श्रीकामेश्वरकवचम्
ॐ श्रीगुरवे शिवायों नमः ।
श्रीदेव्यै सदासुफलदायिन्यै नमः ।
श्रीदेव्युवाच -
भगवन् करुणाम्भोधे शास्त्राम्भोनिधिपारग ।
दासी परमभक्तास्मि वरं दातुमिहार्हसि ॥ १॥
श्रीभैरव उवाच -
कथयस्व महेशानि कमितो वरमिच्छसि ।
यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥
श्रीदेव्युवाच -
कामेश्वरस्य देवेश कवचं देवदुर्लभम् ।
शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥
श्रीभैरवौवाच -
शृणुष्व परमेशानि कवचं मन्मुखोदितम् ।
महाकामेश्वरस्यास्य न देयं परमाद्भुतम् ॥ ४॥
यं धृत्वा यं पठित्वा च यं श्रुत्वा कवचोत्तमम् ।
त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ ५॥
तदेवं वर्णयिष्यामि तव प्रीत्या वरानने ।
रहस्यं परमं तत्त्वं न दातव्यं दुरात्मने ॥ ६॥
अस्यश्रीकामेश्वरकवचमन्त्रस्य श्रीदक्षिणामूर्ति ऋषिः ।
पङ्क्ति छन्दः । श्रीकामेश्वरो देवता ।
श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकम् ।
चतुर्वर्गफलप्राप्त्यर्थं कवचपाठे विनियोगः ।
अथ ध्यानम् ।
उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं परं
चिद्रूपं भुवनैकसृष्टिप्रलयोद्भूतैकरक्षापरम् ।
कोटी चन्द्रगलत्सुधाद्भुततनुं हारादिभूषोज्ज्वलं
शुलं खड्गवरौ तथाभयकरं कामेश्वरं भावये ॥
ऐँ कं कामेश्वरः पातु क्लीं शिवो मे ललाटकम् ।
सौं मे कर्णौ च कामेशः तारं मे लोचनद्वयम् ॥ १॥
श्रीं गं डौं मे महाकालो ह्रीं नासां चन्द्रचूडकः ।
हं मे ओष्टौ त्रिपुरेशः सं मे दन्तौ च भैरवः ॥ २॥
क्षं मे जिह्वां पातु देवो महाकामेश्वरः परः ।
सम्मोहनं सदा पातु महावटुकभैरवः ॥ ३॥
यं मे स्कन्धौ सदा पातु महामृत्युञ्जयस्तथा ।
ऊं मे भुजौ सदा पातु श्रीं देवस्त्रिपुरान्तकः ॥ ४॥
सं मे हस्तौ त्रिलोकेशः हं नखान् पातु सुन्दरः ।
क्षं दक्षः पातु शामेशो मं कुक्षिं कृत्तिका वरः ॥ ५॥
लं पार्श्वौ पातु मे बाला वं नाभिं ब्रह्मभूषकः ।
रं वस्तिं पातु मे देवो यं पृष्ठं विष्णुरूपकः ॥ ६॥
ऊं शिश्नं पातु विश्वेशः अमृतेश्वरभैरवः ।
यं मेढ्रे पातु मे रुद्रो रं गुह्यं गुह्यकेश्वरः ॥ ७॥
लं कटिं पात मे नित्यं शिवः परमकारणः ।
वं ऊरू त्रिपुराध्यक्षः लं जानू देवपालकः ॥ ८॥
मं जङ्घे पातु महिमा यं गुल्फौ सूर्यरूपकः ।
श्रीं जठरं हरः पातु ह्रीं मनोहरसुन्दरः ॥ ९॥
ॐ बुद्धिं पातु मे रुद्रः सौः रसं दक्षजापतिः ।
क्लीं रक्तं पातु मे देवो ऊर्ध्वं च वह्निरूपधृक् ॥ १०॥
ऐं सौं सं गुह्यकः पातु मेरुः पशुपतिस्तथा ।
अस्थिं मे गिरिजानाथो मज्जां मे नीलकण्ठकः ॥ ११॥
शुक्रं भूतेश्वरः पातु मूर्धानं शङ्करोऽवतु ।
पादौ श्रीं सुन्दरीशानो देवः कालान्तकः प्रभुः ॥ १२॥
पादादिशिरःपर्यन्तमघोरः पातु सर्वदा ।
शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १३॥
प्रौढरूपः सदा पातु स्वाहा मे सकलं वपुः ।
कामेश्वरः प्रभातेऽव्यान्मध्याह्ने कालभैरवः ॥ १४॥
सायं पातु कुलेशानो निशीथे निष्कलेश्वरः ।
अर्धरात्रे वामदेवो निशान्ते सुमहोदयः ॥ १५॥
सर्वदा सर्वतः पातु ऐं क्लीं सौं बीजरूपधृक् ।
पूर्वे मामसिताङ्गोऽव्यात् दक्षिणे रुरुभैरवः ॥ १६॥
पश्चिमे पातु चण्डेशो ह्युत्तरे क्रोधभैरवः ।
ऐशान्यां पातु चोन्मत्तः कपालेशस्तथाग्निके ॥ १७॥
नैरृत्यां भीषणः पातु वायौ संहारकोऽवतु ।
ऊर्ध्वं मे कालरुद्रश्च पाताले परमेश्वरः ॥ १८॥
मध्ये सदाशिवः पातु त्रिकूटेशः सदावतु ।
दशदिक्षु सदा पातु महाकामेश्वरोऽवतु ॥ १९॥
विस्मारितं च यत्स्थानं यत्स्थानं नामवरर्जितम् ।
तत्सर्वं पातु मे देवस्त्रिपुरःपतिरीश्वरः ॥ २०॥
गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः ।
