ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम्
(ईश्वरदेवी संवादे)
सन्तुष्टा भव शैलनन्दिनि शिवे नातः परं विद्यते
मल्लिङ्गार्चनमेवसाधनपरं मुक्तिप्रदं शाश्वतम् ।
किं यज्ञैरखिलव्रतादिचरणैः किं दानसङ्घैर्जपै-
रेतत्किं वितनोति मुक्तिरिति या साधीर्हि दुःखात्मनाम् ॥ १६॥
उद्यद्बालदिवाकरेन्दुसदृशैः कैलासशृङ्गाग्रगैः
माणिक्यामलहीरकैश्च कलितैस्सौधाग्रशृङ्गैश्शिवे ।
तत्तल्लोकनिवासिभिस्सुरगणैस्सञ्जातविस्मापकैः
नानासूर्यशशाङ्कसम्भवमहाकान्त्याधिकं शोभते ॥ १७॥
कैलासाचलमानुपादशिखरे सत्याधिके मेरुगा
लोकालोकिन एव तत्र विहिता दिक्पालङ्घाश्शिवे ।
ब्रह्माविष्णुमहेश्वरामरवरास्सप्तर्षयोऽमीग्रहाः
श्चौत्तानात्मज एष भान्ति नितरां तारागणा राशयः ॥ १८॥
ते मेरुं परितो भ्रमन्ति गिरिजे पश्याधुना सन्ततं
तत्तद्गोपुरमध्यभागविलसत्तौर्यत्रिकाणां स्वनैः ।
तत्तत्कालशिवार्चनेषु कलितैर्भेरीजशङ्खारवैः
कैलासोऽप्ययमीश्वरेश्वरि महासन्नादनादान्तरः ॥ १९॥
मेघानां शतकैरपि प्रमुदितो घोषैकमूषामुखः ॥
वसुधाधरकन्दरान्तरस्थारदखण्डद्विरदाः किशोरसिह्माः ।
स्वककाधरकेसरैर्नगेन्द्रैः परिनिन्दति विदीप्तमित्युमेऽद्य ॥ २०॥
रविरथ तुरगोत्थह्रेषघोषं परिशृण्वन्ति इमे हयारिसङ्घाः ।
विनताननकर्णशृङ्गनेत्रास्तटिदुत्थाखिलस्मरैकरावाः ॥ २१॥
खरखुरपरिघट्टनोथधूल्याजलदनिभं रविमम्बिकेऽद्यपश्य ।
रविरपि स्वतनूजमुख्यवाहैर्गिरिसंस्थैरभिजातलज्जयेव ॥ २२॥
प्रसभं मेघगणं विशीर्य हस्तैर्विजितोऽस्मीति दिशं प्रयाति यामीम् ।
मदालयोऽयं कलधौतशैलस्तदग्रतो भाति सुवर्णशैलः ॥ २३॥
तदूर्ध्वमौलिस्थितलोकजालं विलोकयाथो विहितन्नगस्य मे ॥ २४॥
ब्रह्माप्येष सृजत्यजस्रमखिलं लोकं हरिः पात्ययं
रुद्रस्संहरतेऽनिशं सुरवरैर्दिक्पालसङ्घैश्शिवे ।
सत्यस्थोविधिरेष विष्णुभवनं वैकुण्ठमालोकया-
पीशानस्य पुरीयमद्रिवरजे चेन्द्रस्य चैषा पुरी ॥ २५॥
एषा संयमिनी पुरी सुविहिता क्षीरोदधेः पारतो
गङ्गैषा सरितां वरा त्रिजगतां पापापहा मे पुरी ।
लिङ्गालङ्कृतकोटिकार्बुदनिभा वाराणसीज्या शिवे
विश्वेशाख्यमहेशलिङ्गवरगं देव्यन्नपूर्णा त्वया ॥ २६॥
सुरासुरा यत्र वसन्ति मुक्तये वसन्त्यनिष्टं परिहाय मत्सरम् ।
यतो न मुक्तं हि मयाविमुक्तं वदन्ति वेदा अपि तत्प्रभावम् ॥ २७॥
गङ्गाद्वारमिदं पितुस्तव महामौलौ च केदारकं
चैषा सा वतपाटलीनगरगायस्यास्सुता मानसाः ।
गङ्गासूर्यतनूजयोश्च विहितस्सङ्गोऽत्र मुक्त्यै नृणां
स्नातानांञ्च सदा सरित्पतिवरेणालिङ्गिता जाह्नवी ॥ २८॥
गङ्गासागरसङ्गमोऽत्र गिरिजे सोमेश्वरोऽयं सदा
सेव्यानां सफलं करोति च मनस्सन्तापपापापहम् ॥ २९॥
एषप्रयागस्सकलापगाश्रयो गङ्गापि यत्राम्बुजमित्रजायुता ।
तत्राप्लुतानां दिवि देवि वासो विसर्जिताङ्गा यदि तेषु मुक्तिः ॥ ३०॥
सा ब्रह्मणो वेदिरनन्तपुण्यदा गया पितॄणां प्रमुदे भवानि ।
पश्याद्य तत्रैव पदं मदीयं सुरद्विजानान्तु तथैव वैष्णवम् ॥ ३१॥
तन्नैमिषं पुण्यतमं महर्षिभिस्समाकुलां तां बदरीं विलोकय ।
सचित्रकूटस्सुरसङ्घसंवृतस्सप्तैव पुर्योऽत्र विमुक्तिहेतवः ॥ ३२॥
एतद्द्वादशलिङ्गसङ्घमगजे तत्तत्पुरीषृ स्थितं
चोङ्कारो घुसृणेश्वरोऽयमगजे श्रीकामनाथोऽम्बिके
असौ महाकालवरो महेशो नागेश्वरो वेणुवनैकसंश्रयः ॥ ३३॥
