कालाग्निरुद्रकृतः शिवस्तवः
निर्वाणार्णवकर्णधार भगवन् त्वं शर्वरीशानन
वामार्धाङ्गभुजङ्गसङ्गत महाभस्मैकसङ्ग प्रभो ।
यत्काश्यां विशतां महौघनिवहं दूरेऽप्यदूरः सतां
त्वं चान्नाधिपतिः सदैव मुदितो वेदेषु जेगीयसे ॥ ३६॥
अम्बाऽन्नप्रियदायिनी भगवतः पुत्रोऽप्यसौ ढुण्ढिराट्
दण्ड्यान्दण्डयति प्रतिक्षणमसौ श्रोदण्डपाणिः सदा ।
भीरूणां भयनाशनाय भवता श्रीभैरवः कल्पितः
श्रीकर्णी मणिकर्णिका विजयते लिङ्गालिसौधोत्तरा ॥ ३७॥
विश्वेशान तव प्रभावमतुलं जानीत को दुर्जनो
यस्मिन्नन्तकभीतिलेशरहिते त्वं चान्त्यभृषाप्रदः ।
दिव्योङ्कारमहाध्वनिं ह्युपदिशन्मुक्त्यङ्गनाकामिनं
कृत्वा भोगिफणालिहारसुगलं चन्द्रार्धगङ्गाधरम् ॥ ३८॥
भस्माभ्यक्ततनुं करीन्द्रजमहाचर्माम्बरोद्यत्कटिं
हस्ते शूलकपालमौलिविहितं नेत्रत्रयेनोज्वलम् ।
उक्षाधीश्वरकेतनं गरगलं कृत्वा नरं पावनमित्युक्त्वा
प्रणतो विधीन्द्रसहितो रुद्रस्तदा निर्ययौ ॥ ३९॥
हृष्टो हर्षपरम्परानुभवतो धाम स्वमत्यादरा-
द्गच्छंस्तत्रजगाद सूक्तिपरमैरानन्दवर्षैर्युतः ।
तच्चानन्दवनं सनन्दनमहायोगीन्द्रसेव्यं सदा
यश्चात्र स्वतनुं जहाति स नरो धन्यो भवेन्नेतरः ॥ ४०॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये कालाग्निरुद्रकृतः शिवस्तवः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २७ । ३६-४०॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 27 . 36-40..
Notes: Kālāgnirudra कालाग्निरुद्र eulogizes Viśveśvara Śiva विश्वेश्वर शिव at Maṇikarṇikā Ghāṭa मणिकर्णिका घाट in Kāśī Vārāṇasī काशी वाराणसी; as He gets rid of the skull of Brahma's fifth head that was stuck to His hand, as soon as He enters that kṣetra क्षेत्र.
Proofread by Ruma Dewan