गोदावर्येवं भीमशङ्करमहिमवर्णनम्
ईश्वरः -
ब्रह्मादयस्तदा देवि त्रियम्बकमुमासखम् ।
मां तुष्टुवुस्तदा भक्त्या नदी गोदावरीं तथा ॥ १॥
ब्रह्माद्याः -
भगाक्षिमथनान्तक प्रमथनाथ नः सर्वदा
सुरासुरमुनिव्रजप्रणतपादपङ्केरुह ।
प्रपन्नजनकरक्षक प्रमथनाथ विश्वाधिक
प्रसीद दुरितापह प्रवरनाम देवोत्तम ॥ २॥
प्रकृष्टजनिनाशद प्रवरमाय मायाहर
उमाधव रमाधव प्रणतपादकञ्ज प्रभो ।
शचीधवमुखामर द्विरदवक्त्र नन्दिस्तुत
गरादर निशाकराद्यमर चारयाणाव नः ॥ ३॥
ईश्वरः -
एवं ब्रह्मादयस्तत्र त्र्यम्बकं मां महेश्वरि
ययुः स्वस्थानममलं ब्रह्मलोकं सनातनम् ॥ ४॥
वर्णयन्तो विमानेषु गोदावर्यास्तदुद्भवम् ।
त्रियम्बकोरुशिखरात्गोदावर्यास्तदाम्बिके ॥ ५॥
तत्र सप्तमुखी भूत्वा कुशावर्ते महेश्वरि ।
तत्रत्यान्पावयन्ती सा शैवान्मम पदाश्रयान् ॥ ६॥
तत्रत्या मुनयः सर्वे प्रवरातीरवासिनः ।
गोदावरीं तदा देवीं युक्तां प्रवरया सह ॥ ७॥
तत्र स्थानवरं देवि मम सान्निध्यकृत्तमम् ।
भीमशङ्करसञ्ज्ञं तल्लिङ्गं मम मनोहरम् ॥ ८॥
तत्र पूर्वं महादेवि ब्रह्मणः पञ्चमं शिरः ।
मया विवदता तस्य सम्यग्वादेन शङ्करि ॥ ९॥
तत्पञ्चमं तस्य शिरो वृक्णं मम नखाग्रतः ।
तत्र स्तुवन्ति मां विप्रा भीमशङ्करसञ्ज्ञितम् ॥ १०॥
---
मुनयः -
त्वत्साम्यवादपरिचिन्हितपञ्चसंस्थं पञ्चाननस्य करकोणनखाग्रकृत्तम् ।
तत्कन्धरेण विलसत्करपल्लवं ते शूलामलेन विलसत् तव घोररूपम् ॥ ११॥
त्वं भीमशङ्करमिति श्रुतिषु प्रसिद्धः स्थानं तवैतदमलं मुनयो वदन्ति ।
गोदा सदा वहति या प्रवरासमेता तत्तीरगोऽसि विधिहन्पुरकामशत्रो ॥ १२॥
---
ईश्वरः -
एवं स्तुवन्ति मुनयो भृगाद्या मां महेश्वरि ।
सापि गोदावरी पुण्या तटलिङ्गैर्विभूषिता ॥ १३॥
समुद्रं सङ्गता गौरि तरङ्गावलिभासुरम् ।
गोदावर्यां सकृत्स्नात्वा सदा पर्वणि सत्तमे ॥ १४॥
अग्निष्टोमातिरात्राणां फलं प्राप्नोति मानवः ।
स्नात्वा योऽब्धौ महादेवि गोदावर्याश्च सङ्गमे ॥ १५॥
सर्वमेधफलं प्राप्य मल्लोके निवसेच्चिरम् ।
गोदावर्यां शिवे स्नात्वा सिंहसंस्थे बृहस्पतौ ॥ १६॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गोदावर्येवं भीमशङ्करमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22..
Notes:
Shiva describes to Gauri, the glory of River Godavari and the Bhimashankara Jyotirlinga that is located near the confluence of River Pravara and Godavari. Shiva narrates the story of Him severing Brahma's fifth head in this Kshetra, and highlights the merits of bathing in River Godavari during Simhastha (transit of Guru/Brihaspati in Simha rashi).
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan