गौतमकृतं १ शिवस्तोत्रम्
गौतम उवाच ।
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ।
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसम्भवैः ॥ ८॥
भगवन्नरुणाद्रीश सर्वलोकहितावह ।
अग्निरूपोऽपि संशान्तः प्रकाशस्य महीतले ॥ ९॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
इति त्वां सकला वेदाः स्तुवन्ति शिवविग्रहम् ॥ १०॥
नमस्ताम्रायारुणाय शिवाय परमात्मने ।
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे ॥ ११॥
त्वद्रूपमखिलं देव जगदेतच्चराचरम् ।
निधानमिव ते रूपं देवानामिदमीक्ष्यते ॥ १२॥
वर्षतां च पयोदानां निर्झराणां च भूयसाम् ।
सलिलोपायसंहारो युक्तस्ते युगसङ्क्षये ॥ १३॥
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ।
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात् ॥ १४॥
शीतो भव महादेव शोणाचल कृपानिधे ।
सर्वेषामपि जीवानामभिगम्यो भव प्रभो ॥ १५॥
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ।
सद्यः शीतलतां गच्छन्नभिगम्योऽभवत्प्रभुः ॥ १६॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये, पूर्वार्धे,
सप्तमाध्यायान्तर्गतं गौतमकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय ७/९-१५॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 7/9-15..
Proofread by PSA Easwaran