हरिकृता शिवस्तुतिः
भव भीम पुरस्मरान्धकारे भजतां सर्वफलप्रदोऽसि शम्भो ।
तव शङ्कर किङ्करोऽस्म्यहं भव भावानुभवप्रभाव मूर्ते ॥ ११॥
सुरवर्गनिखर्ववेदवादैः विधिगीतैश्चतुराननैरपीड्यम् ।
पुरगर्वादिहरान्धकान्तकारे शरणं मे भव तारणाय शम्भो ॥ १२॥
श्रुतिशेखरवाक्यजातपूज्ये भगवंस्त्वच्चरणाम्बुजद्वये ।
नयनामलपद्मसङ्गमे पदपद्मे भजतां न जन्ममृत्यू ॥ १३॥
अकुण्ठदयया विभो तव सुनीलकण्ठाधुना
अकुण्ठितसुचक्रधृक्प्रसभमाजिमध्यं गतः ।
सुरेन्द्रदितिजोद्भवं रणकठोर जेतास्म्यहं
पिठारजगतीभवं भव भवामि वैकुण्ठपः ॥ १४॥
तव वामभवाङ्गसम्भवोऽस्म्यहमीशान तवाद्य दक्षभागः ।
तव भालतलाद्वभूव रुद्रो जगतां भवनाशनस्थितौ स्वः ॥ १५॥
मम नाभिपयोजसम्भवो विधिभालोद्भव एष एव रुद्रः ।
वयमुद्भवने स्थितौ च नाशे विनियुक्ताः पुरहन्त्वयाऽत्र कल्पे ॥ १६॥
त्वामीशं श्रुतिभिर्विमृग्यमानं मोहान्धाः शिवमेकमेवमाद्यम् ।
मम मायामयपाशबद्धबुद्ध्या जगतां मां करणं तथाहुरन्ये ॥ १७॥
भव भर्ग महेश देव शम्भो शशिधामद्युतिशोभितोत्तमाङ्ग ।
करुणारससागराव शम्भो भुवनेशान नतोऽस्मि ते पदाब्जे ॥ १८॥
करकलितकरालशूल बालाविधृताकृतिकालकाल-
भालानल नीलामलगलगरलोत्थिताधिकीला ।
दलितान्तक लोकदेह लोलालकतूलातयित गाङ्गवारि
मौला मलव्यालोरु महाङ्गजातलीला (१) ॥ १९॥
शशितरणिहुताशोत्फुल्लभालाब्जनेत्रं
दिनमणि किरणोद्यच्चक्रधामप्रदं मे ।
रणरणितसुरादिवृन्दबन्ध द्विषदितिजासुहरं हरं प्रपद्ये ॥ २०॥
अलमलमनुवेलं कालकालं सलीलं जगति कलितकालं व्यालमालं सशूलम् ।
बलिबलिबलिनन्दनार्च्यपादं मुनिबालावनतं शिवं भजे त्वाम् ॥ २१॥
अङ्गज भङ्ग तुरङ्ग रथाङ्ग भुजङ्ग महाम्बरसङ्ग
शशाङ्ग (शताङ्ग) विहङ्ग पतङ्ग निषङ्ग कुरङ्गधरोक्षक सङ्ग
परिपाहि विभो सुदृशाऽङ्ग दृशाङ्गमहोरु महाङ्गस्फुलिङ्ग ॥ २२॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये हरिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः ३१ । ११-२२॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 31 . 11-22..
Notes: Viṣṇu विष्णु (Hari हरि) worships Śiva शिव in Tejini forest तेजिनिविपिन with a thousand lotus flowers - one each for one of the thousand names of Śiva शिव. When one lotus apparently goes missing, Hari हरि offers His eye that is akin to a lotus. Pleased with His intense devotion, Śiva शिव grants Him the Sudarśana Cakra sudarshana chakraand revives His eye as well.
Proofread by Ruma Dewan