हिमालयकृतं ४ शिवस्तोत्रम्
देवदेव महादेव योगिरूप नमोऽस्तु ते ॥ ७॥
निर्गुणाय सगुणाय लीलाकाराय ते नमः ।
परिपूर्णाय विकृतिरहिताय च ते नमः ॥ ८॥
शान्ताय सुखरूपाय ब्रह्मणे ते नमोनमः ।
तपःफलप्रदात्रे ते तपःस्थाय नमोनमः ॥ ९॥
अबहिर्भोगकाराय नमस्ते परमात्मने ।
परमात्मस्वरूपाय ते सतीपतये नमः ॥ १०॥
भाग्योदयफलं मेऽत्र त्वागतस्त्वं मम गृहे ।
सनाथं कृतवान् मां त्वं प्रभो साधुसुखप्रद ॥ ११॥
अद्य मे सफलं जन्म सफलं जीवनं मम ।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ १२॥
ज्ञात्वाऽनन्यं तव दासं चाज्ञां देहि यदि प्रभो ।
त्वत्सेवां तु सदा प्रीत्या कुर्यां दास्यविधानतः ॥ १३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १८५-अध्यायान्तर्गतं
हिमालयकृतं शिवस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १८५/७-१३॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 185/7-13..
Proofread by PSA Easwaran