काश्यां विष्णुवरप्राप्तिवर्णनम्
- शिवपार्वतीसंवादे -
वैकुण्ठाख्यं महास्थानं सृष्टं पूर्वं मया शिवे ।
तदाधिपत्यं सुखदं तदा दत्तं मया शुभे ॥ ५८५॥
लोकान्धर्मेण सततं पालयेति परोऽपरः ।
दत्तस्तदैव सन्तोषाददेयो दुर्लभो मया ॥ ५८६॥
तदानीं पूजयामास कमलैरमलैः स माम् ।
सहस्रनाममन्त्रैस्तु श्रद्धाभक्तिपुरः सरम् ॥ ५८७॥
तद्भक्तिदर्शना(शोधना)र्थाय तदैकं कमलं मया ।
दूरीकृतं तदेकोनं नाम साहस्रकस्य च ॥ ५८८॥
तदा विचार्य कमलमदृष्ट्वासौ जनार्दनः ।
स्वनेत्रकमलेनैव नामसङ्ख्यामपूरयत् ॥ ५८९॥
तदात्यन्तमभूत्प्रीतिर्मम तस्मिन्वरानने ।
ततो नेत्रं मया दत्तं पुण्डरीकनिभं शुभम् ॥ ५९०॥
पुण्डरीकाक्षमित्येव नाम लब्धं च विष्णुना ।
तेन घोरतरं तप्तं तपस्तत्फलमीदृशम् ॥ ५९१॥
तेनैव विष्णुना तत्र चक्रं लब्धं वरानने ।
सुदर्शनाख्यममलं कोटिसूर्यसमप्रभम् ॥ ५९२॥
तेनैव सर्वशत्रूणां विनाशं स करिष्यति ।
पुरा मदङ्घ्रिलेखाभिः सृष्टं तच्चक्रमुत्तमम् ॥ ५९३॥
वरोऽन्यो याचितस्तेन सर्वलोकहितावहः ।
इदं पापहरं भूयः कुण्डमस्तीति सादरम् ॥ ५९४॥
इदं मणिगणाकीर्णं मणिकर्णिसमन्वितम् ।
मणिकर्णीति विख्याति कुण्डं यातु जगत्प्रभो ॥ ५९५॥
अत्रैकमज्जनादेव मुक्ता यान्तु जनाः सदा ।
स्मरणेनापि पापानां विनाशो भवतु प्रभो ॥ ५९६॥
यः करोति पितृश्राद्धमेतत्तीरे मनोहरे ।
यान्तु तत्पितरः सर्वे ब्रह्मलोकं महेश्वर ॥ ५९७॥
अत्र यः शैवपुण्यात्मा तनुत्यागं करिष्यति ।
शैवं पञ्चाक्षरं तत्र स समाप्नोतु शङ्करम ॥ ५९८॥
ततश्च त्वत्प्रसादेन स मोक्षमधिगच्छतु ।
अक्लेशेनैव देवेश पुनरावृत्तिदुर्लभम् ॥ ५९९॥
इति पृष्टा वरास्तेन सर्वे दत्ता मया शिवे ।
तदा मन्दारकुसुमैरभूद्वृष्टिर्मनोहरा ॥ ६००॥
वैकुण्ठलोकं सम्प्राप्य तदनु प्रीतमानसः ।
पूजयत्येव मां नित्यमभिवाद्य पुनः पुनः ॥ ६०१॥
अन्तर्गृहे वासमनन्यलभ्यं लब्ध्वा तपस्यां यदि सावधानम् ।
करोति यः कश्चन शैववर्यस्तस्मै मया दीयते एवमिष्टः ॥ ६०२॥
॥ इति शिवरहस्यान्तर्गते काश्यां विष्णुवरप्राप्तिवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ५८५-६०२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 585-602..
Notes:
Śiva शिव narrates to Pārvatī पार्वती, about the boons that were granted to Viṣṇu विष्णु when He had so ardently worshiped Śiva शिव that He even offered one of His eyes to compensate for a missing lotus from the thousand of them that He was offering while reciting Śiva Sahasranāma शिव सहस्रनाम. Pleased with such intense devotion, Śiva शिव granted the Sudarśana cakra सुदर्शन चक्र to Viṣṇu विष्णु.
Upon being beseeched further, Śiva शिव instructed Him about merits of performing worship and rites at the Maṇikarṇikā ŚivaTīrthaKṣetra मणिकर्णिका शिवतीर्थक्षेत्र; and, mentions that anyone who breathes his/her last at while reciting the Śiva Pañcākṣara Mantra शिव पञ्चाक्षर मन्त्र at Maṇikarṇikā ŚivaTīrthaKṣetra मणिकर्णिका शिवतीर्थक्षेत्र in Kaśī काशी, would be eligible for liberation.
Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan