गिरिजाकृतं शिवस्तोत्रम्

गिरिजाकृतं शिवस्तोत्रम्

नमस्ते देवदेवाय महादेवाय मौलिने । जगद्धात्रे सवित्रे च शङ्कराय शिवाय च ॥ ७१॥ कपर्दिनेऽजयादाय ब्रह्मगर्भाय ते नमः । हिरण्यरेतसे तुभ्यं नीलग्रीवाय ते नमः ॥ ७२॥ नमो ब्रह्मण्य देवाय सितभूतिधराय च । पञ्चवक्त्राय रूपाय नीरूपाय नमो नमः ॥ ७३॥ सहस्राक्षाय शुभ्राय नमस्ते कृत्तिवाससे । अन्धकासुरमोक्षाय पशूनां पतये नमः ॥ ७४॥ विप्रवह्निमुखाग्राय हराय च भवाय च । शङ्कराय महेशाय ईश्वराय नमो नमः ॥ ७६॥ अमूर्तब्रह्मरूपाय मूर्त्तानां भावनाय च । नमः शिवाय चोग्राय हराय च भवाय च ॥ ७६॥ नमः कृष्णाय शर्वाय त्रिपुरान्तकहारिणे । अघोराय नमस्तेऽस्तु नमस्ते पुरुषाय ते ॥ ७७॥ सद्योजाताय तुभ्यं भो वामदेवाय ते नमः । ईशानाय नमस्तुभ्यं पञ्चास्याय कपालिने ॥ ७८॥ विरूपाक्षाय भावाय भगनेत्रनिपातिने । पूषदन्तनिपाताय महायज्ञनिपातिने ॥ ७९॥ मृगव्याधाय धर्माय कालचक्राय चक्रिणे । महापुरुषपूज्याय गणानां पतये नमः ॥ ८०॥ गङ्गाधराय मृडिने भवानीप्रियकारिणे । जगदानन्ददात्रे च ब्रह्मरूपाय ते नमः ॥ ९१॥ गुणातीताय गुणिने सूक्ष्माय गुरवेऽपि च । नमो महास्वरूपाय भस्मनो जन्मकारिणे ॥ ८२॥ वैराग्यरूपिणे नित्यं योगाचार्याय वै नमः । मयोक्तमप्रियं देव स्मरसंहारकारक ॥ ८३॥ क्षन्तुमर्हसि विश्वेश शिरसा त्वां प्रसादये । शापानुग्रह एवैष कृतस्ते वै न संशयः ॥ ८४॥ ममापराधजो मन्युर्न कार्यो भवताऽनघ । एवं प्रसादितः शम्भुर्हृष्टात्मा त्रिदशैः सह ॥ ८५॥ तीर्णव्रतपरानन्दनिर्भरः प्राह तामुमाम् । य इमां मत्स्तुतिं भक्त्या पठिष्यति तवोद्गताम् । तस्य चेष्टवियोगश्च न भविष्यति पार्वति ॥ ८६॥ जन्मत्रयधनैर्युक्तः सर्वव्याधिविवर्जितः । भुक्त्वेह विविधान्भोगानन्ते यास्यति मत्पुरम् ॥ ८७॥ इत्युक्त्वा तां महेशोऽपि स्वमङ्गं प्रददौ ततः । वैष्णवं वामभागं सा प्रतिजग्राह पार्वती ॥ ८८॥ इति श्रीस्कन्दपुराणे नागरखण्डे चतुऋपञ्चाशत्तमाधिक- द्विशततमाध्यायान्तर्गतं गिरिजाकृतं शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । नागरखण्ड । अध्याय २५४/७१-८२॥ skandapurANa . nAgarakhaNDa . adhyAya 254/71-82.. Proofread by PSA Easwaran
% Text title            : Girijakritam Shiva Stotram
% File name             : girijAkRRitaMshivastotram.itx
% itxtitle              : shivastotram (girijAkRitaM skandapurANAntargatam namaste devadevAya mahAdevAya mauline)
% engtitle              : girijAkRRitaM shivastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | nAgarakhaNDa | adhyAya 254/71-82||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : August 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org