कैलाससभासु नृत्तवर्णनम् २
(रत्नसभापतीश्वर शिवस्तवः २)
स्कन्दः -
तद्दक्षिणे रत्नलकॢप्तसदोमध्ये महेश्वरः ।
नृत्यत्यम्बामुदे देवस्तच्छृणुष्व मुनीश्वर ॥ ३८॥
- -
गण्डान्दोलितकुण्डलीश्वरमहाश्रीकुण्डलं ताण्डवे
पाण्डित्यं घटयन्तमण्डजमुखैश्चण्डेश्वराद्यैर्गणैः ।
स्तोष्यन्तं निगमान्तसारवचसामोघैरमोघैश्शिवं
नृत्यन्तं रजताद्रिरत्नसदसि श्रीनीलकण्ठं भजे ॥ ३९॥
तण्डूद्दामगिरो जयन्ति सविधं श्रीकैटभारे त्यज
ब्रह्मन्ब्रह्मरवांश्च संहर हरे दूरं परं सारय ।
इत्थं नर्तकचक्रवर्तिनिकटे नृत्योन्मुखे तादृशं
नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४०॥
नृत्तान्दोलचलच्छिखामृतगलत्खण्डेन्दुसान्द्रोच्चये
भ्राजत्पाटलमण्डलारुणलसद्वृन्दारकाणां गणे ।
मग्नोभुग्नवलग्ननग्ननिभृते चूडाहिवृन्दोछवस-
न्नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४१॥
नर्तार्तस्य पदद्वयोः प्लुतिचलद्धेमाद्रिसोमार्यमा-
क्ष्माशेषादिककम्पनं विदधतं नृत्यन्तमीषत्स्मितम् ।
देवी पश्यति शङ्करं च सुमहत्सानन्दनन्दोन्मुखं
नृत्यन्तं रजताद्रिरत्नसदसि पश्यामि शम्भुं सदा ॥ ४२॥
यस्मिन्नृत्यत्वमीशे विदधति भरितानन्दसन्दोहधाम्नि
भूषास्पन्दनहानिशङ्किहृदयो मन्दं विधत्ते पदम् ।
यो वासश्शिथिलं भवेदिति करानातन्वते निस्यदा-
न्केशाकुञ्चनतः करोति भगवान्केन्दूच चक्रोत्तमौ ॥ ४३॥
नानर्ति प्रसभं प्रसन्नहृदयो रात्ने सभायां शिवः ॥ ४४॥
इत्थं राजतशैले च देवो रत्नसभान्तरे ।
नृत्तं वितनुते देव्याः पुरतस्सायमीश्वरः ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् २ - रत्नसभापतीश्वर शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ३८-४५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 38-45..
Notes:
Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Mahāratnasabhā महारत्नसभा (Bejewelled Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Southern quarter.
Encoded and proofread by Ruma Dewan