गौर्यादिकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते ईशाख्ये)
गौरी उवाच ।
शङ्गं सङ्गहरं कुरङ्गविलसद्द्बाहुं तुरङ्गागमं
गङ्गातुङ्गतरङ्गसङ्गत जटं चन्द्रोत्तमाङ्गं भजे ।
नेत्रीभूतपतङ्गरञ्जितमहाभालस्फुलिङ्गोल्लस-
ज्ज्वालालीढसुमन्मथाङ्गसुमहा भस्माङ्गरागं शिवम् ॥ ३१॥
हे वीतिहोत्रकृतनेत्र कलत्रगात्र
सत्रातिरात्रपरितोषितदृष्टिपात्र ।
पुत्रानिवाद्य परिपाहि मुनीन् गणेशा-
नत्राप्यमुत्र भगवन् दयया त्रिणेत्र ॥ ३२॥
सर्वामराद्य भवरोगहराद्य वैद्य
आखिद्यते पशुपते शिव पर्णशद्य ।
वेदान्तवेद्य निगमागमगद्यपद्य
संवेद्य हृद्यविभवाव सुरेष्वभेद्य ॥ ३३॥
कुमार उवाच ।
हरिं हरन्तं तमुमासुकान्तं
वेदान्तभान्तं शशिकान्ततान्तम् ।
तान्तेषु विश्रान्तिदमन्तकान्तकं
स्मर स्मरान्तं हृदये नितान्तरम् ॥ ३५॥
गजानन उवाच ।
पापं जहामि न सहामि भवोरुदुःखं
त्वामेव यामि हर सामिललाम सोमम् ।
सीमानमेव भगवच्छ्रुति धाम भूम
व्योमानमेव शरणं शरणाय यामि ॥ ३६॥
॥ इति शिवरहस्यान्तर्गते गौर्यादिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३५ शिवगौरीसंवादे इतिहासफलकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 35 shivagaurIsaMvAde itihAsaphalakathanam . vAvRRittashlokAH ..
Proofread by Ruma Dewan