हनुमदादि वानरैः कृतं रामनाथस्तोत्रम्

हनुमदादि वानरैः कृतं रामनाथस्तोत्रम्

हनूमानुवाच । देवदेव जगन्नाथ रामनाथ कृपानिधे । त्वत्पादाम्भोरुहगता निश्चला भक्तिरस्तु मे ॥ २६॥ यं विना न जगत्सत्ता तद्भानमपि नो भवेत् । नमः सद्भानरूपाय रामनाथाय शम्भवे ॥ २७॥ अङ्गद उवाच । यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् । न भासते नमस्तस्मै रामनाथाय शम्भवे ॥ २८॥ जाम्बवानुवाच । सर्वानन्दो यदानन्दो भासते परमार्थतः । नमो रामेश्वरायास्मै परमानन्दरूपिणे ॥ २९॥ नील उवाच । यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् । तस्मै रामेश्वरायास्मै नमोऽभिन्नस्वरूपिणे ॥ १.४९.३०॥ नल उवाच । ब्रह्मविष्णुमहेशाना यदविद्याविजृम्भिताः । नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते ॥ ३१॥ कुमुद उवाच । यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः । कल्पितं कारणायास्मै रामनाथाय शम्भवे ॥ ३२॥ पनस उवाच । जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृम्भितम् । जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे ॥ ३३॥ गज उवाच । यत्स्वरूपापरिज्ञानात्कार्याणां परमाणवः । कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा ॥ ३४॥ तमहं परमानन्दं रामनाथं महेश्वरम् । आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम् ॥ ३५॥ गवाक्ष उवाच । अज्ञानपाशबद्धानां पशूनां पाशमोचकम् । रामेश्वरं शिवं शान्तमुपैमि शरणं सदा ॥ ३६॥ गवय उवाच । साध्वस्तजगदाधारं चन्द्रचूडमुमापतिम् । रामनाथं शिवं वन्दे संसारामयभेषजम् ॥ ३७॥ शरभ उवाच । अन्तःकरणमात्मेति यदज्ञानाद्विमोहितैः । भण्यते रामनाथं तमात्मानं प्रणमाम्यहम् ॥ ३८॥ गन्धमादन उवाच । रामनाथमुमानाथं गणनाथं च त्र्यम्बकम् । सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम् ॥ ३९॥ सुग्रीव उवाच । संसाराम्भोधि मध्ये मां जन्ममृत्युजले भये । पुत्रदारधनक्षेत्रवीचिमालासमाकुले ॥ १.४९.४०॥ मज्जद्ब्रह्माण्डखण्डे च पतितं नाप्तपारकम् । क्रोशन्तमवशं दीनं विषयव्यालकातरम् ॥ ४१॥ व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिनम् । मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते ॥ ४२॥ अन्यसर्वे वानरा ऊचुः । निन्द्यानिन्द्येषु सर्वत्र जनित्वा योनिषु प्रभो । कुम्भीपाकादिनरके पतित्वा च पुनस्तथा ॥ ४६॥ जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते । संसारे पतितानस्मान् रामनाथ दयानिधे ॥ ४७॥ अनाथान्विवशान्दीनान्क्रोशतः पाहि शङ्कर । नमस्तेऽस्तु दयासिन्धो रामनाथ महेश्वर ॥ ४८॥ इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे एकोनपञ्चाश- त्तमाध्यायान्तर्गतं हनुमदादि वानरैः कृतं रामनाथस्तोत्रं समाप्तम् । स्कन्दपुराण । ब्रह्मखण्ड । सेतुल्खण्ड । अध्याय ४९/२६-४८॥ skandapurANa . brahmakhaNDa . setulkhaNDa . adhyAya 49/26-48.. Proofread by PSA Easwaran
% Text title            : Hanumadadi Vanaraih Kritam Ramanatha Stotram
% File name             : hanumadAdivAnaraiHkRRitaMrAmanAthastotram.itx
% itxtitle              : rAmanAthastotram (hanumadAdivAnaraiHkRitaM skandapurANAntargatam)
% engtitle              : hanumadAdivAnaraiHkRRitaM rAmanAthastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | brahmakhaNDa | setulkhaNDa | adhyAya 49/26-48||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 9, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org