पथि त्रिपुरसुन्दर्यः पातु सर्वत्र सर्वदा ॥ २१॥
रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि ।
द्यूते मारीभये राष्ट्रे विप्लवे वादिनां कुले ॥ २२॥
कामेश्वरः सदा पातु भयस्थाने च सर्वदा ।
इत्येतत्कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २३॥
मूलमन्त्रमयं दिव्यं त्रिलोकीसारमुत्तमम् ।
अदातव्यमभक्ताय कवचं गुह्यमीश्वरि ॥ २४॥
अदृष्टव्यमश्रोतव्यं दीक्षाहीनाय मन्त्रिणे ।
परदीक्षाय शिष्याय पुत्राय शरजन्मने ॥ २५॥
न दातव्यं न श्रोतव्यमित्याज्ञां मामकीं शृणु ।
परं श्रीमहिमानं च शृणु चास्य सुवर्मणः ॥ २६॥
अदीक्षितो यदा मन्त्री विद्यां गृध्नुः पठेदिदम् ।
सुशिक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ २७॥
गुरुपूजां विधायास्य विधिवत्प्रपठेत्ततः ।
कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ॥ २८॥
एतच्छतार्थमावर्त्य त्रैलोक्यविजयी भवेत् ।
यः पठेन्मनसान्तस्तु रात्रौ ब्राह्मे मुहूर्तके ॥ २९॥
पूजाकाले निशीथे तु तस्य हस्तस्य सिद्धयः ।
दुःस्वप्ने बन्धने घोरे कान्तारे सागरे भये ॥ ३०॥
रजःसत्त्वतमोरूपवर्म कामेश्वरस्य तु ।
काङ्क्षन्ते मनसा यद्यत्तत्तत्प्राप्नोति साधकः ॥ ३१॥
महाकविर्भवेन्मासात्सर्वसिद्धीश्वरो भवेत् ।
कुङ्कुमेन लिखित्वा वै भूर्जत्वचि रवौ दिने ॥ ३२॥
प्रातःकाले शुभर्क्षे च स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ।
यद्यदिष्टं भवेत्तत्तत्साधको लभतेऽचिरात् ॥ ३३॥
यद्गृहे वर्तते वर्म श्रीकामेश्वरदैवतम् ।
विद्याकीर्तिर्धनारोग्यं लक्ष्मीर्वृद्धिर्न संशयः ॥ ३४॥
विना बलिं न संरक्ष्यं कवचं साधकत्तमैः ।
चेद्रक्ष्यं तत्सुतान् दारान्नायुर्भक्षति योगिनी ॥ ३५॥
बलिं दत्वा पठेद्वर्म धारयेन्मूर्ध्नि साधकः ।
पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ।
इह भोगान् समश्नाति परत्र मुक्तिभाग्भवेत् ॥ ३६॥
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ।
नाशमायाति सर्वत्र कवचस्यास्य धारणात् ॥ ३७॥
मृतवत्सा वामबाहौ कवचस्यास्य धारणात् ।
बह्वपत्या जीववत्सा भवत्येव न संशयः ॥ ३८॥
रणेष्टत्वाचरेद्युद्धं हत्वा शत्रून् जयं लभेत् ।
जयं कृत्वा गृहं देवि स प्राश्यति सुखी नरः ॥ ३९॥
महाभये महाघोरे महामारीभये तथा ।
दुर्भिक्षे शत्रुसङ्ग्रामे पठेत्कवचमादरात् ।
सर्वं तत्प्रशमं याति कामेश्वरप्रसादतः ॥ ४०॥
कवचस्यास्य देवेशि वर्णितुं नैव शक्यते ।
महिमानं महादेवि जिह्वाकोटिशतैरपि ॥ ४१॥
इदं कवचमज्ञात्वा यो जपेत मनुं शिवे ।
सप्तलक्षप्रजप्तापि तस्य विद्या न सिद्ध्यति ॥ ४२॥
अदातव्यमिदं वर्म मन्त्रगर्भं रहस्यकम् ।
अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ॥ ४३॥
अदीक्षिताय नो दद्यात् कुचैलाय दुरात्मने ।
न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ॥ ४४॥
शिष्येभ्यो भक्तियुक्तेभ्यः प्रदेयं भावनावशात् ।
इति श्रीदेवदेवेशि वर्म कामेश्वरस्य तु ।
गुह्यं गोप्यतमं गोप्यं कथितं तव भक्तितः ॥ ४५॥
इत्येष पटलो देवि परमाद्भुतकारणः ।
कथितो देवदेवेशि तव भक्तिवशान्मया ॥ ४६॥
न वक्तव्यो न दातव्यो दीक्षाहीनाय पार्वति ।
यथावद्गोपनीयोऽसौ सिद्ध्यष्टकफलो मतः ॥ ४७॥
यावत्कालं भवेद्गुप्तस्तावत्तु फलदायकः ।
न चेद्गुप्तो भवेद्देवि सिद्धिहानिर्भवेद्ध्रुवम् ॥ ४८॥
रहस्योद्घाटनायास्मान्महिमा हीयतान्मनोः ।
तस्मात्सर्वत्र गोप्तव्यः सायकैः पटलोत्तमः ।
यथेष्टकामदश्चेह परत्र मोक्षदः प्रिये ॥ ४९॥
इति श्रीविश्वसारतन्त्रे पार्वतीपरमेश्वरसंवादे
श्रीकामेश्वरकवचं सम्पूर्णम् ॥
Encoded from handwritten manuscript and proofread by
PSA Easwaran