कैलासप्रासादवर्णनम् शिवरहस्यान्तर्गतम्
- स्कन्दप्रोक्तम् शिवरहस्यान्तर्गतम् -
मणिप्रभाभिस्सततं सोमसूर्यौ तिरस्कृतौ ।
सरसीमध्यसङ्कॢप्तसौधोद्यद्वरकुम्भकः ॥ ४३॥
मणिस्तम्भकृतासारभाभासितदिगन्तरः ।
सुवर्णाम्बरसङ्कॢप्तविततामलमौक्तिकैः ॥ ४४॥
जालिकापालिकापारवितानावलिभासुरः ।
तन्मध्यहीरकोत्तुङ्गसिह्मासनवराश्रितः ॥ ४५॥
तत्रदेव्या महादेवो विहारशयनासनैः ।
सरःप्रान्तोरुकलशधारासारोर्ध्ववशीकरैः ॥ ४६॥
यन्नीरतीरगन्धोद्यद्धारासारौघशीकरैः ।
कदाचित्तत्र मध्यस्थो देव्या व्यजनहस्तया ॥ ४७॥
सेवितश्श्रीमहेशानः क्वचित्पीठस्थितश्शिवः ।
तत्र नानाविधाः क्रीडा देव्या चक्रे महेश्वरः ॥ ४८॥
विचित्राणां चरित्राणां त्रिणेत्रप्रियकाम्यया ।
देव्या प्रमुदितो देवस्तत्र सौधवरेषु च ॥ ४९॥
काश्चित्तत्र वदाम्यद्य शृणु भूसुर शाम्भव ।
विपिने सरसस्तीरे प्रासादाग्रेव गोपुरे ॥ ५०॥
विजहार महादेवो भवान्या शङ्करस्तदा ।
शैलमालोकयद्देवो देव्या देवी सखीगणैः ॥ ५१॥
अदर्शयद्विचित्राणि तस्मिन्कैलासपर्वते ॥ ५२॥
सालतालकृतमालतमालैरामलक्यवकुलार्जुनपाटलैः ।
पानसैलिकुचवाह्लिकनीपैर्दाडिमैश्च सुरसालरसालैः ॥ ५३॥
जम्बूनिम्बकदम्बजैः फलभरैस्तक्कोलहिन्तालकै-
रङ्कोलेस्सरलैरशोकतिलकैस्तिन्दूकमालूरकैः ।
पुन्नागैर्नगनागसर्जरसिकैः चाम्पेयमाधूककैः
प्लक्षाश्वत्थकपित्थतिन्त्रिणिभवैर्भूनिम्बजालैर्धवैः ॥ ५४॥
क(व)टकुटजकुरण्ठैः कर्णिकाराश्वमारैः खरबदरपलाशैर्लोद्ध्रसञ्चन्दनैश्च ।
कुरवकशुकतुण्डैश्शिंशुपाचेङ्गदीभिर्लिङ्कुचविकचभण्डः केतकैस्मिन्दुवारैः ॥ ५५॥
केदारकोविदारैश्च देवदारुकपित्थकैः ।
तगरागरुकृष्णाभ्रैस्तुङ्गनीपककम्रकैः ॥ ५६॥
मन्दारद्वयपारिजातवकजैरर्कैश्च सप्तछदैः
पूगीनारलखर्जुरैश्च कुटजैर्नारङ्गजातिद्रुमैः ।
प्लक्षोदुम्बरकन्दलैर्मुनिभवै राजादनैर्बर्बरैः
शल्मल्यैर्वरशिग्रुकैर्मधुभवैस्सन्मालिङ्गैरपि ॥ ५७॥
भूतावासहरीतकीत्रिकटुकैश्शम्युद्भवैः किन्दरैः
प्राचीनामलकैः करञ्जककुभैर्गन्धात्तजम्बूफलैः ।
बन्धूकैश्चिरिबिल्वजैश्च तरगैः कृष्णागरूत्थैर्दुमैः
मालिङ्गेश्च शिरीषकैः कुसुमितैरन्यैश्च शाखाशतैः ॥ ५८॥
मल्लीमालतिजातिकासुरभितैस्सायन्तनोन्निद्रितैः
चन्द्रासारविकासितैरतिसितैस्सच्चन्द्रिकावल्लिभिः ।
वल्लीनान्निवहैः कदम्बजरजस्सन्दोहगन्धानिलैः
उत्फुल्लैस्तिलकैस्तमालजसुमैः फुलैर्लसत्केसरैः ॥ ५९॥
कुन्दैरिन्दुकरप्रसारितमुखैरालोलसप्तछदैः
कौसुम्भैररुणप्रभासुमधुरैः प्रोद्भूतसत्केसरैः ।
द्राक्षागुच्छसुवल्लिकासितसिताः पुण्ड्रेक्षुसाराकराः
पूगद्रुङ्गवलीकृताङ्गमधुरास्सन्नागवल्लीलताः ॥ ६०॥
मन्दारसुन्दरतरुप्रकरैः प्रफुल्लैरुत्फुल्लदाडिमसुमैर्बककर्णिकारैः ।
पीतायमानसुषमायुतचम्पकैस्तैरुत्फुल्लपाटलकदम्बजराजवृक्षैः ॥ ६१॥
