गौतमकृतं २ शिवस्तोत्रम्
अस्तौषमादिमं लिङ्गमरुणाद्रिमयं महत् ॥ ९॥
आद्येन ब्रह्मणा पूर्वमर्चितं दिव्यचक्षुषा ।
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ॥ १०॥
इति वेदा स्तुवन्ति त्वामरुणाद्रीश सन्ततम् ।
नमस्ताम्राय चारुणाय शिवाय परमात्मने ॥ ११॥
सर्ववेदस्वरूपाय नित्यायामृतमूर्त्तये ।
कालाय करुणार्द्राय दृष्टिपेयामृताब्धये ॥ १२॥
भक्तवात्सल्यपूर्णाय पुण्याय पुरभेदिने ।
दर्शनं तव देवेश सर्वधर्मफलप्रदम् ॥ १३॥
भुवि लब्धवता भूयो नान्यत्कार्यं तपः क्वचित् ।
भवता कर्मभूरेषा वर्ततेऽद्य निरोधिता ॥ १४॥
प्रार्थयन्ते स्वयं वासान्देवाश्चात्र त्वदाश्रये ।
कालसङ्ग्रहसञ्जातं फलं लब्धं मयाधुना ॥ १५॥
अन्यत्कृतं तपः सर्वं त्वद्दर्शनफलं मम ।
ईदृशं तव देवेश रूपमत्यद्भुतोदयम् ॥ १६॥
एकमद्रिमयं लिङ्गं न क्वचिद्दृष्टवान्भुवि ।
सूर्येन्द्वग्निसुसंयुक्तकोणत्रयमनोहरम् ॥ १७॥
त्रिमूर्तिरूप देवेश दृश्यते ते वपुर्महत् ।
शक्तित्रयस्वरूपेण कालत्रयविधानकम् ॥ १८॥
त्रिवेदात्मं त्रिकोणाङ्गं लिङ्गं ते दृष्टमद्भुतम् ।
त्रैलोक्यरक्षणार्थाय विततं रूपमास्थितः ॥ १९॥
दृश्यते वसुधाभागे शोणाद्रिरिति विश्रुतः ।
अजानतां च मर्त्यानां समालोकनमात्रतः ॥ २०॥
वितरत्यखिलान्भोगानव्याजकरुणानिधिः ।
अर्चया रहितं लिङ्गमन्यं शून्यमुदाहृतम् ॥ २१॥
इदं तु पूजितं देवैः सदा सर्ववरप्रदम् ।
प्रसीद करुणापूर्ण शोणाचलमहेश्वर ॥ २२॥
त्रायस्व भवभीतं मां प्रपन्नं भक्तवत्सल ।
द्रष्टव्यं द्रष्टमेतत्ते रूपमत्यद्भुतं महत् ॥ २३॥
कृतार्थय कृपासिन्धो शरण्य शरणागतम् ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये, पूर्वार्धे,
अष्टमाध्यायान्तर्गतं गौतमकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय ८/९-२३॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 8/9-23..
Proofread by PSA Easwaran