जगदम्बिकाकृतं अरुणाचलशिवस्तोत्रम्
अरुणाद्रिमयं लिङ्गं तुष्टाव जगदम्बिका ।
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते ॥ २१॥
तेजोमयाद्रिलिङ्गाय सर्वपाततकनाशिने ।
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः ॥ २२॥
अग्निरूपोऽपि सञ्छान्तो लोकानुग्रहक्लृप्तये ।
शक्त्या च तत्त्वसङ्घातकरः कालानलाकृतिः ॥ २३॥
अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ।
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम् ॥ २४॥
तेजसां देव सर्वेषां बीजभूतं निगद्यसे ।
दिव्यं हि परमं तेजस्तव देव महेश्वर ॥ २५॥
यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ।
अद्य पूतास्मि देवेश तव सन्दर्शनादहम् ॥ २६॥
तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, अरुणाचलमाहात्म्ये,
पूर्वार्धे, द्वादशाध्यायान्तर्गतं जगदम्बिकाकृतं अरुणाचलशिवस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । अरुणाखण्ड । पूर्वखण्ड । अध्याय १२/२१-२६॥
skandapurANa . mAheshvarakhaNDa . aruNAkhaNDa . pUrvakhaNDa . adhyAya 12/21-26..
Proofread by PSA Easwaran