एषा शर्मदनर्मदात्रकलिता लिङ्गैकसङ्घावृता
शोणोऽयं सरितां पतिं प्रवहते लिङ्गैकसङ्घनश्रयः ।
पुण्या बाहुनदी सुपुष्करमिदं पुण्यं प्रभासं त्विदं
मल्लिङ्गामलपातकं गिरिवराज्जातेऽमरं कण्टकम् ॥ ३४॥
श्रीरुद्रोऽमरकोटिरेष विहितः पिण्डारकं मत्प्रिय-
ञ्चैतत्क्षेत्रवरं कुरुप्रभवजं विन्ध्यो ह्ययं शैलजे ।
एष श्रीशैलमौलिर्भवजनितमहापापसङ्घैकहन्ता-
चैषात्र्यम्बकशैलजा सुविहिता गोदावरी निम्नगा ॥ ३५॥
कृष्णा चापि सरिद्वराब्धिनिरता लिङ्गावृता पुण्यदा ॥ ३६॥
तत्प्रान्तसंस्थो घटजो मुनीशो मया पुरा प्रेषित एव विन्ध्यहृत् ।
पश्चादथाम्भोनिधितीरसङ्गतं गोकर्णमेतन्मम लिङ्गमम्बिके ॥ ३७॥
अरुन्धदेषोऽमरमार्गमम्बिके प्रजातरोषः कनकाचलेन ।
विन्ध्योऽप्ययं शैलवरस्त्वदाश्रयात्पुण्यं प्रतिष्ठानपुरं सुपुण्यदम् ॥ ३८॥
कोलासुरेणात्र समीहिता पुरी तपस्यता तस्य वधात्त्वया जिता ।
एषोऽरुणाद्रिः प्रथितप्रभावो वृद्धाद्रिरप्येव ममेष्टवासः ॥ ३९॥
गोपर्वतश्चात्र विभाति शैलः काञ्ची जगत्काञ्चितलिङ्गसंयुता ।
त्वदाश्रयात्कान्ततमा च सैव त्वदर्चनार्थं हरिणा च सेविता ॥ ४०॥
शेषाचलस्त्वेष सुताश्रयो मम तदुत्तरे भाति महेशि पश्य ।
कैलास एषोऽभिमतो हि दक्षिणस्सह्याचलो ह्येष यतो मरुद्वृधा ॥ ४१॥
सह्यापगातीरगलिङ्गमण्डलं महाप्रभावं किल शैलकन्ये ।
कवेरकन्यातटलिङ्गसङ्घं श्रीकण्ठरत्नादिकमातृभूतम् ॥ ४२॥
तज्जम्बुलिङ्गञ्च हरिस्ततोऽपि पञ्चापगेशाख्यमहो भवानि ।
कुम्भेश्वरं लिङ्गमिदं मनोज्ञं तदर्जुनञ्चापि मयूरलिङ्गम् ॥ ४३॥
श्वेतेश्वरं तत्प्रथितं विमुक्तिदं तदुत्तरे यद्विरजं विशोकम् ।
हृत्पुण्डरीकं विमलं ममाश्रयं यत्रैव मे नर्तनमम्बिके त्वया ॥ ४४॥
सदैव दृष्टं प्रथिते प्रदोषे क्षाराम्बुधेस्तीरगतं सुपुण्यदम् ।
वेदाख्यसत्काननमब्जसञ्ज्ञं लिङ्गावृतं तत्कमलालयाख्यम् ॥ ४५॥
श्रीसुन्दरं विष्णुपुरञ्च देवि ततोऽपि तद्द्वीपगगन्धमादने ।
नगोत्तमे लिङ्गवरं ममाम्बिके ॥ ४६॥
हरिः पुरा भार्गवजेन शप्तो भार्यावियुक्तोऽप्यहनत्सरावणम् ।
तेनैव तत्पूजितमम्बिकेऽद्य पश्याधुना सेतुवरं सुपुण्यम् ॥ ४७॥
तत्पश्चिमे पुण्यतमं ममाम्बिके हालास्यसञ्ज्ञं वरवेणुसञ्ज्ञम् ।
तत्रैव ताम्राचलसङ्गतोऽब्धिस्तत्तीरसंस्थान्यपि देवि पश्य ॥ ४८॥
लिङ्गानि तुङ्गानि मनोहराणि महेन्द्रशैलो मलयश्च शैलः ।
एतानि ते क्षेत्रवराणि देवि दृष्टानि च श्रोत्रवरैश्श्रुतानि ॥ ४९॥
पापाद्रिमौलेर्भिदुराणि पश्य क्षेत्रेक्षणेनापि विमुक्तपापाः ॥ ५०॥
क्षेत्राणाञ्च पतिस्सदैव कथितो वेदेषु पश्यादरा-
दारात्सर्वजगद्गतोऽपि विदुषां दुष्टात्मनां शैलजे ।
कष्टान्यप्यसमीक्ष्य योऽत्र विहितः क्षेत्रेषु वा सादर-
स्तस्मै तां वितरामि मुक्तिमगजे रुद्राक्षभस्मादरे ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २० - क्षेत्रवर्णनम् । १६-५१॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 20 - kShetravarNanam . 16-51..
Notes:
In addition to continuation about description about Mount Kailāsa कैलास शैल, Śiva शिव outlines to Devī देवी about several Śivakṣetra शिवक्षेत्र - including the Jyotirliṅga ज्योतिर्लिङ्ग.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan