जप्येशाष्टप्रासशतकम्

जप्येशाष्टप्रासशतकम्

श्रीकालीश लसत्कटाक्षगलदस्तो का नुकम्पाझरी- सेकाशेषविमृष्टसर्वविनमल्लोकाघ विश्वाधिप । राकाब्जानन योगिसत्कृतिपरीपाकायुतार्कोज्ज्वला- लोकास्मद्धृदयाम्बुजे वस चिरं हे कामितार्थप्रद ॥ १॥ एकाकी स्वयमीश्वरो जगति योऽनेकात्मना राजते पाकारिप्रमुखैः सदैव निखिलैर्नाकालयैरर्चितः । लोकातङ्कहरः प्रभुर्भवनदीनौकायिताङ्घ्रिद्वयःं शोकापोहनमादरात् स तनुतां मे कामवैरी शिवः ॥ २॥ यं कालाभिधशैलखण्डनविधौ टङ्कायिताङ्घ्रि हरं कङ्कालाभरणं निषेव्य गतहृत्पङ्का भृशं योगिनः । शङ्कामं प्रतिपेदिरे विनतहृत्पङ्कापनोदोद्यतं तं कामद्विषमन्तरान्यमधुना कं कातरो नौम्यहम् ॥ ३॥ किं कार्यं पतितौघपालनकलाशङ्काकुलैर्निजरै- र्यं कारुण्यनिधिं समेति विगताहङ्कारमृण्यावलिः । अङ्कासीनगिरीन्द्रजास्तनतटालङ्कारकस्तूरिका- पङ्कालङ्कृतवक्षसं पशुपतिं तं कालकण्ठं भजे ॥ ४॥ सङ्केतं निखिला इवेत्य सुगुणा यं केलिभूमिं नता- तङ्केलाधरवज्रमङ्घ्रिमगमन् पङ्केरुहश्रीमुषम् । कङ्केलिप्रसवप्रभं प्रणमतां तं केवलं पालने शङ्के सन्धृतरागमीश्वर तवाहं केशवाद्यर्चित ॥ ५॥ (Variation लङ्केशोऽस्तुवदीश्वरं श्रुतिगणैर्य केवलं सर्वदा- नङ्केन्दूज्ज्वलमस्तकं वरगुणाः सङ्केतमेत्येव ते । स्वं केलीभवनं यमापुर खिलास्तं केशवाराधितं पङ्केषु भ्रमतामवन्तमिह हृत्परु भावये ॥ ५॥) त्वां कैरीशमतर्पयं सुचरितैर्धूकैः समः सर्वतो भीकैः सार्धमटन् वृथानयमहो हा कैतवाढ्यैर्जनिम् । हे कैलासपते करोम्यपि तथा श्लोकैनुतिं केवलै- रेकैश्वर्यनिधे भृशं मम नमोवाकैश्च हृष्टो भव ॥ ६॥ एकोऽप्यद्य कृतो मया नहि वृषो हा कोऽपि देवोऽर्चितः काकोलं हरतस्तवाच्युतनुत श्लोकोत्तमप्रस्तुतौ । मूकोऽस्म्यज्ञतयाहमित्थमभवं काकोदरालङ्कृते मा कोपं कुरु मद्धृदब्जमुकुलं व्यकोचयात्यादरात् ॥ ७॥ चक्रास्त्रादिदुरूहनैजमहिमन् चक्रायितेन्दीवरेट् चक्राप्ताखिललोक नाथ विनमञ्चक्रावनैकवत । शक्राभीष्टद साम्ब मां भवमहाचक्राज्जवादुद्धर प्रक्रामन्ति यतो विमोहनकृते वक्रा हि कामादयः ॥ ८॥ लेखाधीशमुखेष्टदाद्य हिमरुग्लेखात्तमौले नम- द्रेखाक्ष्युत्पलचन्द्रिकायितलसन्मैखाभ शम्भो विभो । रेखाब्जान्वितमुक्तिदाङ्घ्रियुगलीलेखार्धवाहद्युस- च्छाखावद्गण भूरि मे विरचयर्क्छाखादिगेय श्रियम् ॥ ९॥ शिख्याकाशरवीन्दुवायुजलभूमख्यात्मना यः प्रभु- विख्यातो भगवान् विभाति सुमनोमुख्यादिभिः सेवितः । सङ्ख्यानन्दितभृत्यकिन्नरपतेर्दुःख्यार्तिहं पङ्कज- प्रख्याभं प्रतिपद्य तस्य चरणं सुख्याश्वहं स्यां कदा ॥ १०॥ रागाहङ्कृतिमुख्यशत्रुशमनो योऽगाधिनाथात्मजा- योगातिस्फुरदङ्गको मुनिवरैर्योगादिभिः सेव्यते । यागाद्यैश्च सदा सभक्तिकमलं नागाजिनाच्छादनो नागाधीशविभूषणो भवभयत्यागाय स स्यान्मम ॥ ११॥ इङ्गालीकृतसर्वलोकमदकृच्छृङ्गारयोनिं बुधा भङ्गायाघकुलस्य यन्ति मुनिद्रङ्गात्तनाट्यादरम् । पिङ्गाबद्धजटाभरं मम मनः सङ्गाहते भूमिभृ- च्छृङ्गागारमगात्मजाश्रितवरोत्सङ्गाभिरामं शिवम् ॥ १२॥ यं गायन्ति बुधा विमुक्तविषयासङ्गा जटान्तोद्भव- गङ्गानीरजरा जिलोलविनदाङ्गालिङ्कारम् । तुङ्गालेपयुताद्रिजाकुचपरिष्वङ्गाभिराम रसं श‍ृङ्गारैकनिकेतनं तमिह भाव्यङ्गापनुत्त्यै भजे ॥ १३॥ योगीशैः परतत्त्वमित्यविरतं यो गीयते प्राक्तना वागीष्टेऽपि न वर्णितुं यमतुलं भोगीशभूषोज्ज्वलम् । भो गीर्वाणकुलैर्विभावितपदा वागीशमुख्यैस्त्वया द्रागीश स्मरणीय एष भवरुग्भागीदृशोऽहं विभो ॥ १४॥ प्राग्यामापरतिं मनस्तु विषये राग्याशु तन्मेऽधुना योग्यामङ्घ्रिसुसङ्गतिं तव भजेद् भोग्या च मुक्तिर्यथा । योग्यावेद्यपदाद्विजावरतपोभाग्याद्य कृत्वा तथा द्राग् याच्ञां मम पूरयाखिलमहारोग्यार्तिविध्वंसन ॥ १५॥ उग्रा रिजहत् सदाक्ऱितकवागग्राधिगम्यं ह्ऱिदा - प्यग्राह्यं विबुधैर्हतार्तजनतारुग् राजते यत् पदम् । उग्र।त्यद्भुतविश्वसर्जनगुणोदग्राशु मोहादयो निग्राह्या मम चित्तमोहनकृतिव्यग्रा हि तेन त्वया ॥ १६॥ श्लाघा का कुरुषे दयां यदि विभो वैघानसानां परा- मोघायात्मवतां सतां भव शरन्मेघाभ विश्वेश्वर । मेऽघानि त्वमपोह्य वामचरणव्याघातधूतान्तका- मोघामीश नुतिं विधेहि कृपया मोघार्तिविध्वंसनाम् ॥ १७॥ आचारैर्विधिचोदितैरसुलभं प्राचामलक्ष्यं च यं वाचामेति वटद्रुमूलनिलयं त्वाचार्यमृप्यावलिः । आचामत्यतुलं यदङ्घ्रिभजनं नीचारिवर्गं क्षणा- द्धे चामीकरशैलचाप भवसङ्कोचाय मे त्वं भव ॥ १८॥ इच्छाकार्यजगत्कृतिस्थितिलय स्वच्छाम्बुवाहच्छटा - सच्छायाङ्ग विभो कपर्दकुहरप्रच्छादिताम्र पग । पृच्छामीश्वर मा कुरु त्वमिह भो यच्छाद्रिजाताप्रभो यच्छान्तोऽनुभवत्यलं मुनिगणस्तच्छाश्वतं मे सुखम् ॥ १९॥ हृच्छाखामृग निष्फले भववने तुच्छाटसि त्वं वृथा प्रच्छायं परिरब्धपीनकुचसद्गुच्छाढ्यगौरीलतम् । सच्छझरीरकलभ्यमिष्टफलदं सच्छाखिनं सादरं गच्छाद्यं गिरिशं शिवाख्यमतुलं मच्छासनात् सत्वरम् ॥ २०॥ यो जायाङ्गरुचा विचित्रितलसत्तेजा विभाति घुस- द्वाजाद्यानत सर्वकाम्यदपदाम्भोजाद्य स त्वं विभो । भो जातादरमीश देहि कृपयाव्याजामजस्रं जग- द्वीजातीव तवाङ्घ्रिभक्तिमतुलां राजार्धचूडेश्वर ॥ २१॥ सञ्जातप्रणयं सदैव तरुणीपुञ्जान्तरे मूढ हे किं जाल्माटसि दुर्बिनीत हृदय त्वं जागरूकं भृशम् । यं जानन्ति सुखैकहेतुममराः कञ्जाक्षमुख्याः परं तं जानीहि परायणं पशुपतिं कञ्जार्धचूडोज्ज्वलम् ॥ २२॥ प्रज्ञावद्भिरतीव तत्त्वमतुलं जिज्ञासुभिर्यः सदा यज्ञाद्यैः परिसेव्यते सुकृतिभिर्विज्ञानरूपः शिवः । अज्ञानान्त्रतमः कदम्बतपनावज्ञातकालादरात् सज्ज्ञानं त्वमुमेश देहि नितरामज्ञाय मह्यं विभो ॥ २३॥ खाटाधीशमुखैर्निषेवित सुरैश्चेटायमानैस्त्रयी- घोटाध्यूढ महीरथोत्तम जटाजूटा स्थिताआपग । कीट।द्याखिलजन्तुरक्षक विभो कूटायितोर्वीधरेट्- कूटाद्येश्वर देव पालितनमत्कूटाशु मां पालय ॥ २४॥ चेटीभूत चतुर्मुखादिदिविषत्कोटीशिरःप्रोल्लस- त्कोटीरोज्ज्वलदिव्यरत्नकुलभाघाटीविराजत्पदम् । पाटीरादिलसच्छिवाकुचतटीकोटीविलीढोरसं शाटीभूतमृगाजिनं मुनिमनःपेटीधनं भावये ॥ २५॥ दुष्टा यस्तु पुरो ददाह जगतोऽनिष्ठापनुत्त्यै परं तुष्टा यं कृतिनो भजन्ति गिरिजाष्टिआङ्गकं यन्मुदे । इष्टाद्यं वृषमाचरन्ति सततं शिष्टा भृशं यत्र सा दृष्टा भाति दयालुता वितनुतामिष्टार्थसिद्धिं स मे ॥ २६॥ स्रष्टाभूत् करुणां प्रपद्य जगदुत्कृष्टाद्यतः पद्मभूः पुष्टा येन दयाब्धिना त्रिजगती हृष्टा परं राजते । नष्टाज्ञानहृदन्तैरैर्मुनिवरैर्जुष्टाङ्घ्रिपद्मो भव- क्लिष्टान्तःकरणस्य मे स तनुतात् कष्टापनोदं शिवः ॥ २७॥ शुण्डालास्यषडास्यनन्दक नमत्षण्डा खिलैनस्तम- श्चण्डांशो मणिकुण्डलद्युतिलसद्गुण्डानुकम्पाम्बुधे । तुण्डाब्जाटदुमाकटाक्षमधुपाखण्डात्मरूपोडुराट्- खण्डालङ्कृतमस्तकाभयददोर्दण्डाव मामादरात् ॥ २८॥ सोढारं निखिलागसां श्रुतिशिरोगूढार्थमाहुर्बुधा वोढारं जगतां च यं मुनिमनोलीढाङ्घ्रिपद्मद्वयम् । ऊढा येन नगात्मजा नतरुजागाढान्धकारारुणो मूढायाशु स मे प्रयच्छतु धियं प्रौढामतीवेश्वरः ॥ २९॥ क्षोणावाविरभूद्धनञ्जयपरित्राणाय भिल्लात्मना बाणाद्यर्चितपद्वयो वसति यः प्राणात्मना जन्तुषु । स्थाणावेव ममान्वहं च रमतामेणाश्रितात्युल्लस- त्पाणावानतखेदतूलकमहाप्राणायिताङ्घ्रौ मनः ॥ ३०॥ क्षोणी यस्य रथोऽभवत् पुरजये वाणीपतिः सारथि - स्तूणीरो जलधिर्हरस्य सुमनःश्रेणीष्टकर्तुर्विभोः । क्षोणीघ्रोऽपि शरासनं सुरनदी वेणी विराजजट बाणीभूतहरिं तमीडितुमलं वाणी मदीया कथम् ॥ ३१॥ पुण्यात्मोह्यपदं जगन्मदकरीट्सृण्यायितेच्छं भवा- रण्याग्निं लत्रु यत्स्मितार्चिषि पुरैस्तृण्यायितं तं भवम् । पुण्याल्युत्तमभूषणप्रविलसन्मण्याढ्यगात्रं सुधा- घृण्यापीडमुपास्महे हृदि सदागण्यातुलप्राभवम् ॥ ३२॥ पाता यो यमुमाप येन रविभूराताडि यस्मै तपो- जातानि प्रभवेऽर्पयन्ति सुकृतित्राता हि यस्मात् प्रजाः । जाता यस्य हरस्य सारथिवरो धाता स यस्मिन् भृशं ख्याता सर्वदयालुता स भगवान् दाता सुखस्यास्तु नः ॥ ३३॥ श्वेताभ्रव्रजगर्वभञ्जनरुचिर्भूताधिपः संसृते- र्भीतानामभयङ्करः सुरगणैर्गीतापदानावलिः । चाताशाधिपभूषणोज्ज्वलतनुर्जातादरं लोकसं- त्राता वृत्तिमिमां व्यपोहतु परां मे तामसीमीश्वरः ॥ ३४॥ पूतान्तःकरणार्चितस्य मकुटानीतान्तरिक्षापगा- शीतांशोः परिरब्धभूमिधरराड्जाताङ्गभास्वत्तनोः । आताम्राभिविसारिकान्तिनिकरक्रीताम्बुजं तस्य मां वीतांहोब्रजमीश्वरस्य तनुताद् धृतान्तकं पद्वयम् ॥ ३५॥ यन्तारं जगतां बुधाः पशुपतिं सन्तापविध्वंसिनं सन्तानायितपादमिष्टभरणेऽनन्तादिसंसेवितम् । हन्तारं च पुरां नगाधिपभुवो रन्तारमाहुर्विभुं तं तावत् सततं भवाख्यजलधेः सन्तारणार्थं भजे ॥ ३६॥ दान्ता यं हि विभावयन्ति नितरां शान्ता महायोगिनः स्वान्ताब्जे शिवमादरेण च सदा चान्तार्तखेदं परम् । कान्ताश्लिष्टकलेवरो भवमहाकान्तारसञ्चारिणं शान्तातङ्कमिमं तनोतु भगवान् मां तादृशः शङ्करः ॥ ३७॥ भ्रान्तानां भवकाननेऽसि शरणं क्षान्तानतागाः ? समा- क्रान्तानेकविधप्रपञ्चदुरितध्वान्तार्क शम्भो ततः । त्वां तापत्रयभञ्जनं परमहं श्रान्तावनं रोहिणी- कान्तापीडमहं श्रितः शिव भवान्मां तारयाशु प्रभो ॥ ३८॥ त्यक्ताहङ्कृतयोऽपि यं मुनिवराः शक्ता न वेत्तुं विभुं व्यक्ताव्यक्तमनन्तमाद्यमगजायुक्तार्धगात्रं शिवम् । मुक्ता यत्करुणाकटाक्षलहरीसिक्ता भृशं यत्पदा - सक्तान्तःकरणा बुधास्तमनिशं भक्तानुकम्पं भजे ॥ ३९॥ दृप्ता येन पुरोऽल्पहासशुचिना तप्ताः क्षणादेव भी - र्लुप्ता नाकनिवासिनां त्रिजगती गुप्ता दयाम्भोधिना । सप्ताबद्धसुरापगः पशुपतिः सप्ताश्वनक्षत्रराट्- सप्तार्चिर्नयनो जवादवतु नः कॢतार्तलोकावनः ॥ ४०॥ मस्तारोपितचन्द्र मोहबलतो ग्रस्तात्मचेताः परं दुस्तायें भवसागरे पशुपतेऽधस्तान्निमग्नं दृढम् । त्रस्तावल्यभयप्रदानविदधद्धस्ताशु चोत्तार्य मां ध्वस्तातङ्कमिमं विधाय कुतुकं विस्तारयार्यापते ॥ ४१॥ कृत्याकृत्यविवेकशून्यहृदयोऽगत्या भवाब्धौ भ्रमन् मत्या त्वां नहि पारयाम्यचलया सत्याहमारा घितुम् । नत्या केवलया भजाम्यगवरापत्याधिप त्वं समु- द्धृत्यार्तं करुणाकराशु शिव मामत्याहितात् पालय ॥ ४२॥ नित्यानन्दमयः सदैव मुनिसन्तत्या विरिञ्चादिम- स्तुत्यात्मीयपदाम्बुजो हृदि महानत्यादरान्मृग्यते । श्रुत्याम्रेडितवैभवाय विभवे सत्यात्मने सन्ततं भृत्यातङ्कमहान्धकारनिवहादित्याय तस्मै नमः ॥ ४३॥ दैत्यारिप्रमुखार्चिते मुनिमनो वेत्त्यादरादिष्टदे यात्यामृष्टविनम्रसंसृतिमहाभीत्यादिके यत्पदे । भात्यानन्दमयश्च यः पशुपतिः कात्यायनीशोऽञ्जसो- पेत्यापद्यनुकम्पया स भगवान् प्रीत्या च मां रक्षतु ॥ ४४॥ वृत्रारिप्रमुखा भजन्ति निखिलाः सत्रातिभक्त्या सदा सत्रासा गिरिशं मृकण्डुमुनिराट्पुत्रार्तिहं यं परम् । यत्रातीव मनांसि भान्ति कृतिनां चित्रात्मकृत्ये परे हृत्त्रासाद् भवजाद् दयाब्धिरिह मां स त्रायतामीश्वरः ॥ ४५॥ नेत्राग्निक्षपिताङ्गजो जयति यो नेत्रायिताशो जग- न्नेत्रा येन हताः पुरः शतजगन्नेत्रातितेजस्विना । धात्राद्यैर्विनयात् सदैव कलितस्तोत्राय विश्वात्मने गोत्राधीश्वरकन्यकाश्रितलसद्द्वात्राय तस्मै नमः ॥ ४६॥ यं त्रातारमुदाहरन्ति सुमहामन्त्रार्थलक्ष्यं बुधा- स्तन्त्राणामपि सम्प्रवर्तकमलं यन्त्रावलीनामपि । हन्त्रा येन पुरां कृताः सुरगणाः सन्त्रासहीनाः परं नन्त्रार्तिक्षपणेन तेन जगतां यन्त्रा सनाथोऽस्म्यहम् ॥ ४७॥ वित्तेशादिसुहृजनाय नितरां दत्तेप्सितार्थ प्रभो कृत्तेष्टावलिसंसृतिद्रुमतते मत्तेभचर्माम्बर । यत्तेऽगस्त्यमुखा भजन्ति हृदि यद्धत्ते सरोजद्युतिं चित्ते मे स्फुरतु प्रकाममनिशं तत्ते शिवाङ्घ्रिद्वयम् ॥ ४८॥ श्रुत्वा सद्गुरुभाषितं हृदि परं धृत्वा तदत्यादरा- द्धित्वाज्ञानपरम्परामरिगणान् जित्वाशु कामादिमान् । भित्त्वा चाशु हृदब्जकोशमनिशं तत्त्वात्मकं तत्र यत् तत्त्वाद्यं विभु वस्तु साम्बमतुलं धृत्वा सुखी स्यां कदा ॥ ४९॥ हत्वा मोहमदादिदुर्जयमहासत्त्वान् भवारण्यगान् गत्वा चाशु गिरीशमाद्यमतुलं नत्वा मुहुः शङ्करम् । कृत्वा मूर्ध्नि दृढाञ्जलिं सविनयं स्तुत्वा पुरस्तस्य तु स्थित्वाहं सुखतस्तृणाय विबुधान् कृत्वा कदा स्यां कृती ॥ ५०॥ यः स्थाणुर्भगवान् निरन्तरसुखावस्थानमिन्द्रादिमान् स्वस्थानाशु ररक्ष चान्धकमुखान् प्रस्थाप्य याम्यं पुरम् । दुःस्थानाद्विषयान्निवृत्य तरसा हृत् स्थापयित्वा नता- वस्थाजालहरस्य तस्य चरणे स्वस्था भवामः कदा ॥ ५१॥ यो दाता सकलश्रियां प्रतिदिनं पादाब्जमासेदुषां श्रीदानन्दविवर्धनस्त्रिजगतीखेदापहः शङ्करः । वेदार्थप्रतिपाद्य कॢप्तविनतामोदाद्य संसाररुङ्- नोदायेश भव प्रभो मम हृदाह्रादाय स त्वं क्षणात् ॥ ५२॥ मन्दाकिन्यधिवासभासुरजटं वृन्दारकानीतस- न्मन्दारादिसुमस्रवन्मधुरसस्यन्दार्द्रपादाम्बुजम् । दासायितविष्टपं परचिदानन्दात्मकं योगिनां वृन्दानन्दनमीश्वरं शुभकरं वन्दामहे सादरम् ॥ ५३॥ यं दीव्यन्निजकान्तिसन्ततिझरीबन्दीकृतार्कप्रभं नन्दीशार्चितमामनन्ति परमस्यन्दीति च ब्रह्म सत् । तं दीनावनतत्परं हृदि भजन्निन्दीवरेट्छेखरं मन्दीभूतभवामयश्च परमानन्दी कदा स्यामहम् ॥ ५४॥ यं देवं मुनयो भजन्ति मतहृत्सन्देहमत्यादरात् कुन्देन्दुस्फटिकप्रभं प्रणिपतद्वृन्देप्सितार्थप्रदम् । तं देव्याश्रितवामभागमधुनाहं देवराजार्चितं वन्दे भक्तढयापरं पशुपतिं मन्देतर श्रेयसे ॥ ५५॥ यद्यार्तं विषये भ्रमन्तमिह सत्पद्यामलव्व्वा सदा- विद्याक्रान्तमुपेक्षसेऽखिलजगद्धद्याद्रिजानाथ माम् । अद्यान्यं कमुपैमि देव शरणं मद्याचनां कस्त्रयी- विद्यागोचर पूरयेद् बद वियन्नद्यात्तमौले विभो ॥ ५६॥ हृद्राज्याद् भगवन् ममारिनिवहान् क्षुद्रानवार्यान् परं छिद्रान्वेषणतत्परानतिखलान् रुद्राशु कामादिमान् । विद्राव्येश विधाय तेऽङ्घ्रिजलरुण्मुद्रामिहार्यापते भद्राकार चिरं गिरीश वस चिद्भद्रासनाधिष्ठितः ॥ ५७॥ यो धात्रीधरवर्यकूटविलसत्सौधाघिवासी विभु- वेन्धा नीरजलोचनः शिव इति त्रेवा बुधैरुच्यते । आधारेण सुरास्तु येन जगतां बाधाविहीनाः सदा मेवामाशु स मे करोतु परचिद्वोधानुकूलां शिवः ॥ ५८॥ रुद्धाः प्राक्तनकर्मणाद्य विषये बद्धादरा मायया विद्धाः संसृतिसम्भ्रमज्जनिमतामुद्धारके त्वत्पदे । सिद्धादिप्रणुते प्रपद्य शुभदे शुद्धात्मलभ्ये शिव श्रद्धाभक्तियुता भवेम भगवन् सिद्धाभिलाषा कदा ॥ ५९॥ किं धावस्यभितोऽपि मानस वचः सन्धार्य मे चित्तभू- गन्धानेकपकेसरिण्ययि कृपासिन्धावतीवादरात् । त्वं धातृप्रमुखार्चिते वस भवाध्यन्याश्रितार्तिच्छटा- रुन्धाने चिरमीश्वरे गिरिसुताबन्धावुदारे सुखम् ॥ ६०॥ बुद्धया निर्मलया मुनीन्द्र निव हैरध्यात्मविद्यापरै- र्यद्ध्यापन्नभयापहं-बहुतपः सिद्ध्याप्तये सादरम् । अध्यास्याङ्ङ्घ्रियुगं मनस्यविरतं निध्यायते ते विभो विध्याद्यर्चित साम्ब मे कुरु मनस्तद्ध्यानसक्तं सदा ॥ ६१॥ येनापालि पुरा मृकण्डतनयः कीनाशदर्पच्छिदा यो नालीकभवादिकॢप्तसुयशोगानानुरक्तः शिवः । नानातङ्कनिदानसंसृतिस्र्जा दूनानिमान् नः प्रभो का नाम त्वमुपेक्षसे यदिह ते दीनानुकम्पप्रथा ॥ ६२॥ यो नागाभरणः प्रपन्नजनमुद्दानानुरक्तः परं येनासर्जि महात्मना जगदिदं नानाविधं पाल्यते । सूनास्त्रस्मयभञ्जनेन भवरुङ्म्लानार्तिविध्वंसिना श्रीनाथाक्षिसरोजपूजितपदा तेनानुकम्प्योऽस्म्यहम् ॥ ६३॥ स्नानाराधनहोमदर्पणजपध्यानादिसत्कर्मभि- हीन्नायार्थतृषाटते तत इतो मानादिकं मुञ्चते । भो नार्याश्रितगात्र मोचितनताल्येना विभो त्वं परं सेनानीप्रिय सुप्रसीद भगवन् ज्ञानादिशून्याय मे ॥ ६४॥ अन्या भूतपतेस्तु या दिवि च वावन्यामनोकास्थिता जन्यातङ्कविलङ्घना न खलु ता मन्यामहे देवताः । धन्या यत्पदसेवका भवमहावन्यादवं यं विदु- र्मुन्याराधितपवयं तमगराट्क्न्याश्रिताङ्गं भजे ॥ ६५॥ कापालीयंविभूषणं नतमहातापापहाङ्घ्रिद्वय- व्यापारं परमेश्वरं मुनिवरैर्द्वैपायनाद्यैर्नृतम् । तापापोहनतत्परं त्रिजगतां चापायिताद्रि कृपा- कूपारं प्रणमामि सन्ततमहं श्रीपार्वतीवल्लभम् ॥ ६६॥ योऽपास्तानतलोकभीर्जयति यत्कोपाकुलालीकदृग्- दीपार्चिष्यवशो भृशं शलभतामापारविन्दाशुगः । शापास्त्रार्चितसत्त्वमीश्वरजगद्रूपाद्य मायामहा- कूपादाशु दयाम्बुधे पशुपते भो पालयोद्धृत्य माम् ॥ ६७॥ कल्पान्तोज्ज्वलभीष्मपावक शिखाकरूपातितीव्र- प्रभानल्पावार्यविषाग्निशोषणयशोजरुपाककण्ठद्युते । कल्पाद्यस्मयहृत्पदाय गिरिराट्तल्पाय भस्मोज्ज्वला- कल्पायाखिललोकहर्षकरसङ्कल्पाय तुभ्यं नमः ॥ ६८॥ आभात्यद्रिसुताप्रियो नतमनः क्षोभापनोदोद्यतो यो भारत्यघिपादिगेयसुमहालोभार्थरक्षाप्रथः । आभा यस्य परां रुचं प्रहसति प्राभाकरीमम्बुरु- नाभाराध्यपदाम्बुजो भवतु मे लाभाय स श्रेयसाम् ॥ ६९॥ डम्भाहङ्कृतिवर्जितात्मसुलभं यं भार्गवीशस्वभू- जम्भार्यादिसुरा भजन्ति मुनयोऽहम्भावहीनाः परम् । तं भाव्युद्भवहानये श्रुतिशिरःसम्भाव्यमार्यापरी- रम्भातिस्फुरदङ्गकं हृदि सदाहं भावये शङ्करम् ॥ ७०॥ कुम्भीन्द्राजिनधारिणं मृगधरं कुम्भीभवाराधितं कुम्भीपाकनिवास हेत्वघहरं कुम्भीनसालङ्कृतिम् । गम्भीरोरुभवाब्धिवाडवमलं यं भीममाहुर्बुधा- स्तं भीतौघभ्यापहं हृदि जे स्तम्भीकृतक्ष्वेडकम् ॥ ७१॥ किं भोगैर्नयसे वृथैव दिवसान् रम्भोरुभिर्बञ्चित त्वं भोगीशशयार्चितं निगमवाम्गुम्भोह्यमानं परम् । अम्भोजासनभाव्यमानमतुलं दम्भोलिभृद्वन्दितं शम्भोरङ्घ्रिसरोरुहं भज मनः शं भो भजस्व द्रुतम् ॥ ७२॥ शुभ्रा यस्य रुचिर्विभोरपहसत्यभ्रावलीं शारदीं बिभ्राणं कथयन्ति यं भववने विभ्र/म्यतः प्राणिनः । श्वभ्रादाशु भवाभिधादवतु मामभ्रापगावीचिका- विभ्राण्मौलिरगात्मजार्धतनुभाविभ्राजमानः शिवः ॥ ७३॥ कामापूरणतत्परं प्रणमतां भीमार्तिहं यं नगेड्- धामानं स्फटिकेन्दुशङ्खविलसद्धामानमाहुर्बुधाः । हेमाद्रीशशरासनः स भगवान् रामाश्रितात्युल्लसद्- बामाङ्गः करुणापयोधिरनिशं मामाशु पायाच्छिवः ॥ ७४॥ कामादिस्मयभञ्जनानतजनक्षेमावहाद्य प्रभो सोमार्येश कृपाकर श्रुतिशिरःसीमा यिताङ्ङ्घ्रयम्बुज । त्वामाहुर्भवरोगपीडितजनस्तोमार्तिविध्वंसिनं मामार्तं त्वमुपेक्षसे पशुपते सोमार्धमौले कथम् ॥ ७९॥ यः स्मार्यो यमुपासते मुनिगणा भस्माशु येनाङ्गकं तत् स्मारं कृतमामनन्ति विबुधा यस्मा अलं नो परः । यस्माद्यस्य तुलापि नास्ति भुवनादस्मान्न यस्मिन् भिदा तस्मादस्तु निरन्तरं पशुपतेरस्माकमीशात् सुखम् ॥ ७६॥ यो मीनध्वजभञ्जनोऽखिलजगत्स्वामी महायोगिहृद्- गामी दीनजनौघरक्षणपरः सामीन्दुचूडो विभुः । श्यामीभूतशिरोघरं तमनिशं त्वामीश निःश्रेयसं कामी शङ्करमादरेण शिरसा नौमीप्सितार्थप्रदम् ॥ ७७॥ गेया यस्य महात्मनः श्रुतिगिरामेया गुणा योगिभि- र्मायामुक्तहृदम्बुजैः सुकृतिभिर्ज्ञेया यदीयाकृतिः । जायार्धाङ्गसमन्वितप्रविलसत्कायार्धभागो भवा- पायादाशु स मामनाथमतुलः पायादजस्रं शिवः ॥ ७८॥ वर्या यं हि विभावयन्ति यमिनां पर्याप्तभाग्या मनो- दर्यामादरतोऽविलङ्घितवचोमर्यादमिष्टार्थदम् । निर्याते शमितुं विषे सुमनसां धुर्याविरासाशु यः कुर्यादद्विसुताप्रियः स भृशमैश्वर्याणि मह्यं शिवः ॥ ७९॥ आर्यानाथ दयासमुद्र भगवन् नार्याप्त मायातमः- सूर्यास्माकमियं प्रभो गिरिश वाग् धार्या त्वया चेतसि । कार्यास्मासु दया नितान्तमरयो वार्या हि कामादयो दार्या देव भवाम्बुधेः पशुपते तार्या वयं सत्वरम् ॥ ८०॥ आरामं २ पतितावनत्वयशसं दाराश्रिताङ्गं दया- सारापास्तनता र्त्यवग्रहभयं हारायितास्थ्यावलिम् । आराध्यं मुनिसत्तमैर्हदि शरद्धाराधर श्रेणिका - गौराभं सततं विभुं श्रुतिनदीपारायिताङ्घ्रि भजे ॥ ८१॥ चोरा मे सुमनोऽपहृत्य च महासारा हि कामादयः क्रूरा मां व्यथयन्ति हा भवमहाकारागृहे शत्रवः । मारारे भवमोचनेश्वर कियद्वारानहं वच्मि मा- मारादेत्य कटाक्षनिस्रुतकृपापू । शु -पाहि प्रभो ॥ ८२॥ स्मेरास्यः पतितावनः श्रुतिशिरःसार।यिताङ्घ्रयम्बुजः सूराभापहसद्रुचिः पशुपतिर्यो राजते शाश्वतः । तारानाथकलातिभास्वरजटाभाराय तस्मै चिदा- कायाकलये महर्षिहृदयराय तस्मै नमः ॥ ८३॥ वैरी यः शमनस्य सज्जनमनश्धारी महेशः कृपा- वारीशो भगवान् विभाति सुतरामुरीकृतार्तावनः । भूरीष्टानि तनोतु नित्यमतुलो दूरीकृताघत्रजो गौरीशः सकलप्रपञ्चभरणे पारीण आद्यः स मे ॥ ८४॥ योऽलावीन्मदवारणं नततमस्तूलानलः शङ्करः कालारिर्भवसिन्धुमग्नजनताकोलायिताङ्ङ्घ्रिद्वयः । कैलासाचलवासिने त्रिजगतीपालाय तस्मै नम- ज्जालाभीष्टफलप्रदाङ्घ्रिसुमनःसालाय कुर्मोऽञ्जलिम् ॥ ८५॥ हेलावारितविश्वशोषकमहाहालाहलोग्रानल- शालायाकलयेऽञ्जलिं शिव महाकालाय तुभ्यं सदा ॥ ८६॥ यो लीलाजितमन्मथो घनकृपाशाली विभुगूढप- न्माली येन रिपुत्रजात् सुरगणोऽपालीश्वरेणादरात् । शूली मोहजुषो व्यपोह्य तरसा शालीनतां स श्रुति- व्यालीढो निजपवये वितनुतां मे लीनमीशो मनः ॥ ८७॥ प्रालेय/ चलकन्यकाश्रिततनो फालेक्षणाद्य त्रयी- वेलेष्टार्थददत्पदाम्बुज हरिच्चेलेश्वरात्यादरात् । नीलेन्दीवरबन्धुकन्धरविभो बालेन्दुलेखालस- न्मौले मामव तादृशे च चरमे काले दयाम्भोनिधे ॥ ८८॥ कालोऽयं कलिनावृतोऽघनिलयः कालो भृशं निर्दयो भो लोकेश भवाम्बुधेरसुलभा कूलोपलब्धिः परम् । आलोच्येत्थमतीव मेऽद्य हृदयं व्यालोलमास्तरां बालोऽहं बत किं करोमि तरसा शैलोद्भवेशाव माम् ॥ ८९॥ कल्याणीरमणस्तनोतु नितरां कल्याणमिष्टार्थदः कल्याणाचलकार्मुको विनतहृच्छयापहो मे विभुः । कल्यातङ्कहरः सदैव सुतपःकल्यात्मवित्तापसा- वल्याराधितपादपद्मयुगलोऽतुल्यात्मभूमेश्वरः ॥ ९०॥ सेवा यस्य भवाधिभीतजनताजीवातुरेनोऽटवी- दावाग्निं यमुदाहरन्ति करुणास्वावासभूमिं बुधाः । देवाधीशनुताय शश्वदसितग्र वाय सर्वात्मने जीवानामभयङ्कराय महते देवाय तस्मै नमः ॥ ९१॥ निर्वाणैकनिकेतनं त्रिजगती सर्वार्ति विध्वंसकं गुर्वाद्यैर्निखिलैर्यदुग्रचरितं स्वर्वासिभिर्गीयते । दुर्वारो गरलानलो भगवता निर्वापितो येन भोः शर्वाशु त्वमुमासहाय नितरां कुर्वादरान्मे मुदम् ॥ ९२॥ गुर्वीशानमहीधरं भुजबलादुर्वीत उन्मूलयन् गर्वी येन निपीडितो दशमुखो निर्वीर्यमाक्रन्दयन् । खर्वीभूतभवाधिरेत्य जनतादवकरालङ्कृतिं कुर्वीश त्वमुमापते मयि कृपां गुर्वीमनन्याश्रये ॥ ९३॥ अव्यादिष्टफलप्रदः पशुपतिः पव्यायुधाद्यर्चितो रख्याभो भगवान् जटान्तरलसद्दिव्यापगः शङ्करः । अव्याजं सततं कृपाजलनिधिर्भव्यं करोत्यादरात् अव्यात्मप्रभवाचितप्रविलसत्सव्यागात्रः स माम् ॥ ९४॥ दीव्यन्नाकिशिरोमणिद्युतिलसत्सेव्यं यदङ्प्रयम्बुजं भाव्यं योगिवरैश्च येन तरसालाव्यन्तकस्य स्मयः । श्राव्यं यस्य विचित्रपुण्यचरितं सोऽव्यन्तवासी शिवो देव्यङ्गार्धलसत्तनुर्भवतु मे भाव्यङ्गविच्छित्तये ॥ ९५॥ आशापूरणतत्परस्य नमतामाशाधिपत्यं कृपा- लेशाद्यस्य शतक्रतुप्रभृतयः श्रीशार्चितस्याभवन् । ईशानं प्रणतौघचित्तजलरुट्कोशाब्जबन्धुं जग- त्क्लेशापोहनतत्परं भवमहापाशापहं तं भजे ॥ ९६॥ पूषाब्ज । ग्निविलोचनाय महते भूषायभाणैः परं शेषाद्यैर्भुजगाधिपैः प्रविलसद्वेषाय लोकात्मने । आशापूर्तिकरस्य यस्य नमतामाशाधिपाः सत्कृपा- लेशादिन्द्रमुखा निरस्तनिखिलक्लेशा विधूतारयः । दाशाकारभृदर्जुनेऽषभरणे कोशायिता भ्रः स मा- मीशानः प्रणतौ घचित्तजलरुट्कोशारुणोऽव्यात् सदा । ९६॥ -म् । एषा मेऽस्तु कृता नतिर्नतमनस्तोषावहायादराद् योषारत्नगिरीन्द्रजाविरचिताश्लेषार्धगात्राय ते ॥ ९७॥ प्रासार्ता विरसा चमत्कृतिपदोल्लासा दिहीना परं हासार्हा निरलङ्कृतिः पशुपते या साहितिर्भूपतिम् । आसाद्याशु तदीयचित्तकमलोच्छ्वासाय सा स्यात् कथं भासा निर्जितसूर्यकोटिरतुलो दासायमानैः सुरै- योऽसावाश्रितपट्र्यो बहुकृपावासायितापाङ्गकः । व्यासाद्यैर्विनुताय क्लृप्तगरलग्रासाय हेमाचले- सोऽसावीश्वर किं वदाद्य हृदयाश्वासाय मे त्वां विना ॥ ९८॥ व्वासायाकलये सदा हृतनुतत्रासाय तस्मै नमः ॥ ९९॥ संसाराकुलचेतसामपि हृदा पुंसामगम्यं जग- द्धिंसातत्परदुर्मदत्रिपुरविध्वंसात्तकीर्तिस्मितम् । यं साधुव्रजमानसाम्बुजवनीहंसायमानं विदु- आस्याभाजितचन्द्रमा मुनिगणाशास्याद्भुतानन्दकृ- ल्लास्यासक्तमनाश्च यो हृदयभूशास्यार्तरक्षापरः । हास्यापास्तपुरस्य तस्य १तव पद्दास्यानुरक्तः प्रभो स्तं साम्बं सततं नमामि शिरसाहं सादरं शङ्करम् ॥ १००॥ देहालङ्कृतनागभूषणभरं वाहायितप्राक्तन- व्याहारं सदयं नमद्भवमहामोहापहं शङ्करम् । ईहामात्रविनिर्मितत्रिभुवनं गेहायिताद्रीश्वरं नीहाराद्रिसुताप्रियं कृतसुरव्यूहावनं भावये ॥ १०२॥ उहं त्वत्पदबुद्धये कलयितुं सोऽहं कथं शक्नुयां गाहङ्गाहमवार्यमेव विषये साहन्तमस्मन्मनः । हा हन्ताटति किं करोमि विनमग्रीहन्तरीशान स- स्नेहं त्वं कुरु सर्वदा मयि कृपां भो हंसवाहार्चित ॥ १०३॥ ताळ/भैकनगात्मजाकुचतटीचोळायितालङ्कृति- व्याळाधीशफण प्रभो प्रशमितक्ष्वेळाशु मे त्वं नय । श्रीळानाथनुते भवव्यसनतो डोळायमानं मनो व्याळानेकपमीशभक्तहृदि भेडाळानके त्वत्पदे ॥ १०४॥ नाळीकायि त केशवः प्रणमतां योऽळीकविध्वंसकृ- न्नाळीकप्रभवादिमादितिभुवामाळीभिराराधितः । हेळीन्द्वग्निविलोचनं पशुपतिं काळीपतिं संसृति - व्याळीवित्रसदाप्तपालनकलाकेळीपरं तं भजे ॥ १०५॥ यक्षाद्याखिलखेचरार्चितपदे दक्षाध्वरध्वंसिने वृक्षागा ब्धिमहीजनात्मकजगद्रक्षापरायादरात् । ऋक्षाधीशकलाधराय नितरामुक्षाधिवाहाय ते शिक्षात्रस्तयमाय भूतपतये त्र्यक्षाय कुर्मोऽञ्जलिम् ॥ १०६॥ चीक्षाशिक्षितमीनकेतुमनिशं मोक्षार्थदानाध्वरे दीक्षातत्परपवयं विधिसहस्राक्षादिभिर्वन्दितम् । दाक्षायण्यधिपार्कवह्निनयनं दाक्षायणीवल्लभं प्रेक्षावद्धृदयाव्जभावितपदं साक्षात्करोमीश्वरम् ॥ १०७॥ अक्षोभ्योग्रभवार्तपालनकलादक्षोऽनुलिप्ताद्रिजा- वक्षोजद्वयमुद्रितप्रविलसद्वक्षोऽभिरामः प्रभुः । स क्षोणीघ्रगृहो ममाशु दुरितं प्रक्षोदयित्वाखिलं रक्षोनाथनुतम्तनोतु नमतां हृत्क्षोभहारी मुदम् ॥ १०८॥ शम्भो वेङ्कटसुब्च एष भवरुग्भीत्येत्थमत्यद्भुता- स्थान त्वत्सुगुणौघवारिधिकणस्तोत्रं परं तारकम् । अष्टप्रासयुताष्टकाधिकशतश्लोकैरतानीत् प्रभो स्वामिंस्त्वं परिगृह्य सादरमिदं रक्षानुकम्पानिधे ॥ १०९॥ इति वेङ्कटसुब्बकविकृतं श्रीजप्येशाष्टप्रासशतकं सम्पूर्णम् । Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Japyesha Ashtaprasa Shatakam
% File name             : japyeshAShTaprAsashatakam.itx
% itxtitle              : japyeshAShTaprAsashatakam (veNkaTasubbakavikRitam)
% engtitle              : japyeshAShTaprAsashatakam
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : veNkaTasubbakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 31 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : March 30, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org