काश्यि पापशान्त्यार्थं शिवप्रार्थना
- शिवपार्वतीसंवादे -
सर्वपुण्यहरा शम्भो तत्पापं शान्तिमेष्यतु ।
कदाचिन्न कृतं दैवाच्छैववर्यस्य वन्दनम् ॥ ३६१॥
कदाचिदुदकं पीतमकृत्वा भस्मधारणम् ।
प्रमादेन महादेव तत्पापं शान्तिमेष्यतु ॥ ३६२॥
कदाचिच्छिवलिङ्गस्य निर्णेजनजलं शुभम् ।
न पीतं पार्वतीनाथ तत्पापं शान्तिमेष्यतु ॥ ३६३॥
कदाचिद्बिल्वपत्रेण भ्रमादेव हि सर्वथा ।
लिङ्गं नाभ्यर्चितं शम्भो तत्पापं शान्तिमेष्यतु ॥ ३६५॥
ज्ञानवापीजले रम्ये भ्रमेणैव कदाचन ।
न स्नानं कृतमीशान तत्पापं शान्तिमेष्यतु ॥ ३६५॥
कदचिन्न कृतं शम्भो दण्डपाण्यर्चनं मया ।
नार्चितो ढुण्ढिपालोऽपि तत्पापं शान्तिमेष्यतु ॥ ३६६॥
वीरेश्वरो भ्रमेणैव कदाचिन्नार्चितो मया ।
सर्वार्थतः कृपासिन्धो तत्पापं शान्तिमेष्यतु ॥ ३६७॥
श्रीमत्पशुपतीशोऽपि पशुपाशविमोचकः ।
कदाचिन्नार्चितः शम्भो तत्पापं शान्तिमेष्यतु ॥ ३६८॥
श्रीकालभैरवः शास्ता भ्रमैणैव कदाचन ।
नाराधितो सहादेवस्तत्पापं शान्तिमेष्यतु ॥ ३६९॥
प्रचण्डविघ्नसंहर्ता वक्रतुण्डेश्वरो मया ।
कदाचिन्नार्चितः शम्भो तत्पापं शान्तिमेष्यतु ॥ ३७०॥
शिवगङ्गाजलस्नानं कदाचिन्न कृतं मया ।
अलसेन विरूपाक्ष तत्पापं शान्तिमेष्यतु ॥ ३७१॥
ओङ्काराख्यं महालिङ्गं भ्रान्तेनैव कदाचन ।
मया नाभ्यर्चितं शम्भो तत्पापं शान्तिमेष्यतु ॥ ३७२॥
केदारेश्वरमाराध्यमनाराध्यैव संस्थितम् ।
मयाकदाचिद्विश्वेश तत्पापं शान्तिमेष्यतु ॥ ३७३॥
- -
एवमुच्चार्य सकलानपराधान्यथाक्रमम् ।
ततः स्नात्वा ज्ञानवाप्यां पुनः सम्पूज्य मां ततः ॥ ३७४॥
वीरेश्वरादिस्थानेषु गत्वा सम्पूज्य सादरम् ।
पुनरभ्यर्चनं कार्यं मयि भक्तिपुरः सरम् ॥ ३७५॥
ततो मौनेन नियमात्कृताञ्जलिपुटैर्नरैः ।
दण्डपाणिं प्रणम्यैव गन्तव्यं मुक्तिमण्टपात् ॥ ३७६॥
॥ इति शिवरहस्यान्तर्गते काश्यि पापशान्त्यार्थं शिवप्रार्थना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ३६१-३७६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 361-376..
Notes:
Prayer seeking pacification of inadvertent trespasses that one may have committed while in Kāśī काशी.
Proofread by Ruma Dewan