गरुडकृतं शिवस्तवः
(शिवरहस्यान्तर्गते भीमाख्ये)
देव देव सकलामरवन्द्य
विश्वनाथ शशिचूड महेश ।
व्योमकेश जितपञ्चशरेश
शूलमूलकर दारितकाल ॥ १८॥
मारमार हरिसायक शम्भो
कालकण्ठ करुणाकर धीर ।
घोरपातकभयादिहरेश
पाहि मां वरदयाघनसार ॥ १९॥
क्षयद्वीरं वीरं गरधरमुमाकान्तमधुना
शरण्यं मौलीन्दुद्युति विजितदिग्वक्त्रतमसम् ।
महागोद्यर्चमकृत पटसटाशोभिनृहरि-
स्फुरद्वक्षोहारिप्रखरनखरोद्योतितनखम् ॥ २०॥
प्रपद्ये देव त्वां श्रुतिवरशिरश्चारुपटली-
वलीढं ते पादं सकलसुरमौलिद्युतपदम् ।
अनाथानां नाथं सकलजगतामेकशरणं
शरण्यं त्वां शम्भुं भवहरणपादं कलयतः ॥ २१॥
यथा चेतो नित्यं न भजति तथा प्राकृत सुरान्
हरिब्रह्मामर्त्यान्त्सवरुणमरुत्वादिकगुणान् ।
भवं भावापन्नं श्रुतिवरशिरोवेद्यचरितं
तवेशानं कस्ते प्रचरति नरः स्तव्यमधुना ॥ २२॥
मदीयोऽयं मन्तुः सहतु च भवानेव नमसा
यतो वेदे वेद्यो भवसि सहमानस्त्वमधुना ।
तथाप्येतद्भक्त्या त्वयि गदितमेतद्विजतु मे
वचः पथ्यं स्वास्थ्यं क्षमसि मयि तिर्यक्त्वदयया ॥ २३॥
॥ इति शिवरहस्यान्तर्गते गरुडकृतं शिवस्तवः सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २० गरुडस्य ईश्वरप्रसादः । १८-२३॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 20 garuDasya IshvaraprasAdaH . 18-23..
Proofread by Ruma Dewan