जैगीषव्यप्रोक्तं शिवनामस्तोत्रम्
(शिवरहस्यान्तर्गते भीमाख्ये)
पुरुषं परमेशानं सर्वभूतगुहाशयम् ।
व्याप्य व्यापकताहीनं कारणानां च कारणम् ॥ १७॥
पतीनां पतिमीशानमुमापतिमनामयम् ।
गणानां च पतिं देवं शिवं गृत्सपतिं प्रभुम् ॥ १८॥
कुलुञ्चानां पतिं शम्भुं हरं व्रातपतिं विभुम् ।
दिशां च पतिमीशानमुग्रं देवं कपर्दिनम् ॥ १९॥
अम्बिकेशं पशुपतिं पथीनां पतिमीश्वरम् ।
अन्नानां च पतिं देवं बभ्रुशं मीढुषं शिवम् ॥ २०॥
भवोद्भवं महादेवं पुष्टानां पतिमीश्वरम् ।
जगतां पतिमाशास्यं वनानां च पतिं भवम् ॥ २१॥
क्षेत्राणां च पतिं भीमं वृक्षाणां शर्वमीश्वरम् ।
कक्षाणां च पतिं व्योमकेशं कोशादिवर्जितम् ॥ २२॥
जगतां चैव विश्वेशमोषधीनां महेश्वरम् ।
पत्तीनां मेरुधनुषं सत्वानां बाणधारकम् ॥ २३॥
सहमानं महेशानमाव्याधिपतिमीश्वरम् ।
सर्वेषां तस्थुषाणां (षां चैव) च जङ्गमानां पतिं प्रभुम् ॥ २४॥
- -
सर्वैश्वर्येण सम्पन्नं नाम्ना सर्वेश्वरं शिवम् ।
अनामरूपं देवेशं सर्वावासं च दूरगम् ॥ २५॥
सर्वभूतैकशरणं शरण्यं शरणार्थिनाम् ।
महाकारुणिकं साम्बं भक्तानामभयप्रदम् ॥ २६॥
सर्वेन्द्रियार्थसहितं विषयादिविवर्जतम् ।
सर्वेन्द्रियगुणातीतं सर्वाधारमनामयम् ॥ २७॥
सर्वस्य प्रभुमीशानं नात्यकिञ्चिन्तमं स्तवैः ।
ध्यात्वा हृत्पङ्कजे देवमुमया सहितं शिवम् ॥ २८॥
॥ इति शिवरहस्यान्तर्गते जैगीषव्यप्रोक्तं शिवनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १ जैगीषव्यप्रश्ने स्कन्दध्यानम् । १७-२८॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 1 jaigIShavyaprashne skandadhyAnam . 17-28..
Proofread by Ruma Dewan