कालभैरवस्तुतिः
देवा ऊचुः -
नमस्ते कालनाथाय नमस्ते कालरूपिणे ।
नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥ २६२॥
नमस्ते कालकण्ठाय नमस्ते कालभक्षक ।
नमो दिगम्बरानन्त नमः परमपूरुष ॥ २६३॥
नमो विश्वात्मक श्रीमन् नमो विश्वैकजीवन ।
नमस्तेऽस्तु सहस्राक्ष सहस्रकर ते नमः ॥ २६४॥
सहस्रचरणामेय नमस्ते भैरवप्रभो ।
नमस्ते रुद्र रुद्रात्मन्नमस्ते रुद्रसम्भव ॥ २६५॥
नमस्ते शाम्भवानन्द नमस्ते भूतभावन ।
नमस्ते सर्वलोकेश सर्वाधारामरार्चित ॥ २६६॥
नमस्ते दिक्स्वरूपाय नमस्ते भूस्वरूपिणे ।
नमस्ते सूर्यरूपाय चन्द्ररूपाय ते नमः ॥ २६७॥
नमस्ते ग्रहरूपाय रूपातीताय ते नमः ।
नमः सकलकल्याणभाजनायामृतात्मने ॥ २६८॥
नमः परमवीराय नमः परशुधारिणे ।
नमो डमरुहस्ताय नमः खट्वाङ्गधारिणे ॥ २६९॥
नमोऽनन्तगुणाधार नमोऽनन्तस्वरूपिणे ।
नमो विभूतिकवच व्योमकेश नमोऽस्तुते ॥ २७०॥
नमस्त्रिशूलहस्ताय नमस्ते मुण्डमालिने ।
नमः प्रेतासनासीन जपावर्ण नमोऽतु ते ॥ २७१॥
नमो ब्रह्मण्यरूपाय विधिनाशकृते नमः ।
अशैवशैलवज्राय शिवद्रोहिविनाशक ॥ २७२॥
शिवभक्तप्रिय श्रीमन्नमः श्रीकालभैरवम् ।
शरण्यमूर्ते सर्वात्मन्नमस्ते भक्तवत्सल ॥ २७३॥
शिवनेत्रानल श्रीमन्नमस्ते शिवपूजक ।
नमो रक्ताम्बर श्रीमन्नमस्ते रक्तचन्दन ॥ २७४॥
नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे ।
नमस्ते रक्तभालाय नमो रक्तनखाय ते ॥ २७५॥
निर्विकार निरीहेश निरञ्जन निराश्रय ।
निरुपद्रव निर्द्वन्द्व निरामय निरञ्जन ॥ २७६॥
व्यालोपवीतिन्नुग्रात्मन्महाप्रलयकारण ।
अनेकसोमसूर्याग्निगणाकार नमोऽस्तु ते ॥ २७७॥
॥ इति शिवरहस्यान्तर्गते कालभैरवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । २६२-२७७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 262-277..
Notes:
Deva-s देवाः collectively attempt to eulogize, pacify and appease the formidable Kālābhairava कालभैरव.
Proofread by Ruma Dewan