श्रीकृष्णकृतं ३ शिवस्तोत्रम्
श्रीकृष्ण उवाच ।
देवदेव महादेव शरणागतवत्सल ।
नमामि त्वाऽनन्तशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३॥
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ।
ब्रह्मलिङ्गं परं शान्तं केवलं परमेश्वरम् ॥ ४४॥
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ।
क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५॥
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ।
तन्निबन्धं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६॥
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ।
नूनं बिभर्षि लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७॥
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।
यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥ ४८॥
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ।
ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९॥
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ।
सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ ५.५४.५०॥
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ।
स्वच्छायया सञ्चकास्ति ह्ययं परमदृग्भवान् ॥ ५१॥
गुणेनापिहितोऽपि त्वं गुणे नैव गुणान् विभो ।
स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शङ्कर ॥ ५२॥
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ५३॥
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ५४॥
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ।
त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा ॥ ५५॥
निवर्त्तस्व रणाद्देव त्वच्छापो न वृथा भवेत् ।
आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृन्तने ॥ ५६॥
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे चतुःपञ्चाशत्तमाध्यायान्तर्गतं
श्रीकृष्णकृतं शिवस्तोत्रं समाप्तम् ।
शिवपुराण । रुद्रसंहिता । युद्धखण्ड । अध्याय ५४/४३-५४॥
shivapurANa . rudrasaMhitA . yuddhakhaNDa . adhyAya 54/43-54..
Proofread by PSA Easwaran