श्रीज्ञानामृतरसायनम्
श्रीपार्वत्युवाच-
भगवन् देवदेवेश सर्वपापप्रणाशनम् ।
सर्वकामफलस्तोत्रं ज्ञानामृतरसायनम् ॥ १॥
महेश्वरं महादेवमीशानं शङ्करं हरम् ।
रुद्रं भद्रं शिवं विष्णुं नीलकण्ठं पितामहम् ॥ २॥
उग्रं भीमं शिवं स्थाणुं स्वयम्भूं शम्भुशूलिनम् ।
पुरुषं गौरीश्वरं चन्द्रं चन्द्रमौलिं जटाधरम् ॥ ३॥
उमापतिं पशुपतिं विरूपाक्षं वृषध्वजम् ।
वृषं गङ्गाधरं शङ्करं(शर्वं)श्रीकण्ठं वृषवाहनम् ॥ ४॥
पिङ्गाक्षजटिलं कृत्तिवाससं गृहाधरं (च गुहाशयम्) ।
ऊर्ध्वनेत्रं सहस्राक्षं सहस्रभुजशीर्ष(क)म् ॥ ५॥
मृगाङ्कचिह्नं भस्माङ्गं दशबाहुं त्रिलोचनम् ।
त्रिनेत्रं त्रिषु लोकेषु त्र्यम्बकं त्रिपुरान्तकम् ॥ ६॥
कालं कामाङ्गदहनं मन्त्रकं दैत्यघातकम् ।
(ब्रह्मणः) पञ्चमशिरोदक्षयज्ञविनाशनम् ॥ ७॥
पूषदन्तहरं साक्षात्तारकास्यनिपातनम् ।
ऊर्ध्वलिङ्गं महालिङ्गं चारुलिङ्गं त्रिलिङ्गिनम् ॥ ८॥
वाचस्पतिं दिव्यचक्षुं ब्रह्मस्कन्धाय देशिकं (?) ।
ऊर्ध्वरेतं वीतरागं ततो धर्मदृढव्रतम् ॥ ९॥
जर्झरीडिण्डिमुण्डं च त्रिदण्डिलकुलीजटं (?) ।
गजचर्मपरीधानं पललाजिनवाससम् ॥ १०॥
विश्वाननं महावासं मृतवासं चतुष्कलम् ।
चर्यारूढं (वि)मानस्थं वानप्रस्थं च शूलिनम् ॥ ११॥
कपालखट्वाङ्गहस्तं कङ्कमालाशिरोधरम् ।
व्यालोपवीतनिलयं महाकुण्डलिनूपुरम् ॥ १२॥
महादंष्ट्रं महाकायं महाशीर्षसुशोभनम् ।
महासिद्धं महावीरं सन्नद्धं वीरवन्दितम् ॥ १३॥
अघोरं घोरसंशिष्टं घोराद्धोरतरं तथा ।
हिरण्यवर्णं देवादिं ब्रह्मण्यमभवं भवम् ॥ १४॥
पञ्चाक्षरं पञ्चबीजं पञ्चवक्त्रं सदाशिवम् ।
षड्वक्त्रं महागुह्यं कालाग्निं रुद्रतेजसम् ॥ १५॥
अष्टधा नवधा चैवं दशधा शतधा स्मृतम् ।
बहुरूपं महारूपं विश्वरूपं जगद्गुरुम् ॥ १६॥
कलितं ?? कालोत्पत्तिकुलेश्वरम् ।
धन्वन्तरिं ब्रह्मविदं पुण्डरीकं प्रजापतिम् ॥ १७॥
वेद्यवेदविधात्रर्थं योगज्ञानविचक्षणम् ।
ध्यानं ध्येयं च तत्पूज्यं परस्य ज्ञानमुत्तमम् ॥ १८॥
स्वाहास्वधावषट्कारं (हेमपार्श्वं) हुताशनम् ।
यज्ञतीर्थं ?? सर्वतोमुखं (?) ॥ १९॥
सकलं निष्कलं शून्यं स्थूलं सूक्ष्मं परापरम् ।
अनन्तं ध्येयरहितं तारद्वारवधान्तिकम् ॥ २०॥
बिन्दुनादकलाक्रान्तं प्राणापानप्रवाहनम् ।
परिपूर्णं हतारातिमूर्ध्वमध्यव्यवस्थितम् ॥ २१॥
मात्रार्थकं मात्रपदमदध्वाध्वा परापरं (?) ।
अस्वतन्त्रो स्वतन्त्रोऽयमस्तु नास्तु जयापरं (?) ॥ २२॥
अविदित्वा तु विदितमप्रमाणप्रमाणकम् ।
निस्संशयं निरापेक्षं निधानस्थं निरेपनम् ॥ २३॥
निर्विकल्पं निष्प्रपञ्चमद्वैतं केवलं प्रभुम् ।
व्योमातीतं मनुश्चार्यमनन्तमजमव्ययं (?) ॥ २४॥
अष्टोत्तरं द्वादशान्तं धनाख्यं शून्यवाचकं (?) ।
विष्णुधर्मं विनिष्ठान्तं निस्तरङ्गं निरामयम् ॥ २५॥
नकिञ्चित् किञ्चिदानन्दं परमात्मानुलेपनम् ।
पराभ्यां रत्नमारूढं (पराभ्यन्तरमारूढं) अधिकं तत्परापरम् ॥ २६॥
देवानां परमं देवं प्रणमेयं महेश्वरम् ।
संसारदुःखदहनमायुरारोग्यनिर्मितम् ॥ २७॥
सर्वपापक्षयकरं सर्वरोगनिबर्हणम् ।
सन्ततं शृणु तं ह्यस्तु ज्ञानामृतरसायनम् ॥ २८॥
तीर्थकोट्यस्तु यज्ञानां मन्त्रकोट्यस्तु यज्ञकम् । (?)
??व्रतं पुण्यं स्वाध्यायं मन्त्रनायकम् ॥ २९॥
विश्वेशं च त्रिकालज्ञमणिमादिगुणाष्टकम् ।
परापरं परावाप्तिस्वर्गमोक्षप्रदायकम् ॥ ३०॥
अमृताक्षं मृत्युजयमनाढ्यं तं शुभं वृषं (?) ।
परमाक्षरमोङ्कारं षडङ्गं मन्त्रनायकम् ॥ ३१॥
अवाप्तं मन्त्रदेशाख्यं व्योमरुध्यचतुष्कलम् ।
दशबीजं महावज्रं वैदिकं रौद्रवैष्णवम् ॥ ३२॥
आरूढं तौड्डिकं सौरं भैरवं पापदक्षिणम् ।
गोपितं संह्यलं मन्त्रः सर्वमन्त्रप्रवर्तकम् ॥ ३३॥
एकं पञ्चाशद्वर्णानां मूलकं वर्णभेदकं (?) ।
पञ्चमात्रस्थूलभेदमेकाशीतिदलात्मकम् ॥ ३४॥
अष्टात्रिंशत्कलाधारं त्रिषष्टिभेदसंस्थितम् ।
अनाहतं चतुष्षष्टिकलाभिश्चैकमक्षरम् ॥ ३५॥
नित्यस्थितं हंसगर्भं शिवभक्तिं शिवात्मकम् ।
आद्यन्तमध्यनिलयं स्तुतिं मिश्रामनोपमम् ॥ ३६॥
जाग्रत्स्वप्नसुषुप्तिस्थं पूरकं कुम्भरेचकम् ।
अविभक्तमनेकैकं नाभूतं च पृथक् पृथक् ॥ ३७॥
अनेकाधारवदनं मन्त्रशास्त्राङ्गमालयम् ।
इच्छाज्ञानङ्क्रियाशक्तिमन्त्रशक्त्यात्मनोदयम् ॥ ३८॥
दक्षिणोत्तरमध्यस्थं ?? ।
हेमकोटीस्तु यो दद्यात्कपिलाकोटयो ददेत् ॥ ३९॥
महीं काञ्चनसम्पूर्णां रत्नानां सप्तसागरात् ।
कुरुक्षेत्रे कनखले चन्द्रसूर्यग्रहे वरे ॥ ४०॥
एतत्सर्वेषु दानेषु यत्पुण्यं फलते फलम् ।
तत्फलं लभते मर्त्यः स्तवस्यास्यानुकीर्तनात् ॥ ४१॥
कुलकोटिं समुद्धृत्य शिवलोके महीयते ।
सर्वपापविशुद्धात्मा मुक्तिरेव न संशयः ॥ ४२॥
॥ इति श्रीज्ञानामृतरसायनं सम्पूर्णम् ॥
Proofread by Aruna Narayanan