कैलासलिङ्गवर्णनम् २
ईश्वरः -
शृणु देवि प्रवक्ष्यामि गिरीन्द्रवरनन्दिनि ।
त्वयिगोप्यं न मे किञ्चित्त्रिषु लोकेषु विद्यते ॥ १३॥
न प्रकाश्यं त्वया देवि रहस्यं मम हृद्गतम् ।
तथापि त्वयि वक्ष्यामि लिङ्गाध्यायमिमं शिवे ॥ १४॥
कैलासाचलमौलिस्थं लिङ्गमण्डलमम्बिके ।
तज्ज्ञातुन्नैव शक्यं हि मयैव मनसा ततम् ॥ १५॥
कोटिलिङ्गाकृतिरहं तत्पूजाकल्पकोऽप्यहम् ।
न तानि देवमुनिभिर्गन्धर्वैः पूजितान्युमे ॥ १६॥
नामरेन्द्रवरैर्देवि श्रुतानि किमु दर्शनम् ।
(नमद्गणैर्वरैर्देवि श्रुतानि किमु दर्शनम्) ।
पूजने का कथा देवि चागम्यो मम भूधरः ॥ १७॥
तत्पश्यामि प्रसन्नेन मनसा विस्मयेन च ।
मदीक्षणेन सर्वेषां लिङ्गानां पूजनं भवेत् ॥ १८॥
शिवे पश्य महादेवि यावत्ते दृष्टिसन्ततिः ॥ १९॥
लिङ्गमण्डलमिदन्नगात्मजे चन्द्रखण्डललितोत्तमाङ्गकम् ।
कुण्डलीशसुफणाविभूषितं पापजालसुगिरीन्द्रखण्डनम् ॥ २०॥
पुण्ड्रशोभितकपालमालकं बिल्वचन्दनसुपङ्कजार्चितम् ।
पश्य पश्य गिरिजे नगमौलौ तोषदायकमतीव ममेष्टम् ॥ २१॥
कैलासोऽयमतीव सुन्दर महालिङ्गालयानां शिवे
कोटीभिः परितो वृतो मणिगृहैस्तादृक्षलिङ्गैरपि ।
मालूरोत्तमशाखिशेखर शिखस्तस्याच्छपुष्पैः फलै-
रानम्रछदभारपल्लवयुतैस्तद्गन्धबन्धानिलः ॥ २२॥
शिखिशिखकुलाग्रपिञ्छभारैर्मम लिङ्गालयमार्जनं सदैव ।
वनवेणूद्भवदावमध्यलग्नैस्सगरामोदसुधूपितं सदैव ॥ २३॥
मणिगर्भगृहोत्थरत्नदीपैस्सततन्दीपितमेव लिङ्गसङ्घम् ।
वनबिल्वछदपुष्पगन्धवाहैरभिनीतैश्च सुपूजितानि पश्य ॥ २४॥
पाटलपटलैश्च कर्णिकारैस्सरसोत्फुल्लसुमुल्लसप्तरागैः ।
अरविन्दैः कुरुविन्दवृन्दवर्णैर्नवनीलोत्पलहल्लकैस्सुफुल्लैः ॥ २५॥
सितरक्तामलवर्णशीर्यवृत्तैरतिगन्धैर्मकरन्दवृन्दलीलैः ॥ २६॥
(सितरक्तामलवर्णशीर्णवृन्तैरतिगन्धैर्मकरन्दवृन्दलीलैः) ॥ २६॥
मन्दारैरतिसुन्दरैर्मम शिवे लिङ्गालिमौलिस्सदा
मल्लीफुल्लसुपुण्डरीककुमुदैस्मत्कर्णिकारैश्शिवे ।
सञ्छन्नानि तरां सदाघनफलैः प्रोद्यत्सुधासारकैः
नैवेद्येषु शिवे सदा सुरचितं लिङ्गाळयेषूद्यतम् ॥ २७॥
करिकरपुष्करशीकरोत्थसारैरभिषिक्तानि स्वमौलिचन्द्रसारैः ।
कस्तूरिकामृगमदाङ्गजघर्षणेन गन्धायितानि नगमौलिषु पश्य देवि ॥ २८॥
उत्फुल्लचामरकुलैरभिवीज्यमानं नृत्तं शिखण्डिविहितं पिकहंसरागम् ।
सम्पूज्य पूजितमिदं मम लिङ्गसङ्घं पापापहारि सुगतिप्रदमुत्तमञ्च ॥ २९॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासलिङ्गवर्णनम् २॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३८ - कैलासलिङ्गवर्णनम् । १३-२९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 38 - kailAsalingavarNanam . 13-29..
Notes:
Īśvara ईश्वर explains to Devī देवी about group of Śivaliṅga-s शिवलिङ्ग at Kailāsa कैलास, especially at the peak of the mountain.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan