काश्यां कालभैरवप्राकट्यप्रसङ्गवर्णनम्

काश्यां कालभैरवप्राकट्यप्रसङ्गवर्णनम्

- शिवपार्वतीसंवादे - ब्रह्मोवाच - अहमेवाखिलैः पूज्यः पूज्यो मम न सर्वथा । किं शूली मम सम्पूज्यः पूज्योऽहं शूलिनो ध्रुवम् ॥ २०१॥ वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वथा ॥ २०२॥ भ्रान्ता यूयं न सन्देहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥ २०३॥ प्रलपन्नेवमेवान्यद्विश्रान्तोऽसौ तदा विधिः । तस्थौ ततो महाविष्णुरर्घ्यपाणिरुपागतः ॥ २०४॥ ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥ २०५॥ धूपदीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा ददौ पुनर्दीपान पुनः पुष्पाञ्जलिं ददौ ॥ २०६॥ प्रदक्षिणनमस्कारान् चकार तदनन्तरम् । ततः पश्चाक्षरं शैवं जजाप स जनार्दनः ॥ २०७॥ ततस्तं ध्याननिरतं विधिर्दृष्ट्वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादन्हरेः ॥ २०८॥ असम्पूज्यैव पूजार्हं मामयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥ २०९॥ इत्युदीरितमाकर्ण्य वचनं तद्विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥ २१०॥ विष्णुरुवाच - हा हा दुर्भाग दुर्बुद्धे किमेत्रं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥ २११॥ सर्वदेवोत्तमः साम्बः शङ्करो भक्तवत्सलः । सर्वेषामपि सम्पूज्यः तस्य पूज्यो न दृश्यते ॥ २१२॥ तस्यैव पूजाविहिता सर्ववेदेषु सर्वथा । तत्पूजयैव सम्प्राप्तो मोक्षो मोक्षप्रदः शिवः ॥ २१३॥ शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । अहं शिवप्रसादेन पालयाम्यखिलं जगत् ॥ २१४॥ इत्युक्तवन्तं तं विष्णुं भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो न हि सम्पूज्यः पूज्योऽहं नात्र संशयः ॥ २१५॥ भ्रान्ताः सर्वे कथं जाताः पूज्यं मां सर्वसाधनैः । न पूजयन्ति दुर्वुत्ता माम्मित्येवं वदस्थितः ॥ २१६॥ तदा क्लेशान्वितो विष्णुः शङ्करं लोकशङ्करम् । तुष्टाव विविधैः स्तोत्रैरुवाचेदं वचस्तदा ॥ २१७॥ शम्भो प्रसीद देवेश क्लेशान्दूरीकुरुष्व मे । अशैवं संहरस्वैनमधर्मस्य प्रवर्तकम् ॥ २१८॥ अधर्मवृत्त्या सर्वेऽपि यास्यन्ति नरकं ध्रुवम् । कृपालुरसि देवेश विधिमेनं प्रणाशय ॥ २१९॥ अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अशैवशिक्षा कर्तव्या देवेश त्रिपुरान्तक ॥ २२०॥ नोचेदधर्मवृद्धिस्तु भविष्यति न संशयः । अधर्मवृद्ध्या देवानां दुःखवृद्धिर्भविष्यति ॥ २२१॥ इत्युक्त्वा प्रणतो विष्णुः स ऋषिः संस्(सर्षिसङ्घः) स्तुवंस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन्मुहुः ॥ २२२॥ तदोग्ररूपादनङ्घान्मत्तः श्रीकालभैरवः । आविरासीत्तदा लोकान्भीषयन्नखिलानपि ॥ २२३॥ व्याप्यायं सप्तपातालाननन्तचरणैः स्वयम । भूर्भुवः सुवरादींश्च शिरोऽभिव्याप्य संस्थितः ॥ २२४॥ दिशो दशव्याप्तहस्तैरनन्तैर्विवृताननः । अनन्तसूर्यप्रतिमः कालानलसमप्रभः ॥ २२५॥ नानाशस्त्रावृताकारो नानागन्धानुलेपनः । नानामालावृतो नानारत्नाभरणसंवृतः ॥ २२६॥ अन्तरूपकूपेषु वहन्नग्निकणान्बहून् । निःश्वासपवनैरग्निं विसृजन् रक्तलोचनः ॥ २२७॥ अकाण्डप्रलयाग्नीनां समूहमिव संस्थितः । दृष्ट्वा तं विस्मिताः सर्वे देवाः स ऋषिपुङ्गवाः ॥ २२८॥ चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकम्पे सकलैः फणिभिश्च समावृतः ॥ २२९॥ तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्कराघातमात्रेण पेतुरुर्व्यां च तारकाः ॥ २३०॥ पापत मूर्च्छितो विष्णुस्तं दृष्ट्वा भीमविक्रमम् । पेतुर्मुनिवरास्सर्वे देवाश्चेन्द्रपुरोगमाः ॥ २३१॥ क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदा । उद्वेलाश्च बभूवुस्ते महाकल्लोलसङ्कुलाः ॥ २३२॥ ततस्तु भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥ २३३॥ भैरव उवाच - शम्भो किं करवाण्यद्य कार्यं ते किमुपस्थितम् । शोषणीयाः सुमुद्राः किं क्षणेनैवाद्य लीलया ॥ २३४॥ किं वा कुलाचलाः सर्वे भक्षणीयास्त्वदाज्ञया । नस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥ २३५॥ किं भस्मसादुपैत्वीश सशैलवनकानना । पृथिवी सनदी वा मामाज्ञापयतु शङ्कर ॥ २३६॥ मा विलम्बं कुरुष्वेश किं विलम्बेन शङ्कर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥ २३७॥ मयोग्रतररूपेण तूष्णीं स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभुम् ॥ २३८॥ एवमुक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । तदा ब्रह्मशिरश्छेदं कुरुष्वेत्युक्तवानहम् ॥ २३९॥ ततो विधिं भैरवस्तं दृष्ट्वा प्रस्फुरिताधरः । नखाग्रेणैव चिच्छेद शिरांसि च पपात सः ॥ २४०॥ ततस्तस्य विधेश्च्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन्सत्वरं शिवे ॥ २४१॥ तदा तस्य शिरो दृष्ट्वा ब्रह्मणः फणिराट् तदा । विस्मितो मुक्तिमेतस्य शिरश्छेदस्य कारणम् ॥ २४२॥ इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥ २४३॥ प्रायशो देवदेवस्य महादेवस्य पूजनम् । न कृतं ब्रह्मणा तस्माच्छिवेन निहतो विधिः ॥ २४४॥ प्रायशो ब्रह्मणा शम्भोर्धिक्कारो वा कृतो ध्रुवम् । नन्दिकेशस्य वाऽन्यस्य शिवभक्तस्य वा ध्रुवम् ॥ २४५॥ शिवं वा शिवभक्तं वा नन्दिकेशं शिवप्रियम् । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥ २४६॥ अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालश्च ब्रह्मविष्ण्वीशनाशकः ॥ २४७॥ समयः प्रलयस्यास्तु मास्तु वायं तथाप्यहम् । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥ २४८॥ महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयोद्भवः ॥ २४९॥ दग्धा भवन्तु ब्रह्माद्या लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥ २५०॥ इत्युक्त्वा फणिराट्च्छीघ्रं काशीं प्रति समाययौ । पाहि पाहि महादेव प्रलयादिति संवदन् ॥ २५१॥ सम्प्राप्य काशीं पूतात्मा प्रहृष्टहृदयः फणी । अमन्यत तदात्मानं कृतार्थं भाग्यसंश्रयम् ॥ २५२॥ दृष्ट्वा काशीं पुरीं शैवीं शैवमोक्षप्रदायिनीम् । साक्षाच्छिवस्वरूपेयं देवानामपि दुर्लभा ॥ २५३॥ कृपा मयि महेशस्य सम्पूर्णा तिष्ठति ध्रुवम् । यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥ २५४॥ अतः परं भयं नास्ति मृतेरपि मम ध्रुवम् । यतः प्राप्ता मया काशी यां मृत्युर्नैव पश्यति ॥ २५५॥ ततः स रत्नपुष्पाद्यैर्विश्वेशं मां सनातनम् । सम्पूज्य नित्ययात्रादि सर्वकर्म चकार सः ॥ २५६॥ आदिभैरवमभ्यर्च्य धूपदीपादिभिस्ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥ २५७॥ श्रीकालभैरवं दृष्ट्वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥ २५८॥ -- मया चोत्थापितो विष्णुस्ततः पूर्वं स उत्थितः । इन्द्रादयः स ऋषयो (?) मयैवोत्थापिताः शिवे ॥ २५९॥ विष्णुरिन्द्रः फणिपतिर्देवाश्चान्ये मुनीश्वराः । ददृशुश्छिन्नशिरसं विधि तं पतितं भुवि ॥ २६०॥ -- देवा ऊचुः - ततो विष्णुस्सदेवेन्द्रः सऋषिः सफणिस्तथा (?) । स्तोत्रैरनेकैः स्तुत्वा च (तुष्टाव) भीमं श्रीकालभैरवम् ॥ २६१॥ ॥ इति शिवरहस्यान्तर्गते काश्यां कालभैरवप्राकट्यप्रसङ्गवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । २०१-२६१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 201-261.. Notes: Śiva शिव recounts to Pārvatī पार्वती; the appearance/manifestation of the formidable Kālābhairava कालभैरव and the subsequent decapitation of Brahmā ब्रह्मा who brimmed with arrogance due to his role as The Creator, and had entered Kaśī काशी questioning Viṣṇu विष्णु as to why He (Viṣṇu विष्णु) was worshiping Śiva शिव - when he (Brahmā ब्रह्मा) as the Creator is the only one worthy of being worshiped. As the terrifying event unfolds and Brahmā ब्रह्मा has fallen unconscious; Viṣṇu विष्णु, along with Indra इन्द्र, Ṛṣi-s ऋषिः Phaṇipati फणिपति (Vāsuki वासुकि) collectively attempt to eulogize, pacify and appease the disgruntled and vexed Kālābhairava कालभैरव. Proofread by Ruma Dewan
% Text title            : Kashyam Kalabhairavaprakatyaprasangavarnanam
% File name             : kAshyAMkAlabhairavaprAkaTyaprasangavarNanam.itx
% itxtitle              : kAlabhairavaprAkaTyaprasaNgavarNanam kAshyAm (shivarahasyAntargatam)
% engtitle              : kAshyAM kAlabhairavaprAkaTyaprasangavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 201-261||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org