सत्किंशुकैश्शुकमुखैर्वरशल्मलीभिः पुन्नागनागनवनीपसुमैः प्रफुल्लैः ।
भारतिभारशिखरैः कलधौतशैलः पश्याम्बिकेऽद्य सुमनोहरवृक्षसङ्घैः ॥ ६२॥
वल्लीविकासिततनुः प्रसभं भवानि प्रोद्यत्सुधांशुचयकोटिनिभो विभाति ॥ ६३॥
उत्फुल्लामलपुण्डरीककुमुदैर्नीलोत्पलैस्सुन्दरैः
आरक्ताम्बुजकञ्जनीभिरभितस्मद्रत्नसोपानकैः ।
तत्प्रान्तामलबिल्वमूलजमहालिङ्गाकृतिश्शङ्करः
तुष्यत्येव सरस्सुरुद्गणपैर्देव्यागिरीन्द्रेऽधिकम् ॥ ६३॥
तद्ध्यानधारामृतपानपीनास्स्वात्मैकताना इव चक्रवाकाः ।
सरस्सु कलोलचलाक्तपक्षा हंसा बकास्सारसपङ्क्तयथ ॥ ६४॥
नार्द्रीकृताङ्गाः खलु सञ्चरन्ति भावा भवाब्धाविव मे प्रभावात् ॥ ६५॥
कपिवरकुलमाद्यचालनालोकनाद्यैः फलपतनजवर्शैः पुष्परेणप्रकीर्णैः ।
शिखरिशिखरसारा भूमयश्शोशुभन्ते करिकटमदधाराप्रस्रवैः पङ्किलाश्च ॥ ६६॥
शुकबकपिककाककोकधूकैः निभृतविनादितचक्रवाकपाकैः ।
गहनविपिनशाखिमस्तसंस्थामधुरारावविनादिचक्रवाकैः ॥ ६७॥
गिरिवरशिखराग्रे नृत्तसाटोपवबर्हाहरिकुलकृतघोषै-
र्वृद्धितर्वारणानां कैलासप्रासादवर्णनम् ।
गिरिशिरसि निनादैस्सारसानां शुकानां
पिकरवकलकण्ठैर्नादितस्तद्गृहान्तः ॥ ६८॥
महिषचमरकुञ्जदन्तशृङ्गैः खरखुरघट्टनशैलसानुनिम्नः ।
सुमनजगतवायुबन्धुरानुमोदद्रुमरजसङ्कृतिद्रोणिलम्बिक्षौद्रः ॥ ६९॥
फलकुलसुमभारदीर्घितानम्रशाखाव्रज-
दलिकुलमालानीलनीलाब्जतुल्याः ।
मधुररसमुपेशीलम्बहस्ताग्रशाखा
हरगिरिवरभागा भान्ति सौवर्णवृक्षाः ॥ ७०॥
कलधौतनगप्रशस्तमुस्तापुलकाम्रेडितकोलजालमेतत् ।
सितदंष्ट्रोत्थितघोणघर्घरोरुरावं पश्यमुदागिरीन्द्रजाते ॥ ७१॥
हरिखरनखरैर्विदारितोद्यत्करिकुम्भोद्यत-
रक्तयुक्तमुक्तामणिजालावृतभूमिभागमेतत् ।
द्विपकुलमिदमत्युदारघोषं हरिणो धावति सिह्मनादभीतः ॥ ७२॥
वल्मीकोर्ध्वफणम्फणीश्वरकुलं वातोत्थदिक्चक्रक-
ञ्चार्तत्रस्तविलोचनं हरिरवैर्भीत्या प्रसूतं शिशुम् ।
त्यक्त्वा धावति पश्य पश्य गिरिजे प्रोड्डीनमेणीकुलम् ॥ ७३॥
कैलासाचलरत्नसौधगमहासिह्मासनाद्ध्यासितो
देव्युत्फुल्लमुखारविन्दविगलन्माध्वीकसारं मधु ।
पीत्वा लोचनषट्पदैर्वदति तां पश्येति लिङ्गान्युमे
बिल्वी कोमलपल्लवैरनुदिनङ्कैलासशृङ्गेऽर्चितम् ॥ ७४॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये स्कन्दप्रोक्तं कैलासप्रासादवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १७ - कैलासप्रासादवर्णनम् । ४३-७४॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 17 - kailAsaprAsAdavarNanam . 43-74..
Notes:
Skanda स्कन्द describes in detail the principal abode of Śiva शिव at Mount Kailāsa कैलास प्रासाद.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan