काश्यां पितृकर्मोपदेशम्
- शिवपार्वतीसंवादे -
स्नानं कार्यं प्रयत्नेन ज्ञानवापीजले शुभे ।
आमद्रव्येण विधिवच्छ्राद्धं कर्तव्यमादरात् ॥ १९४॥
हिरण्येनाथवा श्राद्धं कुर्यात्तद्दिन एव हि ।
हव्यश्यामाकनीवारयवचूर्णादिभिः क्रमात् ॥ १९५॥
पिण्डदानं यथाशास्त्रं कर्तव्यं नियमेन च ।
पितुः पिण्डत्रयं देयं मातुरप्यादरात्तथा ॥ १९६॥
अन्येषां तु यथा योग्यम्मेकैकं स्याद्यथाक्रमम् ।
ततः कृष्णतिलैः शुद्धैः कृत्वा तु पितृतर्पणम् ॥ १९७॥
ज्ञानवापीं समभ्यर्च्य ज्ञानेशं च समर्चयेत् ।
विनायकान् ढुण्ढिराजं समभ्यर्च्य ततः परम् ॥ १९८॥
मुक्तिमण्डपमासाद्य ध्यात्वा मामजमव्ययम् ।
नन्दिकेशं समभ्यर्च्य द्वारपालानपि क्रमात् ॥ १९९॥
ततो मत्पूजनं कार्यं स्वशक्त्या च यथाविधि ।
ततो वीरेशकुण्डादौ स्नानं कृत्वा यथाक्रमम् ॥ २००॥
श्राद्धं पिण्डप्रदानादि कर्तव्यं विधिपूर्वकम् ।
श्राद्धावशिष्टान् द्वित्रान्वा भक्षयित्वा तिलांस्ततः ॥ २०१॥
कुर्याज्जागरणं सम्यङ्निराहारेण सादरम् ।
ततस्तु पश्चिमे यामे पञ्चक्रोशाद्बहिर्व्रजेत् ॥ २०२॥
कृत्वा शौचादिकं तत्र यथाशास्त्रं यथाविधि ।
ततः काश्यां समागम्य स्नात्वा तीर्थोदके शुभे ॥ २०३॥
सन्ध्यादिनित्ययात्रान्तं कर्म कृत्वा यथाक्रमम् ।
शैवान्द्विजवरान् श्रेष्ठानाहूय शिवविग्रहान् ॥ २०४॥
तेषामामन्त्रणं देयं यथाशास्त्रं यथाक्रमम् ।
ततः स्नात्वां विधानेन श्राद्धं कार्य प्रयत्नतः ॥ २०५॥
स्वाद्वन्नैः शिवभक्तास्ते भोजनीया यथाविधि ।
शैवं भोक्तारमुत्कृष्टं निकटस्थमनुत्तमम् ॥ २०६॥
त्यक्त्वा यः कुरुते श्राद्धं तद्व्यर्थं नात्र संशयः ।
अष्ट दिक्ष्वष्टतीर्थानि ज्ञानवाप्यां वसन्ति च ॥ २०७॥
तेषु स्नानं यथाशास्त्रं कर्तव्यं प्रीतिपूर्वकम् ।
अष्टदिक्ष्वपिं कर्तव्यमेकैकत्र यथाक्रमम् ॥ २०८॥
पञ्चधा श्राद्धमनघैरन्नैश्चापि यथाविधि ।
पूर्वदिग्भागमारम्भ्य सव्येनैव यथाक्रमम् ॥ २०९॥
स्नानादि कर्तव्यमप्रमादेन सर्वथा ।
वेद गौरी ज्ञान धर्मं मोक्ष पुण्य कराणि च ॥ २१०॥
पितृकार्याणि तीर्थानि ज्ञेयान्यष्टौ शुभानि मे ।
चत्वारिंशद्यथाशास्त्रं ज्ञानवापीतटे शुभे ॥ २११॥
श्राद्धानि नियमेनैव कर्तव्यानि न संशयः ।
एतेषु च समाप्तेषु तदनन्तरमादरात् ॥ २१२॥
पञ्च श्राद्धानि कार्याणि विधिवन्मुक्तिमण्टपे ।
एकैकं श्राद्धमेकैकदिने कार्यं यथाक्रमम् ॥ २१३॥
नै कस्मिन् दिवसेऽनेकं कर्म श्राद्धं विधीयते ।
श्राद्धान्येवं विधायैव ज्ञानवापीतटे शुभे ॥ २१४॥
मणिकर्णितटे कुर्यात्ततः श्राद्धं यथाविधि ।
वीरेशकुण्डनिकटे ततः कार्यं प्रयत्नतः ॥ २१५॥
तत पशुपतीशस्य कुण्डप्रान्ते मनोहरे ।
कालकुण्डतटे कार्यं तदनन्तरमादरात् ॥ २१६॥
शिवगङ्गातटे कार्यं ततः सम्यग्यथाविधि ।
कार्कोटकस्यापि कुण्डे तटप्रान्ते मनोहरे ॥ २१७॥
ततः पिशाचतीर्थेऽपि कर्तव्यं विधिपूर्वकम ।
ओङ्कारकुण्डप्रान्तेऽपि कर्तव्यं तदनन्तरम् ॥ २१८॥
ततः पिलिप्पपिलाकुण्डे कर्तव्यं विधिपूर्वम् ।
हंसतीर्थतटे कार्यं तदनन्तरमादरात् ॥ २१९॥
शक्रकुण्डेशकुण्डेऽपि तत्र कार्यं प्रयत्नतः ।
ततः केदारकुण्डेऽपि कर्तव्यं विधिपूर्वकम् ॥ २२०॥
अर्ककुण्डे ततः कार्यं चन्द्रकूपे ततः परम् ।
ततः सिद्धेशकुण्डेऽपि दुर्गाकुण्डे ततः परम् ॥ २२१॥
कामाक्षीकुण्डनिकटे ततः कर्तव्यमादरात् ।
सार्धांष्टकोटिलिङ्गानि कुण्डान्यपि वरानने ॥ २२२॥
श्रीमदन्तर्गृहे रम्ये सन्ति दिव्यानि भूरिशः ।
अन्तर्गेहाद्बहिर्देवि लिङ्गसङ्ख्या न विद्यते ॥ २२३॥
कुण्डानामपि दिव्यानां सङ्ख्या नास्त्येव सर्वथा ।
तेषु सर्वत्र कर्तव्यं श्राद्धं यद्यपि सर्वथा ॥ २२४॥
तथापि शक्तिहीनैस्तु श्राद्धं कार्य क्वचित्क्वचित् ।
उक्तस्थलेषु कर्तव्यमवश्यं पितृतत्परैः ॥ २२५॥
श्राद्धमन्नेन विमले यथाशास्त्रं यथाक्रमम् ।
उक्तस्थलेषु सर्वत्र पञ्चवारं यथाक्रमम् ॥ २२६॥
श्राद्धं कर्तव्यमन्नेन सर्वथैवाप्रमादतः ।
अशक्तैस्तु त्रिवारं वा श्राद्धं कर्तव्यमादरात् ॥ २२७॥
द्विवारमधमेनापि कर्तव्यं नात्र संशयः ।
श्राद्धान्येवं यथाशास्त्रं कृत्वा तदनु सादरम् ॥ २२८॥
॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । १९४-२२८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 194-228..
Notes:
Śiva शिव details to Pārvatī पार्वती about the TīrthaKṣetra तीर्थक्षेत्र in Kaśī काशी, where one can perform Pitṛkarma पितृकर्म. Some Śloka-s are collated here for this webpage.
Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan