श्रीकामेश्वरस्तोत्रम्
श्रीगणेशाय नमः ॥
ककाररूपाय करात्तपाशसृणीक्षुपुष्पाय कलेश्वराय ।
काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १॥
कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय ।
नमत्कलादानधुरन्धराय कामेश्वरायास्तु नतेः सहस्रम् ॥ २॥
कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय ।
दारिद्र्यदावामृतवृष्टये ते कामेश्वरायास्तु नतेः सहस्रम् ॥ ३॥
कल्याणशैलेषुधयेऽहिराजगुणाय लक्ष्मीधवसायकाय ।
पृथ्वीरथायागमसैन्धवाय कामेश्वरायास्तु नतेः सहस्रम् ॥ ४॥
कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके ।
शल्यापहर्त्रै विनतस्य तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥ ५॥
कान्ताय शैलाधिपतेः सुतायाः धटोद्भवात्रेयमुखार्चिताय ।
अघौघविध्वंसनपण्डिताय कामेश्वरायास्तु नतेः सहस्रम् ॥ ६॥
कामारये काङ्क्षितदाय शीघ्रं त्रात्रे सुराणां निखिलाद्भयाच्च ।
चलत्फणीन्द्रश्रितकन्धराय कामेश्वरायास्तु नतेः सहस्रम् ॥ ७॥
कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय ।
निजाङ्गसौन्दर्यजिताङ्गजाय कामेश्वरायास्तु नतेः सहस्रम् ॥ ८॥
कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य ।
पदाम्बुजानम्रसुरेश्वराय कामेश्वरायास्तु नतेः सहस्रम् ॥ ९॥
हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय ।
निराकृतानेकविधामयाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १०॥
हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय ।
प्रकर्षदाय प्रणमज्जनानां कामेश्वरायास्तु नतेः सहस्रम् ॥ ११॥
हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय ।
तापत्रयाम्भोनिधिवाडवाय कामेश्वरायास्तु नतेः सहस्रम् ॥ १२॥
हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम् ।
विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥ १३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीकामेश्वरस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran