श्रीज्ञानसम्बन्धध्यानस्तुतिः
श्रीकालीपुरवासिशम्भुचरणस्वान्तात्मजं बालकं
देवीदत्तपयः पिबन्तमनिशं गानैः स्तुतोमापतिम् ।
शूलारोपितजैनवीरनिवहं पाण्ड्येशरोगापहं
ध्यायेत्श्रीशिवभक्तवर्यमनघं सम्बन्धमूर्तिं गुरुम् ॥ १॥
सुब्रह्मण्यांशभूतः करतलविलसद्रुक्मतालाभिरामो
विप्रः कौण्डिन्यगोत्रः शिवपदहृदयस्यात्मजः सुन्दराङ्गः ।
नानाक्षेत्रेशतत्तन्नुतिभिरतितरां बोधयन् शैवतत्त्वं
भेजे मुक्तिं स सेव्यः शिवसमयगुरुः ज्ञानसम्बन्धमूर्तिः ॥ २॥
इति श्रीज्ञानसम्बन्धध्यानस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan