इन्द्रकृतं शिवस्तोत्रम्
इन्द्र उवाच ।
स्वमायया यो ह्यखिलं चराचरं सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
एकः स्वतन्त्रोऽद्वयचित्सुखात्मकः स नः प्रसन्नोऽस्तु पिनाकपाणिः ॥ ६८॥
न यस्य तत्त्वं सनकादयोऽपि जानन्ति वेदान्तरहस्यविज्ञाः ।
स पार्वतीशः सकलाभिलाषदाता प्रसन्नोऽस्तु ममान्धकारिः ॥ ६९॥
सृष्ट्वा स्वयम्भूर्भगवान्विरिञ्चिः भयङ्करं चास्य शिरोऽन्वपश्यत् ।
छित्त्वा नखाग्रैर्नखसक्तमेतच्चिक्षेप तस्मादभवत्त्रिवर्गः ॥ ७०॥
पापं दरिद्रं त्वथ लोभयाच्ञे मोहो विपच्छेति ततोऽप्यनन्तम् ।
जातप्रभावं भवदुःखरूपं बभूव तैर्व्याप्तमिदं समस्तम् ॥ ७१॥
अवेक्ष्य सर्वं चकितः सुरेशो देवीमवोचज्जगदस्तमेति ।
त्वं पाहि लोकेश्वरि लोकमातरुमे शरण्ये सुभगे सुभद्रे ॥ ७२॥
जगत्प्रतिष्ठे वरदे जय त्वं भुक्तिः समाधिः परमा च मुक्तिः ।
स्वाहा स्वधा स्वस्तिरनादिसिद्धिर्गीर्बुद्धिरासीरजरामरे त्वम् ॥ ७३॥
विद्यादिरूपेण जगत्त्रये त्वं रक्षां करोष्येव मदाज्ञया च ।
त्वयैव सृष्टं भुवनत्रयं स्याद्यतः प्रकृत्यैव तथैव चित्रम् ॥ ७४॥
इत्येवमुक्ता दयिता हरेण संश्लेषसंलापपरा बभूव ।
श्रान्ता भवस्यार्धतनौ सुलग्ना चिक्षेप च स्वेदजलं कराग्रैः ॥ ७५॥
तस्माद्बभूव प्रथमं स धर्मो लक्ष्मीरथो दानमथो सुवृष्टिः ।
सत्त्वं सुसम्पन्नधरं सरांसि धान्यानि पुष्पाणि फलानि चैव ॥ ७६॥
सौभाग्यवस्तूनि वपुः सुवेषः श्रृङ्गारभाजीनि महौषधानि ।
नृत्यानि गीतान्यमृतं पुराणं श्रुतिस्मृती नीतिरथान्नपाने ॥ ७७॥
शस्त्राणि शास्त्राणि गृहोपयोग्यन्यस्त्राणि तीर्थानि च काननानि ।
इष्टानि पूर्तानि च मङ्गलानि यानानि शुभ्राभरणासनानि ॥ ७८॥
भवाङ्गसंसर्गसुसम्प्रहाससुस्वेदसंलापरहःप्रकारैः ।
तथैव जातं सचराचरं च अपापकं देवि ततश्च जातम् ॥ ७९॥
सुखं प्रभूतं च शुभं च नित्यं विराजि चैतत्तव देवि भावात् ।
तस्मात्तु मां रक्ष जगज्जनित्रि भीतं भयेभ्यो जगतां प्रधाने ॥ ८०॥
एके तर्कैर्विमुह्यन्ति लीयन्ते तत्र चापरे ।
शिवशक्त्योस्तदाऽद्वैतं सुन्दरं नौमि विग्रहम् ॥ ८१॥
इति ब्रह्मपुराणे एकोनत्रिंशाधिकशततमाध्यायान्तर्गतं
इन्द्रकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १२९/६८-८१॥
brahmapurANa . adhyAya 129/68-81..
Proofread by PSA Easwaran