गुरुकृतं शिवस्तोत्रम्
गुरुरुवाच ।
नमो देवाधिदेवाय महादेवाय चात्मने ।
महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२॥
दीननाथाय विभवे नमोऽन्धकनिषूदिने ।
त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३॥
विरूपाक्षाय रुद्राय बहुरूपाय शम्भवे ।
विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४॥
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ।
नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥ २५॥
कालान्तकाय कालाय कालभोगिधराय च ।
नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६॥
नमो ब्रह्मशिरोहन्त्रे ब्रह्मचन्द्रस्तुताय च ।
ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥ २७॥
त्वमग्निरनिलो व्योम त्वमेवापो वसुन्धरा ।
त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥ २८॥
त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ।
मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥ २९॥
त्वमेव सर्वलोकेशस्त्वमेव जगदात्मकः ।
सर्वान्वयस्सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥ ५.१३.३०॥
त्वं वै सृजसि लोकाङ्श्च रजसा विधिनामभाक् ।
सत्त्वेन हरिरूपस्त्वं सकलं पसि वै जगत् ॥ ३१॥
त्वमेवासि महादेव तमसा हररूपधृक् ।
लीलया भुवनं सर्वं निखिलं पाञ्चभौतिकम् ॥ ३२॥
त्वद्ध्यानबलतस्सूर्यस्तपते विश्वभावन ।
अमृतं च्यवते लोके शशी वाति समीरणः ॥ ३३॥
त्वद्ध्यानबलतो मेघाश्चाम्बु वर्षन्ति शङ्कर ।
त्वद्ध्यानबलतश्शक्रस्त्रिलोकीं पाति पुत्रवत् ॥ ३४॥
त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ।
स्वाधिकारं च कुर्वन्ति चकिता भवतो भयात् ॥ ३५॥
त्वत्पादकमलस्यैव सेवनाद्भुवि मानवाः ।
नाद्रियन्ते सुरान् रुद्र लोकैश्वर्यं च भुञ्जते ॥ ३६॥
त्वत्पादकमलस्यैव सेवनादगमन्पराम् ।
गतिं योगधना नामाप्यगम्यां सर्वदुर्लभाम् ॥ ३७॥
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे
त्रयोदशाध्यायान्तर्गतं गुरुकृतं शिवस्तोत्रं
समाप्तम् ।
शिवपुराण । रुद्रसंहिता । युद्धखण्ड । अध्याय १३/२२-३७॥
shivapurANa . rudrasaMhitA . yuddhakhaNDa . adhyAya 13/22-37..
Proofread by PSA Easwaran