जैगीषव्यकृतं शिवस्तोत्रम्

जैगीषव्यकृतं शिवस्तोत्रम्

जैगीषव्य उवाच । नमः शिवाय शान्ताय सर्वज्ञाय शुभात्मने । जगदानन्दकन्दाय परमानन्दहेतवे ॥ ३२॥ अरूपाय सरूपाय नानारूपधराय च । विरूपाक्षाय विधये विधिविष्णुस्तुताय च ॥ ३३॥ स्थावराय नमस्तुभ्यं जङ्गमाय नमोऽस्तुते । सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने ॥ ३४॥ नमस्त्रैलोक्यकाम्याय कामाङ्गदहनाय च । नमो शेषविशेषाय नमः शेषाङ्गदाय ते ॥ ३५॥ श्रीकण्ठाय नमस्तुभ्यं विषकण्ठाय ते नमः । वैकुण्ठवन्द्यपादाय नमोऽकुण्ठितशक्तये ॥ ३६॥ नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने । सकृत्प्रणाममात्रेण देहिदेहनिवारिणे ॥ ३७॥ कालाय कालकालाय कालकूटविषादिने । व्यालयज्ञोपवीताय व्यालभूषणधारिणे ॥ ३८॥ नमस्ते खण्डपरशो नमः खण्डेन्दुधारिणे । खण्डिताशेष दुःखाय खड्गखेटकधारिणे ॥ ३९॥ गीर्वाणगीतनाथाय गङ्गाकल्लोलमालिने । गौरीशाय गिरीशाय गिरिशाय गुहारणे ॥ २.६३.४०॥ चन्द्रार्धशुद्धभूषाय चन्द्रसूर्याग्निचक्षुषे । नमस्ते चर्मवसन नमो दिग्वसनाय ते ॥ ४१॥ जगदीशाय जीर्णाय जराजन्महराय ते । जीवाय ते नमस्तुभ्यं जञ्जपूकादिहारिणे ॥ ४२॥ नमो डमरुहस्ताय धनुर्हस्ताय ते नमः । त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः ॥ ४३॥ त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर । त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च ॥ ४४॥ त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च । दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः ॥ ४५॥ दारिताशेषपापाय नमस्ते दीर्घदर्शिने । दूराय दुरवाप्याय दोषनिर्दलनाय च ॥ ४६॥ दोषाकरकलाधार त्यक्तदोषागमाय च । नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय ॥ ४७॥ नमो धीराय धर्माय धर्मपालाय ते नमः । नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित ॥ ४८॥ नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक । नमः प्रमथनाथाय पिनाकोद्यतपाणये ॥ ४९॥ पशुपाशविमोक्षाय पशूनां पतये नमः । नामोच्चारणमात्रेण महापातकहारिणे ॥ २.६३.५०॥ परात्पराय पाराय परापरपराय च । नमोऽपारचरित्राय सुपवित्रकथाय च ॥ ५१॥ वामदेवाय वामार्धधारिणे वृषगामिने । नमो भर्गाय भीमाय नतभीतिहराय च ॥ ५२॥ भवाय भवनाशाय भूतानां पतये नमः । महादेव नमस्तुभ्यं महेश महसां पते ॥ ५३॥ नमो मृडानीपतये नमो मृत्युञ्जयाय ते । यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च ॥ ५४॥ यायजूकाय यज्ञाय यज्ञानां फलदायिने । रुद्राय रुद्रपतये कद्रुद्राय रमाय च ॥ ५५॥ शूलिने शाश्वतेशाय श्मशानावनिचारिणे । शिवाप्रियाय शर्वाय सर्वज्ञाय नमोऽस्तु ते ॥ ५६॥ हराय क्षान्तिरूपाय क्षेत्रज्ञाय क्षमाकर । क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः ॥ ५७॥ अन्धकारे नमस्तुभ्यमाद्यन्तरहिताय च । इडाधाराय ईशाय उपेद्रेन्द्रस्तुताय च ॥ ५८॥ उमाकान्ताय उग्राय नमस्ते ऊर्ध्वरेतसे । एकरूपाय चैकाय महदैश्वर्यरूपिणे ॥ ५९॥ अनन्तकारिणे तुभ्यमम्बिकापतये नमः । त्वमोङ्कारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि ॥ २.६३.६०॥ दृश्यादृश्यं यदत्रास्ति तत्सर्वं त्वमु माधव । स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि ॥ ६१॥ वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोऽस्मि ते । नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर ॥ ६२॥ नान्यं नमामि गौरीश नान्याख्यामाददे शिव । मूकोऽन्यनामग्रहणे बधिरोऽन्यकथाश्रुतौ ॥ ६३॥ पङ्गुरन्याभिगमनेऽस्म्यन्धोऽन्यपरिवीक्षणे । एक एव भवानीश एककर्ता त्वमेव हि ॥ ६४॥ पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना । अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः ॥ ६५॥ संसारसागरे मग्नं मामुद्धर महेश्वर । इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः ॥ ६६॥ वाचं यमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ॥ इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे त्रिषष्टितमा- ध्यायान्तर्गतं जैगीषव्यकृतं शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड । अध्याय ६३/३२-६५॥ skandapurANa . kAshIkhaNDa . uttarakhaNDa . adhyAya 63/32-65.. Proofread by PSA Easwaran
% Text title            : Jaigishavyakritam Shiva Stotram
% File name             : jaigIShavyakRRitaMshivastotram.itx
% itxtitle              : shivastotram (jaigIShavyakRitaM skandapurANAntargatam namaH shivAya shAntAya sarvajnAya shubhAtmane)
% engtitle              : jaigIShavyakRRitaM shivastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | kAshIkhaNDa | uttarakhaNDa | adhyAya 63/32-65||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org