श्रीकालहस्तीश्वराष्टकम् २
गङ्गाधराय गरुडध्वजसन्नुताय
माङ्गल्यदाय महितोरगभूषणाय ।
सङ्गीतलोलहृदयाय सदाशिवाय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ १॥
कन्दर्पदर्पदहनाय कृपाकराय
मन्दारसुन्दरसुरद्रुवरप्रदाय । (मन्दारसान्द्रसुरवन्द्यवरप्रदाय)
मन्दारजप्रसवमञ्जुलमस्तकाय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ २॥
डिण्डीरडुण्डुभरपाण्डुरविग्रहाय
चण्डासुरप्रहरणाय विशारदाय । (चण्डाशिरप्रकरणाय)
कुण्डल्यधीशसमुदार्चित(समुदञ्चित)कुण्डलाय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ३॥
हालाहलग्रहणलालसमानसाय
नीलाम्बुजाय निज(जातनिभ) सन्नुतकन्धराय ।
एलाधिपत्रिपुरराक्षससंहराय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ४॥
लक्ष्मीभवाय(तनूभव)हराय (शिवा)युताय
दक्षाध्वराय विकलोत्कटवैभवाय ।
वक्षोविलम्बिसुमनोहरमौक्तिकाय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ५॥
चर्माम्बराय शरणागतरक्षणाय
धर्मासनाय धरणीपरिपूजिताय ।
धर्माङ्गकोटिसदृशाय (?) कलाधराय
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ६॥
शूलायुधाय सुरसन्नुतविक्रमाय
कालान्तकाय कमलासनवन्दिताय ।
भालाम्बकाय भवदुःखविनाशना(का)य
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ७॥
रामार्चिताय रजनीकरभूषणाय
सम्भृत्यनाथकुलसन्नुतकङ्कणाय (?) ।
गौरीपयोधरयुगग्रहकार्मुकाय (कामुकाय)
श्रीकालहस्तिनिलयाय नमः शिवाय ॥ ८॥
कालहस्त्यष्टकं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥
॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥
Proofread by Aruna Narayanan