कैलाससभासु नृत्तवर्णनम् ३
(कलधौत(रजत)सभापतीश्वर शिवस्तवः ३)
श्रीस्कन्दः -
पश्चात्सभायां रजतकल्पितायां महेश्वरः ।
नृत्यत्यम्बा मुखं वीक्ष्य गणवृन्दसमन्वितः ॥ ४६॥
- -
नृत्यन्तं हरिभूषणं विधिशिरोवृन्दालिमालालस-
द्वामाङ्गाकृतिसत्स्त्रिया युतपदे केयूरशिञ्जत्स्वनम् ।
कट्यां सामजचर्मवस्त्रकलितं नृत्यन्तमाशावसं
बद्धार्धाङ्गकलेन बालकलितोत्तंसान्वितांसा वयम् ॥
नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम् ॥ ४७॥
वाग्गुम्भान्विविधानकृत्रिममयानम्भोजजाते वद-
त्यानन्दाम्बुधिमग्नचेतसि परे गोविन्दपूज्ये हरे ।
मन्दं मन्दमरन्दपाभिरखिले वृन्दारकाणाङ्गणे
नृत्यन्तं कलधौतसारसदसि ध्यायामि नृत्तोन्मुखम् ॥ ४८॥
यस्मिन् नृत्यति जङ्गमाचरमिदं विश्वं नरीनृत्यति
यस्माद्भिन्नतया नकिञ्चिदपि वै वक्तुं नशक्यं बुधैः ।
तादृशं नटनार्भटीकृतरुचिं भूषाहिशेषोज्वलं
नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ४९॥
चेतस्त्वं भज यद्गतो न पुनरावृत्तिं भजेन्मानवो
यस्माच्चित्रतरं न किञ्चिदधिकं तत्तादृशन्ताण्डवम् ।
कुर्वन्तं करुणाम्बुधिं त्रिणयनं श्रीकालकूटोज्वलं
नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ५०॥
यस्मिन्भ्राम्यति बम्भ्रमीति सकलं विश्वश्चाराद्यात्मकं
यस्मिन्नुत्प्लुतिमाचरत्यविकलं ब्रह्माण्डमुद्भियते ।
यद्भासा प्रविभान्ति भास्करनिशानाथादयस्सन्ततं
नृत्यन्तं कलधौतसारसदसि ध्यायामि शम्भोः पदम् ॥ ५१॥
यस्मिन्नापतिते न शर्म लभते कूर्मोऽपि भग्नस्थिको
नृत्तायासविनिर्गतोरुनयनश्रोत्रोत्थफूत्कारकः ।
साङ्गा सा श्रुतिरित्युपेन्द्रसदृशास्तस्याश्रयाज्जीविनः ॥ ५२॥
यस्य स्वेदजलं महोदधिरपि प्रोद्यन्मणीनां गणो
रौप्याद्रौ कलधौतसारसदसि श्रीनीलकण्ठं भजे ॥ ५३॥
एवं स नृत्यतीशानः कैलासकलधौतजे ।
सदसि स्वैरमम्बायाः पुरतश्शशिशेखरः ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलाससभासु नृत्तवर्णनम् ३ - कलधौत(रजत)सभापतीश्वर शिवस्तवः ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३३ - सभासु नृत्तवर्णनम् । ४६-५४॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 33 - sabhAsu nRRittavarNanam . 46-54..
Notes:
Skanda स्कन्द renders a eulogising prayer to Śiva शिव (the Sabhāpati सभापति) at Kailāsa कैलास, where He conducts His Dance Divine in the Rajatasabhā रजतसभा (Silver Assembly) - which is one of the four constituent sabhā-s सभासु (assemblies), and is located in the Western quarter.
Encoded and proofread by Ruma Dewan