कद्रूकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते भीमाख्ये)
शम्भो विश्वमहेश शङ्करजटाजूटैक गङ्गाधर
स्फारावारस्फुलिङ्गनेत्रनिवहज्वालाविदग्धान्तक ।
शम्भो विश्वेश शम्भो शशिगिरितटिनीजूटकूटोज्ज्वलाङ्ग
ज्वालानेत्राब्जजातोत्तमवरशिरसाम्मालिकालङ्कृताङ्ग ॥ २३॥
उक्षाङ्गापाङ्गसङ्ग स्फुरदुरुपदभूदिव्यमातङ्गभङ्ग
नागाङ्गाभङ्गगङ्गाजललवकुटिलालोलदिव्योत्तमाङ्ग ।
पाहीश प्रमथेश चारुकरुणामूर्तेऽरुणाद्रिस्थित
पारावारमहाघसागरतरीश्रीकर्णधार प्रभो ॥ २४॥
पुत्रान्मे शरणागतान्करुणया ज्वालोरुनेत्र प्रभो
पाहीशान दयानिधान अरुणभ्रातुर्भयात्पीडितान् ।
चन्द्रापीड महेश ते चरणयोर्भक्तिप्रभाभावितान्
नास्त्यन्यत्तवपादयोः शशिकलामौले शरण्यं परम् ॥ २५॥
त्वं मातासि पितासि सर्वजगतां तेन त्वमेवेश्वर-
स्त्वत्तो मे सुतवृन्दमेतदधुना प्राप्नोतु सौख्यं विभो ।
बिभ्यद्गारुडभीतितोगतिपरं त्वामेव याचे शिव
(द्रुह्यद्गारुडभीतितः परगतिं त्वामेव याचे शिव)
तत् त्राणाय भवाधुना शरणद त्वत्तोऽभिकाङ्क्षे वरम् ॥
॥ इति शिवरहस्यान्तर्गते कद्रूकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २६ शिवप्रसादः । २३-२६॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 26 shivaprasAdaH . 23-26..
Notes:
Kadrū कद्रू; the mother of Nāga-s नागाः, prays to Śiva शिव to provide protection to her progeny from Garuḍa गरुड.
Proofread by Ruma Dewan