स्कन्दप्रोक्तं कालनाथाष्टकम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
भैरवं पूजयेद्भक्त्या स्रग्गन्धाभरणार्चनैः ।
हविषा वापि ताम्बूलैर्माषापूपैः समर्चयेत् ॥ ६७॥
काश्यां निर्विघ्नवासाय भौमाष्टम्यां विशेषतः ।
सम्पूज्य संस्तुवीतैवं काश्यां श्रीकालभैरवम् ॥ ६८॥
कपालमालिकाकण्ठं ज्वलत्पावकलोचनम् ।
कपालकरमत्युग्रं कलये कालभैरवम् ॥ ६९॥
मणिपादुकपादाब्जं महाशूलकराम्बुजम् ।
कन्थाकञ्चुकसङ्क्रान्तं कलये कालभैरवम् ॥ ७०॥
दिगम्बरं जपावर्णं जरामरणवर्जितम् ।
चारुचन्द्रजटाजूटं कलये कालभैरवम् ॥ ७१॥
बालभानुप्रभाकारं नीलकोमलकञ्चुकम् ।
ज्वलद्दण्डकपालाढ्यं कलये कालभैरवम् ॥ ७२॥
सुरारिवरदावाग्निं सुरकैरवशीतगुम् ।
शिवाज्ञाकारकं साक्षात् कलये कालभैरवम् ॥ ७३॥
यस्याज्ञया जगत्सर्वं स्थावरं जङ्गमं तथा ।
वर्तते निर्भयं काश्यां कलये कालभैरवम् ॥ ७४॥
य इदं कालनाथस्य पठेद्भक्त्याऽष्टकं नरः ।
स एव लभते काशीं निर्विघ्नेन शिवाज्ञया ॥ ७५॥
तत्रैव वसते जन्तुः पूजनस्तवनेन च । ७६।१
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं कालनाथाष्टकं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २६ । ६७-७६.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 26 . 67-76.1 ..
Notes:
Skanda delivers Upadeśa उपदेश about reciting the Kālanāthāṣṭakam कालनाथाष्टकम् for eulogizing Śiva शिव as Kālabhairavam of Kāśī काश्यां कालभैरवम् and worshiping Him especially on Bhaumāṣṭamī भौमाष्टमी.
(कालभैरवस्तुतिः KālabhairavaStutiḥ)
Proofread by Ruma Dewan