कालकृतं शिवस्तोत्रम्
काल उवाच ।
कालान्तक त्रिपुरेश त्रिपुरान्तकर प्रभो ।
मदनो हि त्वया देव कृतोऽनङ्गो जगत्पते ॥ ६०॥
दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः ।
कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत् ॥ ६१॥
ग्रसितं तत्त्वया शम्भो अन्येषामपि दुर्द्धरम् ।
लिङ्गरूपेण महता व्याप्तमासीज्जगत्त्रयम् ॥ ६२॥
लयनाल्लिङ्गमित्युक्तं सर्वैरपि सुरासुरैः ।
यस्यान्तं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः ॥ ६३॥
लिङ्गस्य देवदेवस्य महिमानं परस्य च ।
नमस्ते परमेशाय नमस्ते विश्वमङ्गल ।
नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने ॥ ६४॥
नमो नमः कारणकारणाय ते नमो नमो मङ्गलमङ्गलात्मने ।
ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः ॥ ६५॥
त्वमेव सर्वं जगदेकबन्धो वेदान्तवेद्योऽसि महानुभावः ।
महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः ॥ ६६॥
त्वं पासि लुम्पसि जगत्त्रितयं महेश ।
स्रष्टासि भूतपतिरेव न कश्चिदन्यः ॥ ६७॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, द्वात्रिंशाध्यायान्तर्गतं
कालकृतं शिवस्तोत्रं समाप्तम् ।
स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय ३२/६०-६७॥
skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 32/60-67..
Proofread by PSA Easwaran