कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः
वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः ।
सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥ ४१॥
वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति ।
पाणनि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ४२॥
ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे
मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः ।
ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो
नर्तिष्यन्त्यवशाच्श्मशाननिलये नीचैः पिशाचैः सह ॥ ४३॥
दत्तं शाम्भवपुङ्गवे किमपि तत्क्षेत्रप्रभावाद्भवेत्
दानं कोटिगुणान्वितं भवति तत्ख्यातं त्वयि त्वास्थया ।
वासं प्रपय मुहुर्बहूनि ददतो वासांसि जन्मान्तरे
लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥ ४४॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये कालाग्निरुद्रकृता काशीक्षेत्रस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २७ । ४१-४४॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 27 . 41-44..
Notes: Kālāgnirudra कालाग्निरुद्र eulogizes Kāśī Vārāṇasī काशी वाराणसी; as He gets rid of the skull of Brahma's fifth head that was stuck to His hand, as soon as He enters that kṣetra क्षेत्र.
Proofread by Ruma Dewan