमा हारेषु संहारकृत् पापानां श्रुतिवीक्षणोत्तममहाहारार्चकेषु ध्रुवम् । श्रुत्वाख्यानमुमापतिप्रियमहाभक्ताभिपुण्यार्थदं चाख्यानं श्रुतिशेखरोत्तमपदैः श्रुत्वैव तुष्टो भव ॥ ३५॥ पुण्यैः परं शिवरहस्यमधु प्रकृष्ट- मीशास्यपङ्कजवरात् परिनिःसृतं यत् । पेपीय षड्वदनषट्चरणात् सुगन्धि सन्यस्यति प्रकथयन्गणविप्रसङ्घे ॥ ३६॥ श्रुत्वेदं पुरुषार्थसारनिगमोपात्तं प्रकृष्टार्थदं भक्त्याख्यानमनोहरं वरचतुर्थांशं रहस्यं शिवम् । सम्प्राप्नोति गणेन्द्रमुख्यपदवीं किं कामनाभिः परं नाम्ना शङ्करनामकोऽयमतुलो भक्त्यामृणोद्यो नरः ॥ ३७॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३५ । १-३७॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 35 . 1-37.. Notes: Skanda स्कन्द and Sūta सूत narrate; that Śiva शिव is severally worshiped and eulogized at various Śiva Kṣetra-s शिव kShetra by Gandharvā-s गन्धर्वाः, Viśvavasu विश्ववसु, Taṇḍu तण्डु, Aśvina twins अश्विनौ, Maruta मरुत, Ādityā-s आदित्याः, Ekādaśa (11) Rudrā-s एकादश रुद्राः, Pitṛ-s पितृ, Navagraha नवग्रह. In this Chapter 35 अध्यायः ३५, that concludes the 4th Aṃśa चतुर्थांशः of Śiva-Rahasyam शिवरहस्यम्, Sūta सूत outlines the merit of listening and learning from the same. Proofread by Ruma Dewan
% Text title            : Gandharvasutanduprabhritibhih Shivaradhanam
% File name             : gandharvasutaNDuprabhRRitibhiHshivArAdhanaM.itx
% itxtitle              : shivArAdhanaM gandharvasutaNDuprabhRitibhiH praNetam (shivarahasyAntargatam)
% engtitle              : gandharvasutaNDuprabhRitibhiH shivArAdhanaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 35 | 1-37||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org