श्रीकृष्णकृतं ४ शिवस्तोत्रम्
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥ ३०॥
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ ३१॥
त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥ ३२॥
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्निः ।
ये वा दिविस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति ॥ ३३॥
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः ।
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ॥ ३४॥
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये ।
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥ ३५॥
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः ।
आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥ ३६॥
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः ।
मनसः परमा योनिः स्वभावश्चापि शाश्वतः ॥ ३७॥
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥ ३७॥
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः ।
महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः ॥ ३८॥
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ।
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥ ३९॥
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ।
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥ ४०॥
सर्वतःपाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ।
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ ४१॥
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु ।
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ ४२॥
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥ ४३॥
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ ४४॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ ४५॥
इति महाभारते अनुशासनपर्वणि १५ अध्यायान्तर्गतं
श्रीकृष्णकृतं शिवस्तोत्रं सम्पूर्णम् ।
महाभारत । अनुपर्व । अध्याय १५/३०-४५॥
mahAbhArata . anuparva . adhyAya 15/30-45..
Proofread by PSA Easwaran