गौरीकृता शिवस्तुतिः
ऋताय ते नमस्तुभ्यं सत्याय सततं नमः ।
पराय ब्रह्मणे तुभ्यं पुरुषाय नमो नमः ॥ १॥
कृष्णपिङ्गलनाम्ने ते नमस्तुभ्यं नमो नमः ।
किञ्चोर्ध्वरेतसे तुभ्यं विरूपाक्षाय ते नमः ॥ २॥
विश्वरूपाय वै तुभ्यं श्रुतिरूपाय ते नमः ।
दिव्यलिङ्गस्वरूपाय दिव्यशक्तिमते नमः ॥ ३॥
गुणत्रयनिदानाय गुणातीताय ते नमः ।
भवरोगादिसक्तानां पुरुषाणां दिवौकसाम् ॥ ४॥
आसुरामयभीतानां विष्णोर्मदनरोगिणाम् ।
चिकित्सकाय क्षेत्रेऽसिन् प्राप्ताय रजताचलात् ॥ ५॥
मूर्तिमद्भिर्मन्त्रगणैर्महद्भिः कोटिभिस्सदा ।
उपास्याय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६॥
अणिमाद्यष्टसिद्धीनां धनधान्यादि नायक ।
निधिदानपटो शम्भो चतुःषष्टिकलाप्रद ॥ ७॥
कृपानिधे नमस्तुभ्यं जगद्रक्षणदीक्षित ॥ ८.१॥
॥ इति वैद्यनाथस्थलमाहात्म्ये गौरीकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । षष्ठोऽध्यायः । वावृत्तश्लोकाः ॥
- .. vaidyanAthasthalamAhAtmyam . ShaShTho.adhyAyaH . vAvRRittashlokAH ..
Notes:
The Śloka-s are renumbered for readers' convenience.
Encoded by Ruma Dewan
Proofread by Ruma Dewan, Rajani Arjun Shankar