कालहस्तीश्वरस्तुतिः
%८७
जम्बुद्वीपे भारताख्येऽत्र वर्षे हर्षेणास्थाद्यामय्भागे व्यमर्षे ।
प्रत्यक्षश्रीकालहस्तीशसंज्ञः शम्भुर्यत्रागोऽपि कैलाससंज्ञः ॥ १॥
सुवर्णमुख्यासरतोविदूरे प्रासाद आस्ते सति याम्यतीरे ।
नगोऽपि तद्दक्षिणतोऽस्त्यदूरे यस्मिन्निवासोऽस्ति सदा स्मरारेः ॥ २॥
यथा गौरीश ते धाम क्ष्माधरे शिव राजते ।
राजते तद्वदत्रापि राजते देवराज ते ॥ ३॥
कैलासशैलादवतीर्य भक्तिप्रियो हरोश्तात्सगणः सशक्तिः ।
यः कालहस्तीन्द्रहरिः स पायाच्छ्रीकालहस्तीश्वर आश्वपायात् ॥ ४॥
यत्क्षेत्रदृष्ट्यापि नरस्य ताताः सद्यो विनश्यन्त्यखिलाः सपापाः ।
दुर्दैवदैन्याद्यखिलं प्रकामं निवार्य यः पूरयति स्वकामम् ॥ ५॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता कालहस्तीश्वरस्तुतिः समाप्ता ।