स्कन्दशापविमोचनैवं शिवप्रोक्तञ्ज्ञानोपदेश

स्कन्दशापविमोचनैवं शिवप्रोक्तञ्ज्ञानोपदेश

अथ संवादः - लक्ष्मीः - कृतः श्रीपर्वतो नाम्ना सापि पुत्रयुता ययौ । पुरा दैवासुरे युद्धे तारकादीन्महाबलान् ॥ ६७॥ न्यपातयत् शक्तिपातैः कुमारो मेऽम्बिके तदा । नानावाहनसम्पन्नान्दैत्यकोटिसमावृतान् ॥ ६८॥ निहत्यैव च राजानं त्रिविष्टपनिविष्टितम् । चकारातिबलो देवि तारकारिः सुरासुरान् ॥ ६९॥ तदा काव्येन शप्तः स भव त्वं मोहमास्थितः । तच्छापविनिवृत्त्यर्थं श्रीशैलं मे समागतः ॥ ७०॥ देवी - कुमारो मे महादेव कथं काव्येन शापितः । तद्धेतुं विस्तरेणाद्य मह्यं कथय शङ्कर ॥ ७१॥ ईश्वरः - शूरपद्मादयो दैत्यास्तारकाद्या महाबलाः । शस्त्रास्त्रैः शक्तिभिर्घो रैर्निहता दानवोत्तमाः ॥ ७२॥ तान् सर्वान् निहतान् शिष्यान् काव्यो दृष्ट्वाऽतिकोपनः । शशाप षण्मुखं गौरि मोहयुक्तो भवेति तम् ॥ ७३॥ द्विजिह्वः फणिरूपश्च सर्वेषामिष्टदायकः । स्कन्द षष्ठीपराणां त्वं साक्षात्कामप्रदो भव ॥ ७४॥ सा तिथिस्ते प्रियतमा कृत्तिकाभं च ते प्रियम् । एवं शशाप काव्योऽसौ षण्मुखं केकिवाहनम् ॥ ७५॥ तदा काव्यस्य तच्छापं स्वीचकार कृपाबलात् । लोकानामुपकाराय कुण्डलीशोऽभवत् तदा ॥ ७६॥ शप्तं स्कन्दं तदा ज्ञात्वा महाक्रोधान्मया तदा । काव्यो ग्रस्तस्तदा गौरि जठरे मय्यधोगतः ॥ ७७॥ तदा मज्जठरे तिष्ठन् तुष्टाव प्रणतस्तदा ॥ ७८॥ काव्यः - कञ्जजकन्धर कञ्जनेत्रकृतपूज्यशिर कञ्जमित्रकृतनेत्र । विचित्रां दुर्गतिं मम विनाशय शम्भो ॥ ७९॥ वह्निवृत्रहणबभ्रुसोमकैः शूरमारजनकाब्जजपूज्य । पापतपहृदयेन कम्पितं देवभूप सततं दयस्व माम् ॥ ८०॥ ईश्वरः - इत्थं तेन स्तुतो देवि विसृष्टः शुक्रतो मया । स वै शुक्र इति प्रख्या तस्याऽभूद्देवि चोत्तमा ॥ ८१॥ (सर्वे शुक्रो महादेवि तस्याख्याभवदुत्तमा) स्कन्दः श्रीशैलभागत्य मां प्रणम्याम्बिके तदा । तताप च तपो घोरं वायुभक्षः सुतस्तव ॥ ८२॥ ज्वलत्पञ्चाग्निमध्यस्थो भस्माभ्यक्तोऽ‍र्चयन् हि माम् । प्रजपन् शतरुद्रीयं दृष्टो ब्रह्मादिभिस्तदा ॥ ८३॥ तत्तपःक्षुब्धहृदयाः प्रार्थयन्ति स्म मां सुराः । श्रीशैलेशं समभ्यर्च्य बिल्वपत्रैश्च कोमलैः ॥ ८४॥ देवास्तुष्टुवुरीशाने भ्रमराम्बापतिं शिवे । ब्रह्माद्याः - उपेन्द्रविधिकारणं निगममौलिसञ्चारिणं कुरङ्गकिणधारिणं नमकनामगण्यं गुणम् । भजामि भवहारिणं मुनिसुगदिमौलिस्फुरत् सरोरुहगणारुणं शिवदचरणं कालहरणम् ॥ ८५॥ फणीन्द्रकृतकङ्कणं धृतत्रिपुण्ड्रभालेक्षणं सुशैवकृतरक्षणं गिरिसुताब्जवक्त्रेक्षणम् । यमस्मरपुरान्धकप्रबलदक्षसंशोषणं भजाम गिरिधारिणं सुकृतराशिसम्पूरणम् ॥ ८६॥ इति स्तुत्वाम्बिके देवाः श्रीशैलेशं तदा हि माम् । तत्क्षणादाविरासं च गणेन्द्रैरमरैस्त्वया ॥ ८७॥ स्कन्दपार्श्वं तदा गत्वा समुपस्पृश्य तं तदा । अजिघ्रं तस्य मूर्धानं तमवोचमहं प्रिये ॥ ८८॥ मत्करस्पर्शमात्रेण हित्वैहं रूपमम्बिके । मुदा शक्तिधरः स्कन्दो मां प्रणम्यास्तुवत् तदा ॥ ८९॥ स्कन्दः - सुन्दरवरमन्दरगिरिकन्दरचर कुन्दजसुमसुगन्धमधुर- बन्धुरतर इन्दुजकरनन्दितकुमुदाकरहारजमकरन्दरणित । पन्नगजननन्दनकरवन्दित मुनिवृन्दजकृतवेदवचन- वन्दिजगुणतुन्दिल मम मानसवरनन्दित शिव पालय माम् ॥ ९०॥ उन्दुरकृतवाहनसुतसिन्दुर भव कृत्तिवसन तिन्दुकसुम- पूजितपद इन्दुनिवहबिम्बितकरचुम्बितजटीलोत्तमपूजन जननन्दनविदिशान (?) नन्दिवाहन परिपालय याम् ॥ ९१॥ काव्यशापान्महेशान नष्टज्ञानोऽस्मि शङ्कर । तद् ज्ञानं देहि मे देव स्थानं मे‍ऽद्य दिश प्रभो ॥ ९२॥ (शिवगौरीसंवदे ईश्वरः - तदा स्कन्दवचः श्रुत्वा ब्रह्मादीनां च श्रृण्वताम् । अवोचं वेदवाक्योत्थं ज्ञानं स्कन्दाय पार्वति ॥ ९३॥) ईश्वरः - अनाख्येयमिदं गुह्यं यस्य कस्यापि देहिनः । अहं मां च परं ब्रह्म निरुपाधिरनीश्वरः ॥ ९४॥ ततः सर्वमिदं जातं दृश्यते श्रूयते च यत् । मय्येव संस्थितं विश्वं मय्येव लयमेष्यति ॥ ९५॥ अगन्धमरसस्पर्शमशरीरेन्द्रियोज्झितम् । मामात्मानं च यो वेद सद्य एव विमुच्यते ॥ ९६॥ मम कार्यं न वै किञ्चित न करोमीह किञ्चन । न मत्समोऽस्ति कोऽ‍प्यन्यो नाधिको दृश्यतेऽपि वा ॥ ९७॥ ममैव शक्तिर्विविधा यया व्याप्तमिदं जगत् । अणोरणियसां चाय महतोऽपि महत्तरः ॥ ९८॥ न च मां विदुरन्यानि अहं वेदेदमेव हि । सत्यं ज्ञानोऽहमानन्दं विश्वं विश्वाधिको ह्यहम् ॥ ९९॥ न मत्तोऽस्ति पृथक्किञ्चित नेह नानास्ति किञ्चन । मामविज्ञाय दुःखेषु निमज्जन्त्यखिला जनाः ॥ १००॥ मां विज्ञाय न वै कश्चिन्मोमुह्यति न वै नरः । भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ॥ १०१॥ अदाह्योऽहमशीर्योऽहं देहजालेषु सत्तम । नाहं स्त्री नैव पुरुषो न तिर्यक् स्थावरोऽपि वा ॥ १०२॥ विभान्ति यान्ति उद्यन्ति चन्द्रेन्द्रानिलभास्कराः । मद्भासा भासते लोको जडोऽ‍यं काष्ठसन्निभः ॥ १०३॥ ऋतमात्मा परं ब्रह्म सत्यं ज्ञानोऽहमीश्वरः । यो मां वेद स सर्वं हि वेदेत्येव परा श्रुतिः ॥ १०४॥ एवं न कर्मणा प्राप्यं पूजया न धनेन वा । न चैवोपासनाभिश्च ज्ञानादेव हि केवलम् ॥ १०५॥ एतद्गुह्यतमं ज्ञानं नाख्येयं यस्य कस्यचित् । प्रियपुत्राय ते दत्तं शिष्याय च हिताय च ॥ १०६॥ ॥ इति शिवरहस्यान्तर्गते श्रीशैलक्षेत्रे स्कन्दशापविमोचनैवं शिवप्रोक्तञ्ज्ञानोपदेशः ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २७॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 27.. Notes: Having annihilated Taraka and other asuras; Skanda (Kartikeya, Kumara, Shanmukha) incurs a curse from Daityaguru Kavya, and is transformed into a snake. Kavya further demands that Skanda must grant wishes of all those who worship Him on Skanda Shashthi tithi. Shiva gets disgruntled with Kavya's behaviour and swallows him. Kavya eulogizes Shiva from within His belly and is finally released; following which, he is known as Shukra (Shukracharya). Skanda rigorously worships His Father - Shiva, who relieves Him of the curse of being a snake, and Skanda acquires His original form. Skanda beseeches Shiva for Gyanopadesha and receives the same. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Shri Shailakshetre Skandashapavimochanam and Jnanopadesha by Shiva
% File name             : jnAnopadeshashailakShetreskandashApavimochanaivaMshivaprokta.itx
% itxtitle              : jnAnopadesha skandashApavimochana shivaprokta (shivarahasyAntargatA)
% engtitle              : jnAnopadesha skandashApavimochana shivaprokta
% Category              : shiva, shivarahasya, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 27||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org