हरदत्तकृता शिवस्तुतिः

हरदत्तकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते सदाशिवाख्ये) हरदत्त उवाच । महादेवो देवः श्रुतिशिखरमौलिस्थवचनै- स्तथान्ये विष्ण्वाद्याविधिहरिहरेन्द्रानलयमाः । महादेवाज्जाताः श‍ृणुत वरसोमेन जनिता अतो वेदैर्वेद्यो भवति शिव एकः शिवकरः ॥ ६३॥ मखानामेवायं प्रभुरखिलविश्वाधिक हरः स वेदादौ चान्ते स्वरजनिततारः परशिवः । यतो ब्रह्मेन्द्राद्या हरिरविमुखा रुद्रनिवहाः प्रसूता ध्येयोऽयं श्रुतिशिखवाक्यैः परशिवः ॥ ६४॥ ऋतं सत्यं देव पुरुषपरमो भूतहृदयो नमोऽन्तानां शेषी श्रुतिवरमहारुद्रवचसाम् । रवेरन्तर्ध्येयो भवति स हि भर्गेन(ण)वचसा द्विजैर्गायत्र्यां च प्रतिपदमुपास्यः परशिवः ॥ ६५॥ यतो वाचः शम्भोर्भवति च निवृत्ताश्च मनसा महानन्दं यस्माद्भवति जनतास्वेव निपुणम् । जगद्यस्माज्जातं प्रभवति महेशेन जनितं अतोऽन्ते तस्मिन्यद्द्भवति च विलीनं परशिवे ॥ ६६॥ द्विजानां जाबालश्रुतिगदितवर्णाश्रमविधिः महात्रैविध्योक्तः श्रुतिगदितवर्णाश्रमविधिः । शिवस्यार्चालिङ्गे श्रुतिगदितभस्माक्षविधृति- र्जपो रुद्रस्यायं श्रुतिगदितपञ्चाक्षरमनोः ॥ ६७॥ विष्णुब्रह्मानन्द्रा मुनिनृपदितिजा यस्य लिङ्गार्चनाद्वै सम्प्राप्ताः पदवीं सदैव मुदितास्तैः कर्मदेवा जनाः । एतत्सत्यमहो त्रिसत्यमधुना वच्मीदमग्नीशितुः सान्निध्ये निवसामितत्सुखमहं पद्मेवतत्पायसे ॥ ६०॥ इत्युक्त्वा हरदत्तकस्त्रिजगतीनाथं प्रणम्यादरा- न्निस्तीर्णः सुमहायसोरुशयनादुत्तीर्य राज्ञार्चितः । शौवेन्द्रैर्हरभक्तिभावजनितैः सानन्दबाष्पाम्बुभिः लोकैः साध्विति नन्दितो हरकृपापीयूषवारान्निधौ ॥ ६९॥ ॥ इति शिवरहस्यान्तर्गते हरदत्तकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः १७ गौरीहरदत्तचरितम् । ६३-६९॥ - .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 17 gaurIharadattacharitam . 63-69.. Proofread by Ruma Dewan
% Text title            : Haradattakrita Shiva Stuti
% File name             : haradattakRRitAshivastutiH.itx
% itxtitle              : shivastutiH haradattakRitA (shivarahasyAntargatA)
% engtitle              : haradattakRitA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 17 gaurIharadattacharitam | 63-69||
% Indexextra            : (Scan)
% Latest update         : July 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org